________________
४।२] आवरणोदयात् मिथ्याशानम्
२३५ रागादिः स एव हेतुः कारणं तस्मात् आवरणोद्भूतः यद्वा स हेतुर्यस्याः तस्या इति । दृष्टान्तमाह-विषादिवत् इति । जीवोपयुक्तविषादेरिव तद्वदिति । तथाहि-मिथ्याज्ञानादनुमिता आवरणोद्भूतिः ज्ञातृरागादिपूर्विका तदुपघातहेतुत्वाद् विषादिवत् इति । जीवोपयुक्तविषादेरिव तद्वत् इति । वक्ष्यति च-*"मनोध्यक्षायकर्मनिराश्रवैः (मनोवाकायकर्मभिरास्रवैः) शुभैरशुभैश्च यथास्वं पुण्यपापबन्धो जीवानाम्" [सिद्धिवि०प्रस्ता० ४] इत्यादि । यदुक्तम्-अमूर्तस्य ५ कथं मूर्तेन सम्बन्ध इति ? तदप्यनेन निरस्तम् ; तत्सम्बन्धहेतोर्दोषस्य अमूर्तेऽपि भावात् । एतदपि वक्ष्यति-*"मलैनिसर्गाबध्येत" [सिद्धिवि० प्रस्ता० ४] इत्यादिना। दोषस्य हेतोः विषयादेरिव (विषादेरिव) तद्वद् इति वा व्याख्येयम् ।
कारिकां विवृण्वन्नाह-मत्यादि (मत्यज्ञान इत्यादि ) मत्यज्ञानभेदा मत्यज्ञानविशेषाः, उपलक्षणमेतत् तेन श्रुताज्ञानादिभेदा गृह्यन्ते । के ते ? इत्याह-अवग्रहादयः । आदि [शब्देन] १० ईहादिपरिग्रहः । एतदपि उपलक्षणम् अनुस्मरणादिभेदानाम् । ते किम् ? इत्याह- प्रमाणाभासाः प्रमाणं न भवन्ति इत्यर्थः । कुतः ? इत्याह-मिथ्या इति । मिथ्या अन्यथाग्रहणात्मका यतः।
ननु अनुमानज्ञानम् अन्यथास्थितं स्वलक्षणम् अन्यथा गृहृदपि प्रमाणं ततो नेदमप्रमाणलक्षणं व्यभिचारादिति चेत् ; अत्राह-प्रमाणस्य इत्यादि । प्रमाणस्यापि (वि)प्रतिसारो यथा- १५ वस्थितार्थनिर्णयो लक्षणं [१९२क] यस्य तस्य भावात् तत्त्वात् । एतदुक्तं भवति-प्रमाणत्वं यथार्थनिर्णयेन व्याप्तं सर्वप्राणभृतां सिद्धम् , मिथ्यैकान्तादिप्रवादेऽपि तद्विषयस्यैव परमार्थतो ज्ञानस्य प्रमाणत्वोपवर्णनात् परैरपि, ततो यथार्थे निवर्तमाने तदपि निवर्त्तते यथा वृक्षत्वे निवर्तमाने शिंशपात्वम् , अन्यथा सर्वस्य प्रमाणमिति न कश्चित् स्वपक्षसिद्धिविकलः स्यादिति । अनुमानं चेत् मिथ्या अप्रमाणम् । शेषमत्र चिन्तितम् , चिन्तयिष्यते चानकस्य (चानेकधा । २० कस्य) कथम्भूतस्य कुतो भवन्ति ? इत्याह-स्वतः इत्यादि । [स्वतः] आत्मनो जीवस्य न निराधारो नापि शरीरस्य प्रधानस्य वा । किंभूतस्य ? प्रमाणभूतस्य । यथार्थग्रहणस्वभावस्य स्वतो नार्थान्तरज्ञानसमवायात् । कुतो भवन्ति ? इत्याह-परतो विपर्यासोपपत्तेः। अत्रापि 'आत्मनः' इत्यपेक्ष्यम् , आत्मनः परतः मूर्तकर्मणः सकाशात् या विपर्यासोपपत्तिः अन्यथास्वभावापादनं तस्याः । अत्र दृष्टान्तमाह-मत्त इत्यादि। मत्तमूञ्छितस्य इव तद्वत् इति । यथा २५ मत्तादेः परतो विषादेः विपर्यासोपपत्तेः मिथ्याऽवग्रहादयः तथा अन्यस्यापि इति निदर्शनार्थः ।
एतेन इदमपि प्रत्युक्तं यदुक्तं परेण-*"कर्मणा आत्मस्वरूपाऽखण्डने तदवस्थं जैनस्य सर्वस्य सर्वदर्शित्वम् , खण्डने आत्मानित्यत्वम् । आवरणं च प्रकाश्यप्रकाशकयोः अन्तराले वर्तमानं घटप्रदीपयोरिव प्रावरणम् प्रकाश्यस्यैव प्रकाशनं प्रतिबध्नाति न प्रकाशकस्य । नहि अन्तर्यवनिकया दीपस्य आत्मप्रकाशनं प्रतिहन्यते इति आत्मनः तस्मिन् ३० सत्यपि [१९२ख] सर्वथा स्वरूपप्रकाशनं स्यात् ।" इति ; कथञ्चित् आत्मस्वरूपखण्डनस्य
(१) जीवे । (२) सामान्यरूपेण । (३) चार्वाकाभिमतस्य । (४) सांख्याभिमतस्य । (५) आवरणे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org