________________
४२ ]
आवरणोदयात् मिथ्याज्ञानम्
२३३
'कथं धर्म्यसिद्धिः ? तथापि 'मिथ्याज्ञानं विसंवादात्' इत्यस्तु किम् अप्रमाणपदेन इति चेत् ? न; 'अनुमानेन आवरणसत्ता साध्यते भवता, तच्च मिथ्या तत्कुतः ततो भावतः तत्सिद्धिः ' इति वदन्तं प्रति एवमभिधानात् ।
यावता ५
"
अत्रायमभिप्रायः-अनुमानं चेत् मिथ्यात्व (ध्याप्य) पेक्ष्यते; तर्हि विसंवादादप्रमाणं स्यात्, प्रमाणं चेष्यते तन्न मिथ्या इति । ननु स्यादेदत् (तद) प्रमाणं यदि विसंवादकं स्यात्, मिथ्यात्वेऽपि मणिप्रभामणिज्ञानवत् साध्य [ १९० ] प्रतिबन्धादविसंवादकमिति चेत् ; ननु तन्मणिञ्ज्ञानम् अविसंवादेऽपि यदि न प्रमाणम् ; कथमनुमानं तल्लक्षणव्यभिचारात् ? प्रमाणं चेत्; प्रत्यक्षम्, अनुमानं वा ? अन्यत्र मण्यध्यवसायः अन्यंत्र मणिप्राप्तेः नाध्यक्षम् इतरथा मरीचिकानिचये जलाध्यवसायः कूपादौ जलप्राप्तौ अध्यक्षं स्यात् । भवति जातपरितोषस्य इति चोदवदेत् (चेत्; स्यादेतत् ) यदि मणिभ्रान्तिः इन्द्रियज्ञानम्, न चैवम् रूपसाधर्म्यदर्शनापेक्ष. १० णात्, अक्षविकारमन्तरेण भावात्, वावकैः" (वाचकैः) सन्तानान्तरेण समर्पणात् प्रतिसंख्याने न बाधनात्, मानसी तु युक्ता युक्त (शुक्तौ) रजतभ्रान्तिवत् । अस्या" इन्द्रियजत्वे सति*“नो चेद् भ्रान्तिनिमित्तेनं संयोज्येत गुणान्तरम्" । शुक्तौ वा रजताकारः रूपसाधर्म्य दर्शनात् ॥ "
.3
१२
[प्र० वा० ३।४३ ] इति विरुध्यते । १५ मनोविभ्रभं प्रति अक्षविभ्रमस्य दृष्टान्तत्वानुपपत्तेः इति । भवतु मानसी नेरतस्य ( नेतरस्य ) प्रमाणमिति चेत्; प्रत्यक्षाद् अन्यस्यां तदनुरोधात् प्रत्यक्षत्वे दर्शनष्पृष्ठभावितो विकल्पस्य व्यव - हारिणं प्रति स्मृतित्ववर्णनमयुक्तम् । न खलु व्यवहारी दर्शनाद् विकल्पमन्यमिच्छति "मनसो - युगपद्वृत्तेः " [प्र० वा० २।१३३] " इत्यादिवर्णनात् ।
a
अस्तु नाम तमः (अनुमानम् ) तदन्यत्र मणिप्राप्तेः धूमादग्निवत् पूर्वं च तत्प्रभाव्यवसाय: २० स्यात्, वृक्षाध्यवसाये शिंशपाध्यवसायवत्, न चैवम्, अविचारैकमजातपरितोषं व्यवहारिणं प्रति तदप्रामाण्यवर्णनात् । एतेन कार्यलिङ्गत्वं तयोर्निरस्तम् ; तदध्यवसायात् प्राग् अग्निव्यवसायवत् प्रभाध्यवसायेन भवितव्यमिति कुतस्तत्र मण्यध्यवसायः ? नहि धूमं निश्चिन्वतः [१९०ख ] पावकस्य अन्यस्य वा अध्यवसायो दृष्टः । तत्र मणिव्यवसायस्य अनुमानत्वे 'मणिप्रदीपप्रभयोः " [प्र० [० वा० २।५७ ] इत्यादि सुघटम् । यस्तर्हि अवधारित विशेषः एवमनुमानं करोति- २५ प्रभावानयं गृहप्रदेशविशेषः मणिसहितप्रभाविशेषत्वात् अन्यत्रोपलब्धैवंविधतत्प्रदेशवत् । कुञ्चिकाविवरप्रभाविशेषो वायं मणिसंस्थानवान् तद्विशेषत्वात् पूर्वोपलब्धतद्विशेषवत्' इति, [ तत्र ]
(१) मिथ्याज्ञानस्य प्रसिद्धेः । (२) अनुमानात् । ( ३ ) परमार्थतः । ( ४ ) आवरण । (५) मणिप्रभामणिज्ञानम् । (६) प्रमाणम् । (७) कुञ्चिकाविवरस्थायां मणिप्रभायाम् । (८) अपवरकाभ्यन्तरे । (९) प्रमाणम् । (१०) तुलना - " कदाचिदन्यसन्ताने तथैवार्येत वाचकैः । दृष्टस्मृतिमपेक्षेत न भासेत परिस्फुटम् ॥" - प्र० वा० २।२९८ । ( ११ ) तत्वज्ञानेन । ( १२ ) भ्रान्तेः । (१३) साहश्यादिना । (१४) नित्यत्वादिलक्षणम् । (१५) “सविकल्पाविकल्पयोः । विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥” इति शेषः । (६) “मणिबुद्ध्या भिधावतोः । भिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥” इति शेषः ।
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org