________________
२४०
सिद्धिविनिश्चयटीकायाम्
[ ४ जीवसिद्धिः
विशेषात् । सत्यपि वास्यवासकता न भवत्येव प्रत्यासत्तेरभावात् । ततो विकल्प एव
[न] भवेत् । ]
तद्विरोधनिर्णयात् कार्यकारणता कार्यता कारणता वा नैव । केषाम् ? इत्याहचित्तानां 'क्षणिकैकान्ते' इत्यनुवर्तते । अर्थक्रियारूपत्वात्तस्या' इति भावः । मा भूत् सा, तथापि ५ किम् ? इत्याह- सन्ततिः सन्तानः कुतः 'चित्तानाम्' इति सम्बन्धः । कार्यकारणताविशेषलक्षणत्वात् सन्ततेरिति मन्यते । भवतु वा तत्र तेषां कारणता तथापि दोषः, इत्याह- वास्यवासकता पूर्वचित्तं तस्य (त्तस्य) वासकता, उत्तरचित्तस्य वास्यता कुतः नैव । कुतः ? भेदात् नानात्वात् 'एकसन्तानत्वेन अभिमतचित्तानाम्' इति घटना | दृष्टान्तमाह – सन्तानान्तराणामिव सन्तानान्तरवद् इति ।
१०
कारिकां विवृण्वन्नाह - सत्यां च इत्यादि । च शब्दः अपिशब्दार्थः संभावनायाम् । सत्याav कार्यकारणतायां कचित् लक्षणैकान्ते ( क्षणैकान्ते) कुतो न कुतश्चित् सन्ताननियम:'अयम् एकः सन्तानः, एते च नानासन्ताना:' इति विभागः ; 'तदेकान्ते' इत्यनुसम्बन्धः ।
ननु येषां क्षणानाम् आनन्तर्येण पूर्वापरभावः तेषामेकसन्तानत्वम् अन्येषां विपर्यय इति चेत्; अत्राह-सर्वत्र सर्वेषाम् इत्यादि । सर्वेषां भिन्नैकसन्तानपातिनां क्षणानाम् आनन्तर्याऽ१५ विशेषात् सर्वत्र बहिरन्तर्वा । यद्वा, सर्वत्र कार्यकारणाभिमतानाम् सर्वेषां तदविशेषात् इति
प्रत्येयम् ।
अत्रापरः [१९६ख] प्राह - नानन्तर्यात् सन्ताननियमः, अन्यथापि तद्भावात्, जागत्प्रबोधचेतसोरिवेति; तस्य समानं कालंश्चये (कालं येषां तानि) जाग्रच्चेतांसि कस्यचित् प्रबोधस्य एक सन्तानानि कुतो न भवन्ति ? देशादि देशस्य भेदस्य सर्वत्राविशेषात् । एकस्य अनेको२० पादानाभावात् [न] इति चेत्; कथमेकस्माद् देवदत्तजाप्रद्विज्ञानात् प्रबोधज्ञानपञ्चकं कदाचित् भवति । एकस्यैव ततो भावे अन्येषामनुपादानत्वम् । तेषां तद्विज्ञानात् पूर्वज्ञानोपादानत्वे 'नैकसामायधीनः भावानां सहभावः' इति निःसारमेतत् -"एकसामग्र्यधीनस्य " [ प्र०वा० ३।१८] इत्यादि । रसादीनां सहभावे हि एकसामग्र्यधीनतानियमाभावात् । न कालाभावा ( नैककालभाविनाम् ) एकसामग्रीव्यपदेशता इत्युक्तम् । तद्भावेऽपि न ज्ञायते किं कस्य तत्रोपा २५ दानमिति । रूपज्ञानं रूपज्ञानस्य, एवमन्यत्रापि योज्यमिति चेत्; आद्यं सौगतं ज्ञानमनुपादानं प्रसक्तम्, पूर्वं तथाविधस्य तदुपादानस्याभावात्, अन्यथा " कुतः सोपायं सुगतत्वम् ? अनुमानस्य विकल्पेन भिन्नसन्तानत्वे तु प्रत्यक्षं प्रति उपादानत्वम्, अन्यथा विकल्पस्य तद् इति “अभेदात् सदृशस्मृत्याम्” [सिद्धिवि० १।७ ] इत्यादि दूषणमविचलितम् । अतो यथा एकमनेकस्य उपादानम् तथा अनेकमेकस्य, इतरथा जाग्रद्विज्ञानपञ्चकात् नैकं कदाचिद् [इति ]
(१) कार्यकारणतायाः । (२) चित्तानाम् । (३) व्यवहितकारणवादी प्रज्ञाकरः । ( ४ ) व्यवहितेऽपि । (५) समानकालानि । (६) व्यर्थमेतत् । ( ७ ) प्रबोधचेतसः । (८) जाग्रच्चेतसः । ( ९ ) जाग्रद्विज्ञानात् । (१०) सर्वज्ञातुः ज्ञानस्य । ( ११ ) यदि पूर्वमपि सौगतं सर्वज्ञज्ञानमस्ति तदा कुतः 'उपायात् सर्वज्ञत्वं जायते' इति स्यात् ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org