________________
४॥३]
क्षणिक कार्यकारणवास्यवासकभावाद्यभावः अन्येषामानर्थक्यम् । सहकारित्वान्नेति चेत् ; तर्हि विषादिमूञ्छितादिप्रतिबोधं प्रति वैनतेयादिध्यानाादकमपाथकम् । भिन्नकालानामेकत्र सहकारित्वे अनुमीयमानरूपसमानकोल्यरसः पूर्वरूपादेरुपजनने सहकारीति सामग्येकदेशः सामथ्या लिङ्गमिति प्रसक्तम् ।
किञ्च, एकत्र भिन्नकालानेकोपादानसहकारिज्ञानव्यापारसंभवे न ज्ञायते भेदैकान्ते सन्ततिनियम इति तदवस्थो दोषः । न च तेषां सजातीये उपयोगे अन्यत्र उपयोग इति चिन्ति- ५ तम् । तत्र प्रबोधभिन्नकाले उपयोगो वा तथैकस्य क्रमभाविनि कार्ये व्यापार इति *"नाक्रमात क्रमिणो भावाः" [प्र० वा० १।४५] इति न बुद्ध्यामहे ।
अन्ये त्वाहुः-न अनन्तरं नापि भिन्नकालमुपादानम् , अपि तु सदृशम् , अतोऽयं नियम इति ; तेषां शान्तचेतसः कुतश्चिद् आविष्टप्रबोधभावे कथं सं इति निरूप्यताम् ? पुत्रस्य पितृचित्तधर्मानुवृत्तौ संभवेत, नियमाभावः अन्यत्रापि । तन्न सन्ताननियम इति स्थितम् । १०
भवतु वा तन्नियमः, तथापि दोषः इत्याह-सत्यपि इत्यादि । पूर्वचित्तस्य वासकता अपरस्य वास्यता न भवत्येव । कुतः ? इत्याह-प्रत्यासत्तेरभावात् ।
__अथ केयं प्रत्यासत्तिः यस्याः त्वया अत्राभावोऽभिधीयते ? हेतुफलभाव इति चेत् ; सा अस्त्येव इति हेतोरसिद्धिः, 'सत्यपि' इत्यादि वचनात् । अन्यथाऽभ्युपगमे वा दोषः । देशादिनैकट्यम् ; तर्हि तदभावेऽपि” उपादानोपादेयभाववद् वास्यवासकभावोऽपि न विरुद्ध्यत इति १५ सन्दिग्धविपक्षव्यावृत्तिको हेतुः । यदि पुनः तदभावे अनुपादानेतरभावोऽपि नेष्यते ; 'सत्यपि इत्यभ्युपगमविरोधः इत्युक्तो दोषः । यदि पुनः योग्यता ; कुतस्तदभावो भेदैकान्ते ? वास्यवासकत्वेन अभिमतयोः देशादिभेदात् ; [१९७ख] उक्तमत्रापि जन्यजनकभावयोग्यताभावात्, इयमपि योग्यता न विरुध्यत इति । दृष्टत्वाच्च, दृष्टं खलु जाग्रचित्तं शास्त्रादिपरिज्ञानपरि (नपरि) करं देशादिव्यवहिते प्रबोधचेतसि वा नि(वि) रूपां वासनामादधानम् । न हि दृष्टेऽनुपपन्नं नाम । २० न च स्वापादिदशाऽनु[भूयते] । यापि तत्परिकरचेतस्त्वचित्तकैः अनुभूयते "तदशाभावभयात् यतस्तत्र वासना कल्प्यते इति तथा कल्पंसादि (कार्पासादि) कुसुमं कुस्थमादिरक्तं कालादिव्यवहिते फलजायि । बीजपूरादिकाण्डादि काण्डादिकरक्तं यतः स्यात् भवेत् (?) ।
यत्पुनरेतत् निदर्शनम्-'सन्तानान्तरवत्' इति ; तदपि न सूक्तम् ; वैषम्यात् , हेतुफलभावस्य नियतत्वात् । अन्यत्रापि अस्य चोद्यस्य समत्वादिति ; तन्न ; अन्यथाऽभिप्रायात् ; २५ तथाहि-राज्ञा (राज्ञो) राजपुत्राणामिव भेदेऽपि यथाकथञ्चिदस्तु लौकिकः सन्ताननियमः, वास्यवासकभावः पुनः कथश्चित् कारणानुरूपकार्यभावः । स पूर्वमेव कारणविनाशे न युक्तः ।
(१) गरुडध्यानादिकम् । (२) काले भवः काल्यः । (३) क्षणिकैकान्ते । (१) वा शब्दः 'यथा' अर्थे । (५) सन्ताननियमः। (६) क्रोधादिसद्भावे । (७) एकसन्ताननियमः । (८) एकसन्तानत्वम् । (९) नियमान्न पुत्रः पितृचित्तमनुवर्तते इत्यु के प्राह। (१०) हेतुफलभावाभावस्वीकारे । (११) देशादिनैकव्याभावेऽपि । (१२) स्वापादिदशा । (१३) तुलना-"व्यवहितस्यापि लाक्षारसादेरुपधानस्य दर्शनादिति" -प्र. वार्तिकाल. पृ० ४३३ । “लाक्षादिरसावसिक्तानामिव बीज़ानां..."-तत्त्वसं० प० पृ० १८२। (१४) वास्यवासकभावः कारणानुरूपकार्यभावो वा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org