________________
२४२
सिद्धिविनिश्चयटीकायाम्
[ ४ जीवसिद्धिः
न हि यथा पितरि मृतेऽपि कालान्तरे तत्सन्तानं च गृह्णन्ति पुत्रादयः, दृश्यते अद्यापि राज्यस्थितेन राज्ञ (ज्ञाऽ) जनितोऽपि स्वराज्ये पुनः निवेशितः तत्सन्तानव्यपदेशभाक्, तथा तदाकारम् ; अन्यथा चिरमृतेऽपि भर्त्तरि विधवायाः चिरभाविनि वा कन्यायात्प्र ( यास्त) दाकारमपत्यं भवेत् ।
५
यत्पुनरेतदुक्तम् - मृतेऽपि जाग्रच्चेतसि तदनुरूपं प्रबोधज्ञानमिति ; तदपि न सारम् ; *"सिद्ध यन परापेक्ष्यम्” [सिद्धिवि० १।२४] [१९८ क] इत्यादि कारिकाविचारे विचारितत्वात् । अपि च, अदर्शनमात्रेण स्वापादौ आत्माभावसिद्धौ घटादावपि स्यादिति न निराकुलमेतत् *“अदृश्यानुपलम्भादात्मनो घटादिषु अभावाऽप्रतिसिद्धौ घटादीनां नैरात्म्याऽसिद्धेः निरात्मकेभ्यो घटादिभ्यः प्राणादेः अनिवृत्तिः" इ[ति ] ना [दृश्यानुपलम्भ ] १० नादभावासिद्धिः, अपि तु प्रतिपत्रभिप्रायविषयाद् अवस्थाचतुष्टयादिवें [ति चेत्, ] तर्हि सात्मकाऽनात्मकावस्थाभेदात् तद्विषयात् घटादीनां नैरात्म्यं केन वार्यते ? यथा च 'सुप्तो देवदत्तः सुषुप्तो मृतो जीवति' इति व्यवहारभेदः, तथा कारणात् कार्यात् स्वभावाद् अन्यतश्च साध्यसिद्धिव्यवहारभेदोऽस्ति स किन्नाऽभ्युपगम्यते ? कारणान्ययोज्यंभिवारदर्शनात् सर्वधानास्वासे (कारणादीनामन्योन्यं व्यभिचारदर्शनात् सर्वत्रानाश्वासे) दृश्यादर्शनस्य व्यभिचारदर्शने स्वापादौ किन्नाम १५ (किन्न आत्म) सत्त्वाशङ्का स्यात्, यतः जाग्रच्चेतस एव प्रबोधो निश्चीयेत ? न च व्यवहारः चैतन्यविर[हि]णीं स्वापादिदशां मन्यते, तद्वत्यपि जीवद्व्यवहारप्रवर्त्तनात् । तेषां च ' तदभावमननादभावे न कचित् क्षणभङ्गदर्शनं सिध्येत्' । 'तैः " अनुपलक्षितं " तदस्ति न स्वापादिचैतन्यम्' इति किं कृतो विभागः ?
यत्पुनरुक्तम् - कार्पासादिकुसुमे लाक्षादिरागात् फले तद्रागवासना इति ; तदप्यतिसाहसम्; २० रञ्जितपुष्पस्य व्यवहितफलकारणत्वे अवान्तरबीजाङ्कुरादिवैफल्यम् । कथञ्चैवम् 'अनन्तरोऽर्थः ज्ञानं स्वाकारं जनयति' इति नियम:, [१९८ख ] यतस्तदर्थिनां नियतदेशादौ वृत्तिः ? ततः स्थितम् -'क्षणिकैकान्ते वास्यवासकता न भवति' इति ।
तदभावे को दोष: ? इत्याह - तत इत्यादि । यत एवं ततो विकल्प एव [न] भवेत् कारणाभावादिति" मन्यते ।
२५
नन्वस्य सर्वस्य अभावो न बौद्धान् प्रति प्रतिभासाद्वैतवादिनो बाधते अभीष्टत्वात् । न च पक्ष एव विपक्षः अतिप्रसङ्गादिति चेत् ; अत्राह - अन्यतोऽपि (तो विनिवृत्ता) इत्यादि ।
(१) पितुः आकारं न हि तत्सन्तानत्वेन गृह्णन्ति । ( २ ) भर्तरि । (३) तुलना - " नेदं निरात्मकं जीवच्छरीरमप्राणादिमश्वप्रसङ्गात् । निरात्मकेषु घटादिषु दृष्टादृष्टेषु प्राणाद्यदर्शनात् तन्निवृत्या आत्मगतेः । अदृश्यानुपलम्भादभावासिद्धौ घटादेनैरात्म्यासिद्धेः प्राणादेरनिवृत्तिः । " - प्र० वा० स्व० पृ० ६२ । (४) जाग्रत्सुतसुषुप्तमृतेतिअवस्थाचतुष्टयमत्र ग्राह्यम् । (५) स्वापादिमत्यपि पुरुषे । (६) व्यवहारिणाम् । (७) स्वापादिदशायाम् । ( ८ ) चैतन्याभाव । ( ९ ) व्यवहारिभिः क्षणभङ्गस्याऽमननात् । (१०) व्यवहा रिभिः । ( ११ ) क्षणभङ्गदर्शनम् । ( १२ ) विकल्पस्य वासनाजन्यत्वस्वीकारात् । (१३) निरर्थकमेतत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org