________________
४१]
चक्षुः सन्निकर्षविचारः
२२९
अनुमानतः ; तदभावात् । ननु इदमस्ति ' - रश्मिवच्चक्षुः स्वरश्मि [सम्बद्धं] सर्वत्र स्वार्थं प्रकाशयति, तैजसत्वात्, प्रदीपवत् इति चेत्; कुतोऽस्य' तैजसत्वम् ? उष्णस्पर्शत्वात् ; न ; तद्विशेषस्यै तत्राऽभावात् । सोष्णतामात्रस्य घ्राणादावपि भावात् । [१८७ ] भासुररूपवत्त्वात्; किमिदं रूपस्य भासुरत्वम् ? उज्ज्वलत्वमिति चेत्; न; अस्य निमित्तं ( निशित ) निस्त्रिंशादौ भावात् । कपिशत्वे सति इति चेत्; न; तस्य वरनारीलोचनेषु दुग्धधवलेषु अभावात्, कनकवच्च कनक- ५ केतकीकुसुमदलेषु भावात् । एतेन " मार्जारादिचक्षुरपि व्याख्यातम् ।
अपरेषां दर्शनम् -'चक्षुः तैजसं रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवत्' इर्तिं ; तेषां सर्वे घटादयः प्रसिद्धाः पावकवत् सत्त्वात् तैजसाः किन्न स्युः ? अथ उष्णभासुरस्पर्शरूपविविक्तघटादिग्राहिणा अध्यक्षेण पक्षस्य बाधनात् नैवम्; प्रकृतेऽपि समानमेतत् ।
१०
किंच, न तैजसं चक्षुः अत्यासन्नाऽप्रकाशकत्वात्, यत् पुनः तैजसं तद् अत्यासन्नस्यापि प्रकाशकं यथा प्रदीपादिः इति [ व्यति] रेकी हेतुः अत्र किन्न विजृम्भते ? न चायं परस्य अगमकः ; अन्यथा *“सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् " " इति न सुभाषितम् । यदि वा, तमः प्रकाशकत्वात्"; यत् पुनः तैजसं न तत् तमः प्रकाशकं यथा प्रदीपादि इति ग्राह्यम् । तदुक्तम्
*“तमो निरोधि वीक्ष्यन्ते तमसा नावृतं परम् ।
कुड्यादिकं न कुड्यादितिरोहित मेत्कका (तमिवेक्षकाः) ।। "
[ लघी० श्लो० ५६ ] इति । प्रदीपाद्यालोकाभावेऽपि च "कचिद् रूपज्ञानस्य उदयदर्शनात् कथं तदालोकस्य नियमेन रूपप्रकाशकत्वम्, यतः साधनविकलो दृष्टान्तो न भवेत् ? तदेवं नायनरश्मीनामसिद्धेः तेषां चक्षुः शब्दवाच्यत्वेन धर्मित्वे 'बाह्येन्द्रियत्वात्' इति आश्रयस्वरूपासिद्धो हेतुरिति यत् किञ्चिदेतत् । २० इदमपरं व्याख्यानम् - - रश्मेः चक्षुरश्मीनां कुतः कारणात् निःसृतिः निर्गमनं स्वाधिष्ठानात् । नहि अकारणम् [ १८७ख] अदृष्टं सत्तया कल्पनमर्हति, अतिप्रसङ्गात् । अर्थप्रकाशनं तत्कारणम्" इत्येके । तथा हि-इन्द्रियम् आत्मसंबद्धमर्थं प्रकाशयद् दृष्टम् । तत्र यदि गोलकवत् ( १ ) तुलना - "कृष्णसारं रश्मिवत् द्रव्यत्वे सति रूपोपलब्धौ नियतस्य साधनाङ्गस्य निमित्तत्वात् । अथवा, रश्मिवचक्षुः द्रव्यत्वे सति नियतत्वे च सति स्फटिकादिव्यवहितार्थ प्रकाशकत्वात् प्रदीपवत् । " - न्यायवा० पृ० ३८१ । न्यायवा० ता० टी० पृ० ५२५ । (२) चक्षुषः । (३) उष्णता विशेषस्य । ( ४ ) शाणीकृततीक्ष्णशस्त्रादौ । ( ५ ) " नक्कञ्चरनयन रश्मिदर्शनाच्च । (सू०) दृश्यन्ते हि नकं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनाम् तेन शेषस्यानुमानम् ।" - न्यायभा० ३ | १ | ४३ । न्यायम० पृ० ४८० | (६) द्रष्टव्यम् पृ० ८ टि० ४ । ( ७ ) हेतोः । ( ८ ) तुलना - " अप्राप्यकारि चक्षुः स्पृष्टानवग्रहात् । यदि प्राप्यकारि स्यात् त्वगिन्द्रियवत् स्पृष्टमञ्जनं गृह्णीयात् । न च गृह्णाति ।" - त० वा० पृ० ६७ । (९) नैयायिकस्य । (१०) "नेदं जोवच्छरीरं निरात्मकम् अप्राणादिमत्त्वप्रसङ्गात् । " - न्यायवा० पृ० ४६ । ( ११ ) न तैजसं चक्षुः । तुलना - "न तैजसं चक्षुः तमः प्रकाशकत्वात् ।" - म्यायकुमु० पृ० ८० | स्या० रत्ना० पृ० ३२४ । (१२) नक्तञ्चरादौ । (१३) सद्र पेण । (१४) रश्मिकारणकम् । तुलना - "करणं वास्यादि प्राप्यकारि दृष्टं तथा चेन्द्रियाणि तस्मात् प्राप्यकारीणि ।" न्यायवा० पृ० ३६ । " इन्द्रियाणां कारकत्वेन प्राप्यकारित्वात् । " -न्यायम० पृ० ३७ ।
Jain Education International
For Personal & Private Use Only
१५
www.jainelibrary.org