________________
२३८ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः द्रव्यम् , न गुणपर्यायौ । अनेन रूपाद्यवयवात्मन एकस्य स्थवीयसः तेन ग्रहणादिति मन्यते । वर्तमानकालविशेषणं 'तत्तस्य जानतो न विरोध इति चेत् ; अत्राह-त्रिकालगोचरम् । त्रयः कालो गोचरो यस्य तत् तथोक्तं त्रिकालावयविरूपमित्यर्थः । एवमपि खण्डशो जानत इत्याह
अशेषं सर्वम् । केन प्रकारेण ? [१९४ख] इत्याह-कथञ्चित् । येन केनचित् प्रकारेण । तथाहि५ पूर्वं चक्षुरादिना नवत्वविशेषणविशिष्टस्य घटस्य ग्रहणम् , पुनः तस्यैव तेन पुराणविशिष्टस्य,
तदनन्तरं पूर्वपर्यायविशिष्टस्य स्मरणात् , प्रत्यभिज्ञानात् पूर्वापरपर्याययोः तां यावः (तदेकत्वस्य), तण जन्मादिमरणपर्यन्तं पर्यायाणाम् एकत्वाविनाभाविनां दर्शनस्मरणाभिज्ञानजन्मना साकल्येन सामान्यतः स्वसाध्याऽविनाभावे तेषां गृहीते सति, द्रव्यस्य अनन्तता अनुमानतः प्रतीयते इति।
एक अनुमानजन्मना मानसप्रत्यक्षेत्व (णेति ; तत्) कथम् इति चिन्त्यम् । अक्ष१० जात्यत्वात् (अक्षातीतत्वात् ) न किञ्चिदप्रत्यक्षं स्यादिति चिन्तितम् ।
कदा ? इत्याह-प्रतिबन्धाभावे । यस्य ज्ञानस्य स्वविषये प्रवर्तमानस्य यत् प्रतिबन्धकं कर्म तस्य अभावे सति । ननु ज्ञानस्वभावस्य प्रतिबन्धरहितस्यापि अभिन्नदेशकालाऽर्थग्रहणमात्मनः; अन्यथा अतिप्रसङ्ग इति चेत् ; अत्राह-अप्राप्यकारिणः । प्राप्नुप्राहकसमानदेशकालं कर्तुं शक्यं
प्राप्तं (प्राप्यं) यन्न तथा भवति तदप्राप्यं कर्तुं गृहीतुं शीलस्य अप्राप्यकारिणः, देशवत् कालभिन्न१५ स्यापि ग्रहणे विरोधाऽभावादिति मन्यते । यस्तु मन्यते स्वरूपादन्यत्र न ज्ञानस्य प्रवृत्तिः
तत्कथमुच्यते अप्राप्यकारिण इति ? स ह (प्र)ष्टव्यो भवति-कथं स्वरूपे वृत्तिः ? तत्र वर्तमानस्य दर्शनादिति चेत् ; तदितरत्र समानम् । निरूपपितु (रूपितं) चैतत् ।।
____अत्राह मीमांसकः-तदशेषंजानतः षड्भिः प्रमाणैर्न कश्चिद् विरोधः' इति । तं प्रत्याह-स्व
इत्यादि । यथोपवर्णितस्य आत्मनः स्वविषयं सत् सर्वम् [१९५क] अन्यथा व्याप्त्यप्रतिपत्तिः, २० तत्र वैशद्यमनुभवतो न कश्चिद् विरोधः 'प्रतिबन्धाभावे' इत्यनुवर्तते । दृष्टान्तमाह-परोक्ष
इत्यादि । ननु प्रत्यक्षपरोक्षवत् इति वक्तव्यम् न्याय्यत्वादिति चेत; न; परमतापेक्षया एवमभिधानात् । तथा हि- यदुक्तं प्रज्ञा क रे ण-*"कथमेकत्र क्रमवित्तयोऽवगम्यन्ते यतोऽशेष द्रव्यं कथंविज्ञा(थञ्चिज्जा)नतो न कश्चिद् विरोध इति स्यात्" इति तदुद्दिश्य परोक्षं साधारण
(णा)स्पष्टाकारविषयमानादिविकल्पज्ञानं तच्च तत्प्रत्यक्षं च स्वरूपापेक्षया तेन तुल्यं वर्तते इति २५ तद्वद् इति व्याख्येयम् । यथा एक युगपद् आकारद्वयसाधारणमवगम्यते तथा क्रमेण अनेकवित्तिसाधारणमिति मन्यते । मीमांसकमुद्दिश्य समत्वका (समन्धका) राद्यन्तराऽविशदवृक्षादिज्ञानं परोक्षं तदिव । चकाराभावे वि(ऽपि) सत् प्रत्यक्षमुच्यते तस्य इव तद्वत् इति व्याख्येयम्।
___ पक्षे प्रमाणाबाधं दृष्टान्ते साध्यं दर्शयन्नाह सौगतः-नास्माकम् इत्यादि । नास्माकं सौगतानाम् आवरणं च ज्ञानावरणीयादिकर्म, क्षयश्च उपशमश्च अन्यस्य अप्रकृतत्वात् अश्रुतेः,
(१) द्रव्यम् । (२) घटस्यैव । (३) पर्यायाणाम् । (४) प्रज्ञाकरः । (५) “यदि षड्भिः प्रमाणैः स्यात् सर्वज्ञः केन वार्यते । एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते । नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥"-मी० श्लो० चोदनासू० श्लो० १११-१२ । (६) व्याप्तेः त्रिकालगोचरत्वात् । (७) आत्मनि । (८) क्रमज्ञानानि । (९) परोक्षं ज्ञानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org