________________
४।६] अन्वपिन आत्मन : प्रतिभासनम्
२४७ सतो विनाशस्य स्वभावं करोति न सत्तासम्बन्धमिति चेत् ; कः पुनर्भावानामन्योन्याभावप्रागभावकर्ता ? यतस्तत्स्वभावस्थितिः। अस्ति कश्चिद्विशेषः । परस्परस्वभावदेशकालपरिहारपरिणतिमभावं विद्मः । तथा हेतुमत्त्वं क्षणिकस्य विरुद्धप्रमाणबाधितम् । न हि अतीतेन वर्तमानस्य तद्वत्ता अतिप्रसङ्गात् ।]
अत्रायमभिप्रायः-एकान्तवादिकल्पितस्य वस्तुनः प्रमाणाभावेन असत्त्वान्न तस्य हेतुर्वा ५ (तुना) विनाश इत्युक्ति (क्तः) लौकिकस्य अर्थस्य परेण स विनाशः कल्पनीयः, तत्रापि पूर्वोत्तराकारपरिहारावाप्तिलक्षणविकारस्य विनाशोत्पत्तिव्यपदेशे उभयत्रापि जैनमतसिद्धिः इत्युक्तमनन्तरप्रस्तावे अहेतुविनाशपक्षे *"उत्पादस्थितिभङ्गानाम्" [सिद्धिवि० ३।१७] इत्यादिना, सहेतुविनाशपक्षेऽपि *"अनादिनिधनं द्रव्यमुत्पित्सु खासुश (स्थास्नु)नश्वरम् ।" [सिद्धिवि० ३।२१] इत्यादिना । ततः तद्भयात् तेन नाशोत्पादवत उत्पाद एकान्तेन भिन्नः अभ्यु- १० पगन्तव्यः । एवं च विनाशस्य भावादेकान्तेन भिन्नस्य प्रध्वंसस्य हेतुमत्त्वे सकारणत्वे अभ्युपगम्यमाने नाशात् प्रध्वंसात् 'विनाशस्य' इत्यनुवर्त्तते भावो घटादिः पुनर्भवेत् स्वोपलम्भार्थक्रियाकारी पूर्ववत् पश्चादपि स्यादित्यर्थः । एतदुक्तं भवति-परव्यापाराज्जायमानो नाशः अन्यो' वा कृतको भवति, *"अपेक्षितपरव्यापारो हि भावः [२०२क] कृतकः" [न्यायबि० ३।१४] इति वचनात् । कुतश्चिद् भवतोऽस्यापि भावव्यपदेशाविरोधात् , १५ कृतकश्च घटादिवदवश्यं नश्यति इति । ननु यस्य कृतकः स्वकारणान्नश्वरो जायते भवतु तस्याऽयं दोषो नास्माकम् , अनश्वरकृतकोऽपि हि भावः विनाशकारणसन्निपाताद् विनश्यति न स्वभावतः । न च नाशस्य नाशकं कारणमस्ति इत्येके ; तत्राह-नान्यथैकान्तिका इत्यादि । विनाशस्य नाशाभावप्रकारेण अन्यथा नैकान्तिकाः अव्यभि (ऐकान्तिकाः व्यभि) चारिणो न सर्वे निरवशेषाः अनैकान्तिकाः स्युः इत्यर्थः । के ? इत्याह-हेतुमन्नाशहेतवः सकारण. २० प्रध्वंसस्य हेतवः लिङ्गानि कृतकत्वादीनि । यदि वा, तद्धतवः तत्कारणानि मुद्गरादीनि । यथैव हि विनाशकृतकत्वेऽपि न तन्नाशहेतवः अवश्यंभाविनः तथा घटादिविनाशहेतवोऽपि ।
अत्र अन्येषां दर्शनम्-[विनाशस्य विनाशेऽपि भावस्य न प्रादुर्भावः, नहि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भाव इति; तन्न सारम् ; वैषम्याद् दृष्टान्तदाान्तिकयोः । नहि यथा भावस्य प्रध्वंसभावः तथा देवदत्तस्य हन्ताऽपि, तेने आत्मनोऽन्यस्य देवदत्तेऽभावस्य॑ विधानात् । २५ अस्य नाशे भवत्येव तस्य प्रादुर्भावः, इतरथा तदभाववैफल्यम् , तस्मिन् सति जीवतोऽपि देवदत्तस्य अदर्शनप्रसङ्गः ।
___ अन्ये तु ब्रुवते-घटस्य प्रध्वंसवत् तत्प्रध्वंसोऽपि उपलब्धि प्रतिबध्नाति इति तंददर्शनमिति; तदपि न सूक्तम् ; अतिप्रसङ्गात् । तथाहि-यदि अन्यामावोऽन्यस्य उप
(१) जैनमतसिद्धिभयात् । (२) उत्पादो वा । (३) नाशस्यापि । (४) प्रध्वंसरूपेण परिणतिः तथा हन्तुः देवतत्तविनाशरूपेण परिणतिः। (५) हन्त्रा। (६)तिरोधानस्य । (७) तिरोधानात्मकस्य अभावस्य । (८) प्रध्वंसप्रध्वंसोऽपि । (९) प्रध्वंसरूपस्य कपालस्य नाशेऽपि घटस्य दर्शनं न भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org