________________
२४६
सिद्धिविनिश्चयटीकायाम्
[ ४ जीवसिद्धिः
तत्र नित्यम् आगमगम्यत्वेन ‘अयम्' इत्युल्लेखाभावात् । नतु (ननु ) आगमवत् तत्र स्वसंवेदनाध्यक्षमपि व्याप्रियते ततोऽयमदोष इति चेत्; अत्राह - 'परा' इत्यादि । परावृत्तः अपसृतः परस्माद् आत्मान्तराद् घटादेश्च तथाप्रतीतेः । नैवं ब्रह्मात्मा; तदद्वैतोपरमात्। मदीय आत्मा तथा इति सांख्यः ; तत्राह - सर्वतः सर्वेण स्वरूपेण इव देशादिनापि परावृत्तः । सर्वतः ५ आद्यादिपाठान्तम् । यदि वा, सर्वस्मात् सर्वतः नैवं सांख्यात्मा सर्वथा *"सर्वं सर्वत्र विद्यते " इत्यस्य विरोधात् । अनेन आत्मनः सर्वगतत्वसाधनं सर्वमध्यक्ष [ बाधित ] मिति दर्शयति ।
प्रतिक्षणनाशिक्षणसन्तानात्मा इत्थम्भूत इति सौगत:; तत्राह - प्रतिक्षणम् इत्यादि । क्षणं क्षणं प्रति आत्मानं स्वरूपं जहदपि नात्यन्ताय ' नात्यन्तम्' इत्यस्यार्थेऽवंत (र्थे चतुर्थ्यन्त) प्रतिरूपकोऽयं निपातो वर्त्तते, जहाति किन्तु कथञ्चित् । कुत एतत् ? इत्यत्राह - १० स्वगुण इत्यादि । स्वे आत्मीया ये गुणा ये च पर्याया न द्रव्यान्तरसम्बन्धिनः तेषु अन्वयः अनुगमनम् तस्य लक्षणं प्रहृणं स एव [वा ] लक्षणं स्वरूपं यस्य तत्तथोक्तम् तस्य भावात् तद्वस्तुनः चेतनस्य इतरस्य वा भावस्य । आत्मनि प्रकृते । अपि च, वस्तुन इति सामान्यवचनं दृष्ट न पराभ्युपेतोपलब्धिः इत्यस्य प्रदर्शनार्थम् । एतदपि कुत: ? इत्याह- तद्व्यतिरेकेण इत्यादि । तद्व्यतिरेकेण अनन्तरवर्णित [ २०१ख] वस्तुव्यतिरेकेण भावस्य ब्रह्मण इव निरंशविज्ञान १५ सन्तानस्यापि अनुपपत्तेः प्रमाणाभावादिति मन्यते । ततः किं जातम् ? इत्याह- कुतो न कश्चित् (कुतश्चित्) सहेतुः सकारणो अहेतुर्वा अकारणो वा अपिना * [ “यो यद्भावं प्रत्यन्यानपेक्षः स तत्स्वभावनियतः यथा अन्त्या कारण] सामग्री स्वस्वकार्योत्पादनं प्रति अनपेक्षया (क्षा) सती लअ (तद्) भावनियता, विनाशं प्रति अनपेक्षश्च भावः" इति दुर्भाषितं साध्याद्यन्त्यधर्म्यसिद्धि: ( ? ) ।
२०
पुनरपि परस्य सहेतुके विनाशे दोषमुपदर्शयन्नाह - हेतुमत्त्वे इत्यादि । [ हेतु विनाशस्य नाशाद्भावः पुनर्भवेत् । नान्यथैकान्तिकाः सर्वेऽहेतुमन्नाशहेतवः ॥६॥
विनाशो यदि भावस्वभावो न भवेत् तस्य किं कुर्वाणो हेतुः स्यात् ? न तावदुत्पादयति ; पूर्वावधिपरिच्छिन्नवस्तुसत्तासम्बन्धलक्षणत्वादुत्पत्तेः । तस्य कथञ्चित् केनापि २५ कार्यत्वे भावस्वभावानतिक्रान्तेः भावः स्यात्, तल्लक्षणत्वाद् वस्तुनः । कादाचित्कं सदकार्यमिति प्रक्रियाव्यावर्णनमात्रं विरोधात् । तथा अनुत्पत्तिधर्मकम् अनाधेयाग्रहेयातिशयात्मकं तथा स्वविनाशहेतुभावान्न विनश्यतीति । विनाशे वा विनष्टस्य सत्ता । यदि वा सतोऽनुपत्तिः उत्पत्तिहेत्वभावात् । घटादेरप्येवं प्रसङ्गात् । स्वसामग्रीजन्मनः तद्विनाशकारणस्यावश्यंभावनियमाभावान्न कश्चिद्धेतुरव्यभिचारी स्यात् । विनाशहेतुः प्राग
(१) परव्यावृत्तः । ( २ ) परस्वीकारे अद्वैतवादविरोधः । (३) चतुर्थीप्रतिरूपको निपातः । ( ४ ) तुलना - "ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः, यथा समनन्तरफला सामग्री स्वकार्योत्पादने नियता, विनाशं प्रत्यनपेक्षाश्च सर्वे जन्मिनः कृतका भावा इति स्वभावहेतुः । - तत्त्वसं० प० पृ० १३२ । द्रष्टव्यम् - पृ० टि० ...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org