________________
४५ ] अन्वयिन आत्मनः प्रतिभासनम्
२४५ जहाति स्वगुणपर्यायान्वयलक्षणत्वात् तद्वस्तुनः । तद्व्यतिरेकभावस्यानुपपत्तेः कुतः सहेतुरहेतुर्वापि ।]
अभ्रान्तं जाग्रदशायां स्वरूपेऽपि वा, भ्रान्तं स्वप्नावस्थायां ग्राह्याकारे च आत्मानं स्वभावं प्रतिक्षणं क्षणं क्षणं प्रति अमुञ्चती स्वीकुर्वाणा दद्धिः [बुद्धिः] सर्वस्य प्रतीतिविशेषः । सा किं करोति ? इत्याह-'सीत्वा' इत्यादि । च शब्दः अपिशब्दार्थः भिन्नप्रक्रमः ५ 'मुञ्चत्यात्मचेतनाम्' इत्यस्यानन्तरं द्रष्टव्यः । 'न' इत्यपि निपातानामनेकार्थत्वात् ननि (ननु इ)त्यस्य अर्थे', आक्षेपे । ततोऽयमर्थः-बुद्धिः ननु आत्मचेतनामपि न केवलं गुणिनमवयति तं परिणामिनं मुञ्चति जहाति, सकलशून्यता स्यादिति मन्यते । किं कृत्वा ? इत्याहसदित्वा इति सूक्ष्मपरीक्षया स्थूलाद्य कस्वभावापि कथित (कथित) फलवत् निरंशाऽनेकपरमाणुदशायां गंधा (गत्वा)। पुनरपि किं कृत्वा ? सीत्वा तादृक्षसाऽनन्दने (तादृक् स्वसंवेदने) १० बहिः परमाणुवत् मृता इत्यर्थः । तथा च सर्वदात्वे जगति जाते प्रतिभासमात्रस्यापि प्रत्यस्तमयात् [२००ख] किमाश्रयोऽयं कारणादीनां प्रतिषेधं ब्रूयादिति मन्यते । अनेन मध्यविकल्पद्वयं निरस्तम् ।
अन्त्यविकल्पमाश्रित्य इदमपरं व्याख्यानम्-भ्रान्तमात्मानम् अमुञ्चती, इतरथा *"मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽप्यदोषः" [प्र. वार्तिकाल० ३।२११] इत्यस्य १५ व्यवस्थापकप्रमाणाभावेन प्रतिज्ञामात्रत्वप्रसङ्गात् । न खलु विभ्रमाद् विभ्रमसिद्धिः; अतिप्रसङ्गात् । भ्रान्तमात्मानममुञ्चन्ती बहिरन्तश्च विरुद्धधर्माध्यासिनो विचाराक्षमस्य स्वभावस्यापि तत्र प्रतिभासनात् प्रतिक्षणं 'बुद्धिः' इति उभयत्र संबध्यते। किं करोति ? इत्याह-नमुञ्चत्यात्मचेतनाम् आत्मापरनामिकां पूर्वापरपर्यायां नयती (न्ती) चेतनां न जहाति इत्यर्थः । किं कृत्वा ? इत्याह-सीत्वा सदित्वाच (त्वा च) इति लौकिकी वचनप्रवृत्तिरियम् । २० यदि वा, तमात्मानं प्रतिक्षणममुञ्चती बुद्धिः 'स्वभावात्(न्) प्रतिक्षणविलक्षणाद् (न्) अनुवर्तते' इति गतया कारिकया सम्बन्धः ।
ननु न भ्रान्तं नापि अभ्रान्तमात्मानं बुद्धिः बिभर्ति तस्मान्तम् (तस्यात्यन्तम) भावात् सर्वविकल्पातीतत्वात्तत्त्वस्येति चेत् ; अत्राह-सीत (त्वा) इत्यादि । आत्मचेतनां स्वप्रकाशं न मुञ्चन्ती अन्यथा स्थूलादिग्राह्यरूपवत् सत्परित्यागे बहिरर्थसत्त्ववद् भ्रान्तेतरविवेकोऽपि न २५ सिध्येदिति *"अज्ञानार्थकोऽसौ (अज्ञातार्थप्रकाशो वा) इति पारमार्थिकं प्रमाणलक्षणम्" इति प्लवते ।
स्वाभिमतप्रदर्शनपरं कारिकार्थं दर्शयन्नाह-चेतनोऽयम् इत्यादि । चेतनः स्वपरग्रहणस्वभावः आत्मा 'एकः' इति गतेन सम्बन्धतः (न्धः, न) [२०१क] नैयायिकादिपरिकल्पितः अयम् इति स्वसंवेदनाध्यक्षेण ईक्षमानः (णः).अहमि (अहमहमि)कया न पुरुषाद्वैतवादिसांख्यकल्पितः, ३०
(१) द्रष्टव्य इति सम्बन्धः । (२) 'क्वथितफलवत्' शीर्णफलवत् इत्यर्थः । (३) "तन्त्र पारमार्थिकप्रमाणलक्षणमेतत् । पूर्व तु सांव्यवहारिकस्य-प्रमाणवार्तिकाल. श६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org