________________
४२] आवरणोदयात् मिथ्याज्ञानम्
२३१ सर्वविषयप्रकाशनस्वभावस्य' तदप्रकाशनात् तत्सिद्धिः; तत्स्वभावता कुतस्तस्य सिद्धा ? तदावरणापाये सर्वप्रकाशनस्वभावत्वात् ; अन्योऽन्यसंश्रयः-सिद्धे हि सर्वप्रकाशनस्वभावे सति आवरणसिद्धिः, तत्सिद्धौ तत्क्षये तत्प्रकाशनस्वभावसिद्धिः इति चेत् ; अत्राह-मिथ्याज्ञानम् इत्यादि ।
[मिथ्याज्ञानं विसंवादादप्रमाणं विषादिवत् ।
ज्ञातुरावरणोद्भुतेः दोषहेतोः स्वतः सतः ॥२॥ मत्यज्ञानभेदा अवग्रहादयः प्रमाणाभासा मिथ्याग्रहणात्मकाः, प्रमाणस्य अविप्रतिसारलक्षणत्वात् । स्वतः प्रमाणभूतस्य आत्मनः परतो विपर्यासोपपत्तेः मत्तमूच्छितादिवत् । यदि पुनः स्वत एव ज्ञाता न स्यात् कुतः परतोऽचेतनवत् । न हि तथापरिणामरहितस्य तथा परिणामः । परस्य अन्यातिशयकल्पनायामात्मनः किन्न कल्प्यते ? ज्ञस्वभावस्य १० अप्राप्यकारिणः प्रतिबन्धाभावे त्रिकालगोचरमशेषं द्रव्यं कथञ्चिज्जानतो न कश्चिद्विरोधः, आत्मनः स्वविषये वैशद्यमनुभवतः परोक्षप्रत्यक्षवत् । नास्माकमावरणक्षयोपशमवशात् स्वकारणशक्तेः। स्वलक्षणदर्शनाहितसन्तानविकल्पवासनाप्रकृतिः संवृतिः वस्तुमात्राध्यवसायात् व्यवहारमारचयतीति चेत् ; न ; क्षणिकैकान्ते अर्थक्रियाविरोधनिर्णयात् । ततः] __अस्यायमर्थः-यत् तस्मिन् मिथ्याज्ञानम् अप्रमाणं विसंवादात् कञ्चनात् प्रसिद्ध हि लोके 'प्रकृत्यादिविषयं तत् धर्मि । तत्र साध्यम् आह-आवरणोद्भूतः इति । जीवस्य स्वविषये प्रवृत्तिनिषेधकं [१८८ ख] ज्ञानावरणीयादि कर्म आवरणं तस्य उद्भूतिः स्वकार्यकरणाभिमुख्यं तस्याः, 'भवति' इति शेषः । साध्यमेतत् । हेतुमाह-दोषहेतोः इति । दोषः अन्यथाग्रहणं स एव हेतुः लिङ्गं तस्मात् । दृष्टान्तमाह-विषादिवत् इति । विषम् आदिर्यस्य २० सुरादेः स तथोक्तः तस्मादिव तद्वदिति । एतदुक्तं भवति-यथा विषादेः उपजायमानं भूभ्रमणादि. विषयं विषाद्यावरणोद्भूतः भवति तथा प्रकृत्यादिविषयमपि, तददृष्टावरणोद्भूतेः इति । प्रयोगः-विवादगोचरापन्नं [मिथ्याज्ञानम् आवरणोद्भुतेर्भवति, मिथ्याज्ञानत्वात् ] मिथ्याज्ञानस्य उपलक्षणार्थत्वात् [तेन] अज्ञानत्वाद् अस्पष्टत्वादिति [च गृह्यते, विषादिज निततथाविध (धा)ज्ञानवत् , एवमर्थं च विषादिग्रहणम् , तदुपयोगे तत्रियाननिवृत्तेः (तत्रितयानिवृत्तेः) इति । २५
___ अत्राह सौत्रान्तिकादिः-मिथ्याज्ञानात् प्राक् तदाधारस्य स्वविषयप्रकाशनस्वभावस्य भावे कस्यचिद् आवरणकल्पना श्रेयसी; न च सोऽस्ति प्रमाणाभावात् । मिथ्याज्ञानमपि निराधारं जायते *"आदेशाः चित्रवैतसिका (अदेशाः चित्तचैतसिकाः)" इति वचनात् । ततस्तस्यापि" आवरणकल्पना कीदृशी ? तत्र भावान्तरादर्शनादिति पक्षस्य प्रत्यक्षबाधो दृष्टान्तस्य साध्यवैकल्य____(१) आत्मनः । (२) आवरणसिद्धिः। (३) आत्मनः । (४) सांख्याभिमत । (५) "भाद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ।"-त. सू० ८।४ । (६) मिथ्याज्ञानम् । (७) ज्ञानावरणोदयात् । (८) मिथ्यात्वम् अज्ञानत्वमस्पष्टत्वञ्च । (९) आत्मनः । (१०) आत्मनोऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org