________________
२३२ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः मिति ; तं प्रत्याह-ज्ञातुः इति। 'यः प्राक् शङ्ख शुक्लतया ज्ञातवान् , संप्रति जानाति पीततया, पुनर्ज्ञास्यति शुक्लतया स ज्ञाता' इत्युच्यते । सं च *"प्रत्यक्षं क्षणिकं विचित्र [१८९क]विषयाकारैकसंवेदनम्" [सिद्धिवि० २।३] इत्यादिना लेशतः प्रदर्शितः, प्रपञ्चतः पुनरत्रैव प्रदर्शयिष्यते । तदुक्तं न्या य वि नि श्च ये
*"सत्यन्तमागरायायां (सत्यं तमाहुराचार्याः) विद्यया विभ्रमेण यः । . सदर्थमसदर्थ वा पसुरोस्वावलोकतः (प्रभुरेषोऽवलोकते) ॥"
न्यायवि० ११३८] इति । वैशेषिकस्त्वाह-ज्ञानोत्पत्तेः प्राक् आत्मा विद्यते, स तु तदा ज्ञानाभावादेव विषयं सन्तमपि न विषयीकरोति नावरणादिति; *"देवरक्ताः किंशुकाः" इति न तत्रं नः प्रयासः १० आवरणसाधने । तत्र केवलं धर्मादिसामग्रीतः समीचीनज्ञानम्, अन्यस्याः मिथ्याज्ञानमिति
विभाग इति । तत्रोत्तरमाह-स्वतः इति । स्वात्मरूपेण न अर्थान्तरज्ञानसम्बन्धेन 'ज्ञातुः' इति वृत्तौ प्रतिपादयिष्यते ।
विभ्रमैकान्तवादी प्राह-भवतु कश्चित् स्वयं ज्ञाता, से च स्वभावत एव विपरीतार्थग्राही नावरणादिति; तत उत्तरं पठन्ति-सतोऽवितथस्य यथावस्थितस्वार्थग्रहणस्वभावस्य इत्यर्थः । १५ स्वतः' इत्येतदत्रापि सम्बन्धनीयम् , कथमन्यथा विभ्रमैकान्तस्यापि प्रतिपत्तिः । न हि विभ्रमादेव तत्प्रतिपत्तियुक्ता, अतिप्रसङ्गात् । तदुक्तं केनचित्__ *"प्रभासु(स्व)रमिदं चित्तं प्रकृत्याऽऽगन्तवो मलाः।"
[प्र. वा० ११२१०] इति । परः पुनरेवं मन्यते-स्वतस्तस्य मिथ्यादर्शनात्मकत्वम् अन्यतो यथार्थदर्शनात्मकत्वमिति; १. स 'विषात्' इत्यनेन निरस्तः; विषाद्युपयोगान्वयव्यतिरेकानुविधायितया दृश्यमानस्य मिथ्या
दर्शनस्य अन्यतः कल्पने धूमोऽपि अग्निप्रभवो न स्यात् । स्वतश्च मिथ्यात्वेन सर्वसंविदां कुतः स्वसंवेदनपरमार्थ[१८९ख]सिद्धिः ? नहि तत्र पूर्वसंवेदनादन्यस्य व्यापारः *"चक्षुरादेविषयप्रतिनियमः विषयात् तदाकारता आलोकात् स्पष्टता विज्ञानाद् विज्ञानस्य विद्रूपता।"
इति वचनात् । नापि स्वसंवेदनपरमार्थाऽसिद्धौ सौगताः सुखमासितुं कालकलालेशमपि समर्थाः, २५ कस्यचिद् विधिनिषेधायोगात् । ततः स्थितम्-'स्वतः सतः' इति ।
____ नन्वेवं चेदिदमनुमानं तर्हि 'मिथ्याज्ञानमप्रमाणम्' इत्येवास्तु, किं 'विसंवादात्' इत्यनेन इति चेत् ? उच्यते-'विवादास्पदीभूतं मिथ्याज्ञानम् अदृष्टावरणम्' इति साधयन्तं प्रति यदा कश्चिद् ब्रवीति 'कस्यचिन् मिथ्याज्ञानस्य अभावात् साध्यदृष्टान्तधर्मिणोरसिद्धिः' इति; तदा तं प्रति तद्धर्मिणः (णोः) साधनार्थम् 'विसंवादात्' इत्युच्यते । यतः अभ्युपगच्छतापि ३० प्रज्ञा क रे ण प्रतिभासाद्वैतम् 'इदम् अतो जायते, इदमस्माद् दूरं निकटम्' इत्यादि विकल्पबुद्धीनां निर्विषयत्वाऽपरनामा विसंवादोऽभ्युपगन्तव्यः कथमन्यथा प्रतिभासाद्वैतम् ? तथा च
(१) ज्ञाता । (२) ज्ञानाभावान्न ग्रहणमित्यत्र । (३) सति । (४) टीकायाम् । (५) ज्ञाता । (६) विभ्रमप्रतिपत्तिः। (७) ज्ञानरूपता। (८) साध्यदृष्टान्तधर्मिणोः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org