________________
सिद्धिविनिश्चयटीकायाम
[४ जीवसिद्धिः अविषयीकृतादपि तर्हि विनिवृत्तिः प्रतीयते' इत्यायातम् । अपि च, अयं स्वयमेव सर्वविकल्पान् प्रतिपद्यमानोऽपि तदतीतं तत्त्वं प्रतिपद्यते वदति च *"नाविषयीकृताद् विनिवृत्तिसिद्धिः" इति तत्कारी तद्वेषी चेति उपेक्षामर्हति ।
यच्चान्यदुक्तम्-[१९९ख] 'अनन्यवेद्येषु वेदनेषु न चान्यवेदनम्'; तदपि न सुन्दरम् ; ५ प्रतिभासाद्वैताऽसिद्धिप्रसङ्गात् सर्वसंविदां निरालम्बनत्वाऽसिद्धेः। ततः सूक्तम्-'अन्यतो विनिवृता धीः' इति । ____ कारिकां व्याख्यातुमाह-सर्वतोऽन्यस्माद इत्यादि । सर्वतो विजातीयात् उपादानोपादेयाभि (यानभि) मतात् क्षणाद् अन्यस्मात् स्वतो भिन्नाद् व्यावृत्तम् अपसृतं चित्तं ज्ञानं परिकल्प्य ।
कथम्भूतम् ? इत्याह-बहिरन्तर्मुखभ्रान्तात् तत्स्वभावाच्चपि (भ्रान्ताऽभ्रान्तस्वभावान्वयि) १० बहिश्च अन्तश्च मुखमवभासनं ययोः तौ तथोक्तौ तौ च तौ भ्रान्ताऽभ्रान्तस्वभावौ तौ अन्वेतुं
शीलम् , तदन्वयो वा अस्यास्तीति तदन्वयि बहिर्मुखाभ्रान्तस्वभावान्वयि । यदि वा, बहिरन्तर्मुखौ यो स्वभावौ भ्रान्तौ च (भ्रान्ताभ्रान्तौ च) यो स्वभावौ तान् अन्वेतुं शीलमिति ग्राह्यम् । तथाहि-परस्य सर्वं विकल्पज्ञानं स्वरूपे अभ्रान्तम् , *"सर्वचित्तचैत्तानाम्" [न्याय
बि० १।१०] इत्यादि वचनात् , बहिः अर्थरूपे भ्रान्तम् *"भ्रान्तिरपि सम्बन्धतः प्रमा" १५ इत्यादि वचनात्” । उपलक्षणमेतत् , तेन अविकल्पेतरनीलेतरस्वभावान्वयि गृह्यते । पुनरपि
किम्भूतम् ? इत्याह-अक्षण (तत्क्षण) स्थितिधर्मकम् । न चैतत् 'सर्वतोऽन्यस्याद् व्यावृत्तम्' इत्यनेनैव कथितमिति किं पुनरुच्यते, यद् विसवंतो (यद्धि सर्वतो) व्यावृत्तं तत्क्षणस्थितिधर्मकमेव, अन्यथा न कं (न तत् ) सर्वतो व्यावृत्तमिति चेत् ; सत्यम् ; तथापि यः पूर्वापरक्षण
व्यावृत्तं नेच्छति तं प्रति तत्साधनार्थमिदं तत्क्षण इत्यादि । तथाहि-यस्मात् क्षणस्थितिधर्मकं २० नश्वरस्वभावं [२००क] तस्मात् नाशं प्रति अनपेक्षणात् प्रतिक्षणं नाशनियतमिति । यदि वा, पूर्वेण सहभाविनः सर्वस्माद् व्यावृत्तमुक्तम्, एतेन 'पूर्वापराभ्याम्' इति विशेषः । किं करोति ? इत्याह-प्रतिक्षिपति-निराकरोति । किम् ? इत्याह-आत्मानमेव जीवमेव न तच्चित्तमेव इति एवकारार्थः । किम्भूतम् ? इत्याह-स्वगुण इत्यादि । पुनरपि • कथम्भूतम् ? इत्याह-स्वतः इत्यादि । स्वतः आत्मनैव संवेदननिष्ठितम् इति हेतोः अयुक्तम् अनुपपन्नम् परस्य सर्वमिति । २५
सांप्रतम् उत्तरं विकल्पवयं दूषयितुकाम आह-'अभ्रान्तम्' इत्यादि ।
[अभ्रान्तञ्चामुञ्चन्ती न मुञ्चत्यात्मचेतनाम् ।
बुद्धिः सीत्वा सदित्वा च आत्मानं प्रतिक्षणम् ॥५॥ चेतनोऽयमितीक्षमाणः परस्मात् सर्वतः परावृत्तः प्रतिक्षणमात्मानं नात्यन्ताय वै
(१) सर्वविकल्पातीतम् । “परमार्थतस्तु विज्ञान सर्वमेवाविकल्पकम् ।”-प्र. वार्तिकाल पृ० ३०८, ३९८ । (२) इति महदाश्चर्यम् । (३) वाक्यमिदं पुनरुक्तमिव भाति । (१) बौद्धस्य । (५) "भ्रान्तिरपि च वस्तुसम्बन्धेन प्रमाणमेव ।"-प्र० वार्तिकाल० ३।१७५ । (६) क्षणाभ्यां व्यावृत्तमिति कथितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org