________________
२३४
सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः का वार्ता ? अनुमानमेव तदिति ब्रूमः । अयं तु विशेष:-यद्यतत् मिथ्याज्ञानमप्रमाणं कथमन्यस्य तथाविधस्य अनुमानस्य प्रामाण्ये दृष्टान्तः स्यात् ? न खलु साध्यमेव दृष्टान्तीभवति अतिप्रसङ्गात् । ततः स्थितम्-'अनुमानं चेत् मिथ्याज्ञानम् अप्रमाणं स्यात् , अर्थादुत्पत्तौ तैमिरिकज्ञानवत्' इत्यस्य प्रदर्शनार्थम् अप्रमाणग्रहणमिति ।
अथवा, अन्यथा पूर्वपक्षयित्वा इदं व्याख्येयम् । तथाहि-यदुक्तम् अनन्तरप्रस्तावे' *"तदेतद् द्रव्यपर्यायसामान्यविशेषविषयम्" इत्यादि *"प्रमाणम् अविसंवादात्" इत्यन्तम् ; तत्र तज्ज्ञानस्य वेदम (चेतन)स्वभावे आत्मनि समवायात् स एव तांस्तथा बुध्यत इति नैयायिकादिः । शरीरे समवायात् शरीरं न मनः इति चार्वाकाः । प्रधानम् इति सांख्याः । तज्ज्ञानं स्वतः प्रमाणं न परतः इति मीमांसकाः । तदुक्तम्
*"स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते ॥"
मी० श्लो० सू०२ श्लो० ४५] इति; तत्राह-मिथ्याज्ञानम् इत्यादि । ज्ञातुः 'अवग्रहादिमतिस्मृति [१९१क] संज्ञाचिन्ताभिनिबोधात्मकं प्रागभिलापसंसर्गात् मतिज्ञानप्रभेदलक्षणं ज्ञानम्' इति सम्बन्धः । १५ न शरीरस्य प्रधानस्य वा ; तस्य ज्ञातृत्वायोगादिति निरूपयिष्यते अचेतनत्वात् घटादिवत् इति।
कुतो ज्ञातुः ? इत्याह-स्वतः स्वस्वाभाव्यात् , नार्थान्तरज्ञानसम्बन्धादिति च । तज्ज्ञानं च प्रमाणमुक्तम् । कुतः ? अविसंवादात् । सांप्रतं वोच्यते, स्वतः सतो ज्ञातुः। ततोऽयमों जायते-तज्ज्ञानं प्रमाणम् अविसंवादात् , स्वविषयीकृतस्वार्थाऽव्यभिचारात् । अनेन स्वकार्ये
प्रवृत्तिलक्षणे स्वग्रहणापेक्षणात् 'परतः तत्' इत्युक्तं भवति । स्वतो ज्ञातुः सकाशात इति का २० विभक्तिपरिणामेन सम्बन्धः, 'उत्पत्तेः' इति शेषः, 'प्रमाणम्' इति घटनात् । किंभूतात् ?
इत्याह-स्वतः सतः इति । विवृतमिदम् । अनेनापि कारणगुणतस्तदुद्भवात् परतः तद् इति; मन्यते । अत्र दृष्टान्तमाह-प्रमाणं मिथ्याज्ञानं विसंवादात् आवरणोद्भूतेश्च यथा 'परतः' इति शेषः, आवरणाद् उद्भूतिः आवरणोद्भूतिः इणो (तस्याः) । कथंभूतात् ?
दोषहेतोः इति । शेषम् उक्तवत् अ न न्त की र्ति कृतेः स्व तः प्रा मा ण्य भङ्गा द् अव. २५ सेयमेतत् ।
यदि वा, 'दोषहेतोः' इत्यादि अन्यथावतार्य अधुना व्याख्यायते-कुतो नु खलु आवरणोद्भूतिः ? यदि स्वतः ; मिथ्याज्ञानमपि तत (स्वत) एव अस्तु । परतश्चेत् ; स वक्तव्यः,न च सोऽस्ति, अप्रमाणत्वात् । नहि बीजमिव अङ्कुरम् आवरणं जनयन् कश्चिदुपलभ्यते अनु
मीयते वा लिङ्गाभावात् । रागादिः उपलभ्यते ; सत्यम् ; किन्तु तदनन्तरमेव आवरणं जायमानं ३० नोपलभ्यते अनुमीयते वा। [१९१ख] भवतु वा सकारणमावरणम् , तथापि तेन मूर्तेन अमूर्तस्य आत्मनः पांशुराशिना इव आकाशस्य न सम्बन्ध इति ; अत्राह-दोषहेतोः इत्यादि । दोषो
(१) सिद्धिवि० २।२४ । (२) आत्मा । (३) बुध्यते । (१) बुध्यते । (५) पृ० २१७ । (६) 'का' इति पञ्चमीविभक्तिः । (७) प्रामाण्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org