________________
४२ ] आवरणोदयात् मिथ्याज्ञानम्
ইও कारणाभिन्नदेशकालप्रभवत्वम् ; आकाशादि समवायिकारणं किन्न स्यात् ? नहि तद्देशादिपरिहारेण चेतनासंभवः तदसर्वगतत्वप्रसङ्गात् । बुद्ध्यात्मप्रदेशस्य चक्षुराद्यभिन्नदेशादित्वे बुद्धरपि तद्भवति न वेति चिन्त्यताम् । [१९३ ख] ततः चेतनैव चेतनासमवायिकारणम् , तदकारणमचेतनम् इति स्थितम् ।
यत्पुनरुक्तम्-अरूपादिस्वभावा घटादयो रूपादिसमवायिकारणमिति ; तदप्यनेन निरस्तम् ; ५ ननु घटादिवत् आत्मनोऽपि अतत्स्वभावस्य चेतनासमवायिकारणत्वे साध्यदृष्टान्तयोरविशेष इति चेत् ; आस्तां तावदेतत् , अनन्तरं निरूपणात् । भवतु वा चेतनाया अन्यदचेतनम् , तथापि न सर्वस्य दृष्टान्ताऽविशेषः, अचेतनत्वेऽपि आत्मनः साध्यधर्मित्वेन उपादानात् , 'अन्यद् अचेतनं दृष्टान्तीभवति, यथा पिण्डोऽयं सास्नादिमान गोवत्' इत्युक्ते अन्यो गौः दृष्टान्तीभवति । न चान्यधर्मसिद्धिचोदनम् ; न्यायसिद्धे तस्मिन् परारोपितधर्मनिषेधात् । . इदमपरं व्याख्यानम्-यदि पुनः स्वत एव स्वनैव रूपेण ज्ञाता अर्थग्रहणपरिणामी न स्याद् आत्मा परतोऽसमवायि-निमित्तकारणात् कुतः स्यात् ? नवै नहि तथापरिणामस्वभावरहितस्य कस्यचिद् अन्यः तथापरिणामः अचेतनवत् पृथिव्यादिवत् इति, लोकायतापेक्षया घटादिवत् इति ।
ननु यदुक्तम्-‘आत्मनः चेतनस्याभेदे तद्वत् चक्षुरादिरपि तत्समवायिकारणं स्यात् , भेदस्य १५ समवायस्य वाऽविशेषादिति ; तन्न युक्तम् ; भेदाऽविशेषेऽपि कस्यचिदेव कस्याश्चित् प्रत्यासत्तेः कार्य प्रति तत्कारणत्वोपपत्तेः, चित्रत्वाद् भावशक्तीनामिति चेत् ; अत्राह-परस्य इत्यादि । परस्य ज्ञातुः अन्यस्य कारणस्य अतिशयस्य सामर्थ्यस्य [१९४ क] कल्पनायां 'स्वत एव' इत्यनुवर्तते, अन्यथा अनवस्था स्यादिति मन्यते । आत्मनः किन्न कल्पयेत् स्वत एव ग्रहणातिशयं नैयायिकः, कल्पयेदेव न्यायस्य समानत्वादिति मन्यते ।
अथवा, अन्यथा पूर्वपक्षयित्वा इदं व्याख्येयम्-'नात्मा स्वतः परतो वा ज्ञाता तस्य शानसम्बन्धाऽभावात् , अपितु प्रधानं ज्ञात विपर्ययात् , ततस्तस्यैव मिथ्याज्ञानग्रहादयः परतो विपर्यासोपपत्तेः परिणामित्वात् , नात्मनो विपर्ययात् इति सांख्यः ; तं प्रत्याह-परस्य इत्यादि । परस्य आत्मनोऽन्यस्य प्रधानस्य अतिशयकल्पनायां यथार्थेतरज्ञानसामर्थ्यकल्पनायाम् आत्मनः पुरुषस्य तमतिशयं किन्न कल्प्यते, यतः सांख्यप्रधानवद् आत्मनोऽपि परिणामाऽविरोधादिप्ति २५ मन्यते ।
ननु भवतु स्वतो ज्ञाता आत्मा सावरणश्च तथापि आवरणाभावे अक्षव्यापारसमकालमेव भावतोऽर्थं विषयीकरोतु तन्मात्र एव तत्सामर्थ्यात् । तद्यथा-*"प्रदीपः अनावरणेऽपि स्वयोग्यमेव प्रकाशयति न सर्वम्" इति प्रज्ञा क रः ; तत्राह-'ज्ञस्वभावस्य' इत्यादि । जानात्ति इति ज्ञः स्वभावो यस्य ज्ञस्वभावस्य आत्मनः जानतो न कश्चिद् विरोधः । किम् ? इत्याह- ३०
(१) चेतनासमवायिकारणम् । (२) आकाशस्य असर्वगतत्वप्रसङ्गात् । (३) आत्मवत् । (१) समवायिकारणत्वोपपत्तेः । (५) प्रकृतिः सांख्याभिमता।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org