________________
४४ ]
अन्वयन आत्मनः प्रतिभासनम्
[ अन्यतो विनिवृत्ता धीः स्वभावमनुवर्तते । प्रत्यक्षादस्तथात्मैकः प्रतिक्षण [विलक्षणान् ] ॥४॥
सर्वतोऽन्यस्याद् व्यावृत्तं चित्तं बहिरन्तर्मुखभ्रान्ताभ्रान्तस्वभावान्वयि तत्क्षणस्थितिधर्मकं परिकल्प्य आत्मानमेव स्वगुण [ पर्यायात्मकं ] स्वतः संवेदननिष्ठितं प्रतिक्षिपतीत्ययुक्तम् ।]
२४३
I
अत्रायमभिप्रायः - चित्रमेकं ज्ञानं तदद्वैतम्, निरंशानेकज्ञानमात्रम्, सर्वविकल्पातीतं विभ्रममात्रं वा यत्रेदमुक्तम् *" माया मरीचिप्रभृतिप्रतिभासद् असत्त्वेऽपि अदोषः " [प्र० वार्तिकाल० पृ० २८६ ] इति ? तत्र प्रथमपक्षे - अन्यतः सजातीयात् विजातीयाच्च [वि] निवृत्ता अपसृता धीः बुद्धिः स्वभावान् आत्मभूतान् आकारान अनुवर्तते व्याप्नोति । कान् तान् ? इत्याह-प्रत्यक्षादीन् प्रत्यक्षो [s] भ्रान्त आदिर्येषां भ्रान्तनीलादीनां ते १० तथोक्तानिति (क्ताः तानिति) । अनेन "एक [त्र] विरुद्धधर्मध्या [स] संभवे अनेकमेव न किश्चित् स्यादिति सर्वस्य सर्वत्रोपयोगादिप्रसङ्गः" इत्यादि निरस्तमिति दर्शयति । चित्रकि त्तस्य विरुद्धधर्माध्यासेऽपि पततोs (परमार्थतोऽ ) भ्युपगमात् सौगतैरिति । तथा शब्दश्रवणात् यथाशब्दः अत्र लुप्तनिर्दिष्टोऽनुमीयते । तथा तेन एकस्य अनेकस्वभावभूताकारतादात्म्यप्रतिभासप्रकारेण, सहोत्पत्तिविनाशसंवेदनप्रकारेण सहभुवां सर्वेषां क्षणानामेकत्वप्रसङ्गेन [१९९क] १५ एकसन्तानापत्तेः आत्मा पुरुषः एकः 'स्वभावोऽनुवर्त्तते' इति सम्बन्धः । कथंभूतान् ? इत्याह- प्रतिक्षण इत्यादि । एतेन अशक्यविवेचनमपि शक्यपरिहारमिति दर्शितम् । तदर्पि' स्वाकारतादात्म्याभासाद् अन्यथा उक्तदोषाद् अपरम् । आत्मस्वभावानामध्य (मप) हरणं प्रचण्डनृपतिधना (न) मिव अशक्यसाधनम् । एतेन परमात्रेन (मार्थेन ) तेषां दर्शनं निरूपितम् ।
५
Jain Education International
ननु प्रतिभासाद्वैते विवक्षितधीव्यतिरिक्तस्याऽभावात् कथमुच्यते- 'अन्यतो विनिवृत्ता धीः' इति । नहि असतः किञ्चिद् व्यावर्त्तते । सतोऽपि अदर्शने कुतः कस्य केन विनिवृत्तिः प्रतीयते ? न च अ[न] न्यवेद्येषु वेदनेषु केनचिद् अन्यवेदनमिति चेत्; उक्तमत्र अन्यभावग्राहकप्रमाणाभावः । यथा च सुखेनाऽसंवेदनाद् दुःखाभावः तथा तेन सुखभावस्याऽवेदनादभाव इति न किञ्चित् स्यात् । सुखेन अविषयीक्रियमाणं दुःखमस्ति न ज्ञानान्तराणि इति पश्यत परस्य २५ सुधिषो (यो) दुश्चेष्टितम् ।
यत्पुनरुक्तम्- 'सतोऽप्यविषयीकृता न कस्यचिद् विनिवृत्तिप्रतिपत्ति:' इति ; तदपि परस्य स्वववा (वधा) य शूलतक्षा (तक्षणम् ) स्वप्रतिभासमात्रस्याप्यसिद्ध:, ज्ञानेन तद्विपरीतधर्मानिषेधात् तँददर्शनोपगमात् । यदि पुनः निरपेक्षसुखादिवेदनमेव तद्विपरीतधर्मनिषेधनम् ;
(१) तुलना - " न चैकस्य विरुद्धौ स्वभावौ संभवतः, विरुद्धधर्माध्यासेन तस्यैकत्वहानिप्रसङ्गात् ।” - हेतु बि० टी० पृ० २२० । (२) अशक्यविवेचनमपि । (३) भिन्नप्रकारम् । ( ४ ) स्ववेद्येषु इत्यर्थः । (५) तीक्ष्णकरणम् । ( ६ ) विपरीतधर्माणामदर्शनात् ।
For Personal & Private Use Only
२०
www.jainelibrary.org