________________
२३० सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः तद्रश्मीनामपि अर्थसम्बन्धो न स्यात् कुतस्तत्प्रकाशनम् ? अस्ति च । ततो मन्यामहे रश्मे निर्गमनमिति । मनोवत् सम्बन्धसम्बन्धात् तत्प्रकाशनापत्तेः अदोषः । तथाहि-यथा मन आत्मना संयुक्तम् , सोऽपि आकाशेन, तेदपि सर्वभावैः इति सम्बन्धसम्बन्धात् तदर्थप्रकाशकम् । न खलु तस्य तद्रश्मीना[ञ्च] स्वार्थेन संयोगः परैः अभ्युपगम्यते । तथा चक्षुः मनसा, तदपि आत्मना ५ संयुक्तम् , सोऽपि आकाशेन, तदपि सर्वभावैः इति सम्बन्धसम्बन्धात् । तदर्थप्रकाशकम् । न
खलु तस्य तद्रश्मीनां स्वार्थेन संयोगः परैः अभ्युपगम्यते । तथा, चक्षुः मनसा तदपि आत्मना सोऽपि विषयैः संयुक्त इति सम्बन्धात् $ चक्षुरपि तत्प्रकाशकमित्यलं रश्मिनिर्गमनकल्पनया । न च इन्द्रियत्वाऽविशेषेऽपि मनः तथा प्रकाश षेपिरक्षुः (यति न चक्षुः) इति न विशेषं पश्यामः ।
एवं शाखाचन्द्रमसोर्युगपद्ग्रहणमुपपन्नं भवति, अन्यथा क्रमेण गच्छतां रश्मीनां पूर्वं शाखया १० संयोग इति तस्याँ एव ग्रहणं पुनः चन्द्रमसा इति तस्य ग्रहणमिति क्रमप्रतिपत्तिः स्यात् । न
चैवम् । ___उत्पलपत्रशतवेधवत् शाखाचन्द्रमसोर्ग्रहणस्य आशुभावात् यौगपद्यप्रतिपत्तिभ्रम इत्यन्ये"; तन्न ; मूर्तस्य असर्वगतस्य सूचीद्रव्यस्य तत्पत्रैः भिन्नदेशैः क्रमेण सम्बन्धात् युक्तो युगपत्त्व
विभ्रमः नान्यत्र तद्विपरीते, इतरथा [१८८क] एवम् एकज्ञानवार्ता निर्मूला स्याद् वराकी । १५ यदि मतम्-अन्यत्रापि"तथाविधस्य रश्मेभिन्नदेशाभ्यां शाखाचन्द्रमोभ्याम् संयोगः क्रमेण
इति; स्यादेतदेवं यदि सूचीद्रव्यवत् कुतश्चिद् रश्मिगमनप्रतिपत्तिः स्यात्, न सा अस्ति इत्युक्तम् । तद्विभ्रमाऽप्रतिपत्तौ अन्योऽन्यसंश्रयः। तथाहि-क्रमेण रश्मिगमनसिद्धौ तद्विभ्रमसिद्धिः [तद्विभ्रमसिद्धौ च क्रमेण रश्मिगमनसिद्धिः] इति । ततः स्थितम्-रश्मेः कुतो निःमृतिः इति।
___ ननु यस्य सकलज्ञेयग्रहणस्वभावं ज्ञानं तत्स्वभावश्च आत्मा कथं तस्य स" कस्यचिद२० प्यर्थस्य स्वयं ग्राहको यतः अक्षापेक्षस्य अर्थे क्रमग्रहः स्यात् सर्वज्ञवत् । आवरणसद्भावात् स्वयम
ग्राहक इति चेत् ; कुतः तत्सिद्धिः" ? न प्रत्यक्षतः; तत्र तदप्रतिभासनात् । देशादीनाम् आवरणत्वे सर्वज्ञाभावः, "तेषां सर्वदा भावात् । रागादीनां सद्भावेऽपि विषयदर्शनभावान्न आवरणत्वम् । अन्यस्य अनुमानतो न प्रतिपत्तिः ; तदर्थापक("तदुत्थापक) लिङ्गाभावात् । अथ (१) तुलना-"तथैव कारणत्वस्य मनसा व्यभिचारिता। मन्त्रेण भुजङ्गाद्युच्चाटकादिकरण वा ॥८॥"
लो० पृ. २३४ । न्यायकुमु. पृ० ८२ । स्या. रत्ना० पृ. ३३०। (२) आकाशमपि । (३) चक्षुषः । (४) संयुक्तम् । (५) आत्मापि । (६) एतदन्तर्गतः पाठो द्विलिखितः । (७) तुलना-"पश्येच्चक्षुश्चिराद् दूरे गतिमद् यदि तद्भवेत् । अत्यभ्यासे च दूरे च रूपं व्यक्तं न तत्र किम् ॥१३॥ यदि चक्षुः प्राप्यकारित्वात् विषयदेशं गच्छेत् तदा उन्मिषितमात्रेण न चन्दतारकादीनान गृह्णीयात् ।" -चतुःश. पृ. १८६ । "चक्षुर्हि शाखाचन्द्रमसावभिन्नकालमुपलभते.."-त. वा. पृ. ६८ । (८) शाखायाः। (९) सम्बन्धः। (१०) चन्द्रमसः। (११) “यत्पुनरेतत्-शाखाचन्द्रमसोस्तुल्यकालग्रहणमिति ; तदपि ने; अनभ्युपगमात् को हि स्वस्थात्मा शाखाचन्द्रमसोः तुल्यकालग्रहणं प्रतिपद्यते। कालभेदाग्रहणात् मिथ्याप्रत्यय एषः उत्पलदलशतव्यतिभेदवदिति ।"-न्यायवा. पृ. ३५। न्यायवा. ता० टी० पृ. १२० । प्रश० कन्द० पृ. २३ । प्रश० प्यो० पृ. १५९ । प्रश. किर० पृ०७४ । मुक्ता० पृ. १७८ । (१२) मूर्तस्य । (१३) यौगपद्यविभ्रमसिद्धिः । (१४) आत्मा। (१५) आवरणसिद्धिः । (१६) देशादीनाम् अपायाऽसंभवात् । (१७) रागादीनाम् । (१८) अनुमानप्रयोजकत्वभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org