________________
४३ ]
क्षणिके कार्यकारण- वास्यवासकभावाद्यभावः
२३९
स्वावरणस्यैव क्षय उपशमश्च गृह्यते तेषां च सा (वशात्) बुद्धि: नावरणवशात् मिथ्याबुद्धि: येन 'मत्यज्ञानभेदात् ' (दा) इत्यादि शोभेत । नापि तत्क्षयोपशमवशाद् यथार्थबुद्धिः यतो 'ज्ञस्वभवस्य' इत्यादि च । कुतः तर्हि सा ? इत्यत्राह - अपि तु किन्तु स्वकारणशक्तेः मिथ्याबुद्धेः कारणं कदाचित् कलुषितं लोचनादि * “तिमिराशुभ्रमण " [ न्यायवि० १।६ ] इत्यादि ' वचनात्, यथार्थबुद्धेः तदेव विपरीतम्, तस्य शक्ति: [१९५ख ] यथोक्तज्ञानजननसामर्थ्यम् . ५ तस्या बुद्धिः इति सम्बन्धः ।
ननु यथा कामलाद्युपलिप्ताच्चक्षुरादेः इन्द्रियजा भ्रान्तिः तथा कर्माऽऽवरणोपलिप्तात्मनः सा मानसी विकल्पभ्रान्तिरिति ; अत्राह - स्वलक्षण इत्यादि । स्वलक्षणदर्शनेन आहिते स्थापिते सन्ताने या विकल्पवासना विकल्पकारणभूता वासना । यदि वा तद्दर्शनाहिता स्वकार्यजननं प्रत्यभिमुखीकृता पूर्वपूर्वविकल्पजनिता वासना तस्याः प्रकृतेः स्वभावात् नावरण - १० द्भूतेः संवृतिः स्वतः उद्भूता तत्त्वसंवरणात् सामान्यादिति (वि) कल्पबुद्धिः । सा किं करोति ? इत्याह-व्यवहारं मिथ्येतररूपम् आरचयति । कुतः ? इत्याह-वस्तुमात्रव्यवसायात् - अस्वलक्षणेऽपि स्वाकारे स्वलक्षणलेशाध्यवसायात् । अनेन मिध्यात्वमस्य दर्शयति । चेत् शब्दः पराकूतोद्योतकः !
ननु मत्तमूर्च्छितादेः इन्द्रियजा मानसी भ्रान्तिः विषादिमूर्त्त्य सवसंय (मूर्च्छाशयसंपर्क) १५ कलुषितप्राक्तनान्मनसो दृष्टापि यदृष्टतथाविधभावसंपर्क मनःपूर्विका कल्प्यते; तर्हि क्षित्यादेः बीजसह [कृता ] या दृष्टोऽपि अङ्कुरः खलविलादिव्यवहिते बीजे अङ्कुरो दृश्यमानः क्षित्यादेरेव किन्न कल्प्यते ? तथा, er (?) यथा मदिरादिप्रतिबन्धनिवृत्तिः तथा ज्ञानेषु मिथ्यात्वनिवृत्तिर्दृपि यद्यन्यथा स्यात् ; न तर्हि कारणनिवृत्तिप्रयुक्ता कार्यनिवृत्तिरिति न कचिद् व्यवतिष्ठेत इत्यभिप्रायवता 'मिथ्याज्ञानम्' इत्यादि वदता एतत् परिहृतं यद्यपि तथापि भङ्ग्यन्तरेण २० [१९६क] परिहरन्नाह-न इत्यादि । परोक्तनिषेधे न इति शब्दः । कुतः ? इत्याह- क्षणिकै - कान्ते अर्थस्य कार्यस्य क्रिया करणं तद्विरोधस्य निर्णयाद् अनन्तरातीतप्रस्तावे इति शेषः । ततः किं जातम् ? इत्याह- कार्य इत्यादि ।
[ कार्यकारणता नैव चित्तानां सन्ततिः कुतः । सन्तानान्तरवद्भेदात् वास्यवासकता कुतः ॥३॥
सत्यां च कार्यकारणतायां कुतः क्वचित् सन्ताननियमः ? सर्वत्र सर्वेषामानन्तर्या
(१) "तिमिराशुभ्रमण नौयानसंक्षोभाद्य तिमिरमक्ष्णोर्विप्लवः, इन्द्रियगतमिदं विभ्रमकारणम् । आशुभ्रमणम् अलातादेः । मन्दं हि भ्राम्यमाणे अलातादौ न चक्रभ्रान्तिरुत्पद्यते तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य गच्छवृक्षादिभ्रान्तिरुत्पद्यत इति यानग्रहणम् । एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् । संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते । एतच्च अध्यात्मगतं विभ्रमकारणम् । सर्वैरेव च विभ्रमकारणैरिन्द्रियविषय बाह्याध्यात्मिकाश्रयगतैः इन्द्रियमेव विकर्तव्यम् ।” - न्यायबि० टी० १।६ । (२) निरर्थकमिदम् ।
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org