________________
सिद्धिविनिश्चयटीकायाम्
[ ४ जीवसिद्धिः
अभिमतत्वात्, आत्मनः परतो विपर्यासोपपत्तिवर्णनात्, अन्यथा कोऽस्यार्थः स्यात् कथञ्चिदनित्यत्वस्य व (च) सर्वथा अन्यत्रापि तदसंभवात् । दृश्यते हि किट्टिकालिकादिना कलुषितवपुषाम् अन्य (मण्या) दीनां स्वरूपेऽपि चित्रप्रकाशनम्
*"मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धात्मनो व्यक्तिस्तथाऽनेकप्रकारतः || ”
२३६
[ लघी० श्लो० ५७ ] इति ।
'स्वतः प्रमाणभूतस्य' इत्यस्याऽनभ्युपगमे दूषणमाह-यदि इत्यादि । यदि चेत्, पुनः इति वितर्के पक्षान्तरसूचने वा, स्वत एव स्वस्वभावत एव स्वकारणादेव यो ज्ञाता यथार्थ - ग्राही न स्यात् न भवेद् 'आत्मा' इति विभक्तिपरिणामेन सम्बन्धः । तत्र को दोषः ? इत्याह१० परतः इत्यादि । स्वरूपात् स्वहेतोर्वा परं ज्ञानं ततः, कुतो नैव स्यात् 'ज्ञाता' इति सम्बन्धः । अत्र दृष्टान्तमाह- अचेतनवत् इति । घटादिः अचेतनः तेन तुल्यं वर्त्तते इति तद्वत् इति । प्रयोगश्च - यो ज्ञानस्वभावरहितो नासौ ज्ञाता यथा घटादिः, ज्ञानस्वभावरहितश्च परस्य आत्मा इति ।
ननु किमिदमचेतनमिति ? चेतना [s] संमवायिकारणम् ; तत्समवायिकारणं तर्हि चेतनं प्रसमिति आत्मापि चेतन इति कथम् अज्ञाता, चेतनस्यैव तद्व्यपदेशादित्यभ्युपगमविरोधः । १५ न च चेतनास्वभावो न तत्समवायिकारणम् ; अरूपादिस्वभावस्यापि घटादे रूपादिसमवायिकारणत्वोपपत्तेः । अथ चेतनायाः अन्यदचेतनम् [१९३क] स्यात् ; न च तदस्ति प्रमाणाऽभावादिति दृष्टान्तमात्रमशेषमिति न साध्यधर्मिसंभवः, तद्भावे वा तत एवासिद्ध: ( एव सिद्ध:) किमेतेन अनुमानेन ? अत एव तत्सिद्धौ अन्योऽन्यसंश्रयः - तथा हतो (हि- अतः ) तस्य आत्मतत्त्वसिद्धौ अन्ये घटायो दृष्टान्तीभवन्ति, ततश्च तत्सिद्धिः इति । यदि पुनः अचेतनत्वाविशेषेऽपि आत्मन २० ‘आश्रयत्वं घटादेस्तत्’ 'अचेतनवत्' इति सामान्यवचनेन लभ्य [ते] इति चेत् ; न ; उभयथाप्यदोषात् । तथाहि - अस्तु तावच्चेतनाऽसमवायिकारणम् अचेतनं घटादि, चेतनं च तत्समवायिकारणम्, , तथापि न इत्युपगममाहानि: ( महानिः ), चेतनापरिणामकारणस्यैव समवायिकारणत्वात् नान्यस्य, अन्यथा चक्षुरादेरपि " तत्कारणत्वप्रसङ्गात् । " तत्र " तस्याः " असमवायान्नेति चेत् ; अथ कोऽयं तत्र समवायः ? तस्मिन् सति आत्मलाभ इति चेत्; प्रसङ्गः पूर्ववद्भवेत् । तत्रो२५ त्कलितं (तत्वम् ; ) तदेव न बुध्यामहे । तस्मिन् सति तदात्मन उद्भव इति चेत्; न परिहृतम् । 'तदाधेयत्वम्' इत्यपि वार्त्तम् ; भूतले कलशादेः समवायप्रसङ्गात् । अयुतसिद्धस्य इति चेत् ; किमिदमयुतसिद्धस्य इति ? अपृथसिद्धस्येति चेत्; न; [ अ ] पृथक्सद्धत्वं यदि कारणादेकान्तेनाभिन्नसिद्धत्वम् ; सांख्यदर्शनम् ” । अथ कथञ्चित् ; जैनशासनम् । स्यान्मतम् -
1
(१) दृष्टान्ते मण्यादौ । (२) चेतनस्य समवायिकारणं यन्न भवति तदचेतनमित्यर्थः । (३) ज्ञातृव्यपदेशात् । (४) चेतनमस्ति । ( ५ ) चेतनसद्भावे वा । (६) धर्मित्वम् । (७) दृष्टान्तत्वम् । (८) चेतनायाः समवायिकारणं न भवति तदचेतनमित्यर्थः । (९) यः स्वयं चेतनरूपेण परिणमति तस्यैव । (१०) चेतनासमवायिकारणत्वप्रसङ्गात् । (११) चक्षुरादौ । (१२) चेतनायाः । (१३) समवायाभावात् । (१४) चक्षुरादौ सति चेतनाया आत्मलाभस्य प्रतीतेः । (१५) सांख्येन कार्यकारणयोरभेदत्व स्वीकारात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org