________________
२४८ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः लब्धिप्रतिघातकृत् ; तर्हि पटाभावः सकलस्य उपलब्धिप्रतिबन्धकारी स्यात् प्रत्यासत्ति [२०२ख] विप्रकर्षाभावात् । अद्या (अन्या) भावेनापि भावस्य विशेषणीभावस्य अस्य (अन्यस्य) वा सम्बन्धस्य परं प्रत्यसिद्धत्वात् , अनवस्थानात् ] सम्बन्धान्तराभावात् । यदि पुनः, विशेषणीभावः
अपरसम्बन्धरहितोऽपि कस्यचिदुच्यते; तर्हि समवायाद्यभावेऽपि गुणादिः कस्यचिदुच्यताम५ विशेषात् । इन्द्रियेणाऽसम्बद्धस्य च तस्य ग्रहणे किमत्र [किमन्यत्र] इन्द्रियस्य विषयेण सम्बन्धकल्पनेन ?
किञ्च, प्रध्वंसनाशवत् प्रागभावनाशोऽपि घटोपलब्धि प्रतिबध्नाति इति न पुनः [घटोत्पत्तिः स्यात् । अथ] घटभावेने तत्त्वाशयस्यु (तत्प्रागभावस्य) तिरस्कारात् नासौ तर्नुपलब्धि
प्रतिबन्धकः; किमसौ तद्भावः प्रध्वंसकाले नास्ति येन तस्कारैको (तत्तिरस्कारको) न भवेत् । न १० चैकस्य एकत्र क्रियाऽक्रिये विरोधात् । अनादित्वात् प्रागभावस्य गगनादिवन्न नाश इत्येके; तेषां
प्रागिव घटोत्पत्तिकाले दृश्यः सन् उपलभ्यते इति तदापि घटो नाद्यापि उत्पद्यते इति प्रतीतिः स्यात् पूर्ववत् । अथ घटभावेन तिरस्कार।त् सतोऽपि तारानिकरस्येव भास्वता तस्याऽनुपलम्भनम् ; नित्यस्य स्वविषयविज्ञानोत्पादनयोग्यस्य (स्याऽ) समग्रेतरकारणस्य ति[रस्कारा]योगात् । न
च नित्यव्यापिनो व्यवधानं शब्दवत् । तदेवम् अनुपलब्धिकारणेषु दूरत्वादिषु असत्स्वपि अनुप१५ लभ्यमानोऽपि [२०३क] यदि प्रागभावो धटकालेऽस्ति शब्दः ताल्वादिव्यापारात् पूर्वमूर्ध्वं च तथा अस्ति इति तस्य आकाशकार्यगुणत्वकल्पनमयुक्तम् ।
ननु यथा नित्यव्यापिनः सतो दृश्यस्यापि गोत्वादेः केनचित् तिरस्कारस्तथा अत्रापि स्यादिति चेत् ; न; तत्रापि समत्वाद् दोषस्य । यदि पुनरेतन्मतम्-"तदभावेन "तस्य दृश्यताख
ण्डनातिरस्कार इति; तर्हि प्रागभावस्यापि नाशोऽभ्युपगतः स्यात् । अपि च, प्रध्वंसस्यापि २. "तदभावः तिरस्कारकोऽस्तु भावतिरस्कारकत्वात् प्रागभाववत् । अस्याऽनभ्युपगमे नानुमानव्यवस्था । ततः सूक्तम्-हेतुत्व इत्यादि ।
_अत्र केचित् चोदयन्ति-यदि भावाद् मिन्नं विनाशमुद्दिश्य इदं दूषणमुच्यते सूरिणा, तर्हि भावस्य 'तत्कालेऽपि तदवस्थस्यैव भावात् किमर्थमुच्यते-'विनाशस्य नाशाद्भावः पुनर्भ
वेत्' इति । नहि गगनादेः सतः पुनर्भावो युक्तः। अथ 'पुनर्भवेत्' इति 'पूर्ववद् दर्शनादि२. विषयो भवेत्' इति व्याख्यायते; तदपि न सुन्दरम् ; "तदापि ततः तद्विषयतानिषेधात् । इति
ना अस्यापि दोषस्य अत्रैव निर्देशात् । तथाहि-हेतु[म] त्वे विनाशस्य अभ्युपगमम्यमाने नाशात् ततो विनाशात् सकाशाद् भावो घटादिः पुनः इति अवधारणार्थः, अन्य[थेत्य]स्य अनन्तरं द्रष्टव्यः, अन्यथैव अन्येन एवकारेण एकान्तेन भिन्न इत्यर्थः भवेत् साधदि (स्यात् यदि) इति शेषः । अत्र पक्षे दूषणम् ऐकान्तिका इत्यादि । न इत्ययं भिन्न प्रक्रमः ऐका
(१) द्रव्यस्य । (२) अभावस्य । (३) सन्निकर्ष । (४) अभावत्वाविशेषात् । (५) घटोत्पादेन । (६) घटोपलब्धि । (७) प्रागभावः । (८) घटोत्पत्तिकालेऽपि प्रागभावः स्यादिति । (९) प्रागभावस्य । (१०) शब्दस्य । (११) प्रागभावाभावेन । (१२) प्रागभावस्य । (१३) प्रध्वंसाभावाभावः । (१४) एतदनुमानानभ्युपगमे । (१५) विनाशकालेऽपि । (१६) पूर्वमपि । (१७) इतिशब्देन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org