________________
२२८ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः घ्राणादि इति । दूरे शब्दः निकटे शब्दः इति प्रतीतिश्च (तेश्च) चक्षुरिव श्रोत्रमप्राप्यकारि इति चेत् ; आस्तां तावदेतत्, आगमप्रस्तावे अस्य निरूपयिष्यमाणत्वात् ।
अत्राह वैशेषिक:-श्रोत्रादिवत् बाह्येन्द्रियत्वात् चक्षुरपि संमुपेतमेव विषयीकरोति, तत् किमर्थमुक्तम् चक्षुर्न वै इति; तं प्रत्याह-पश्यत्येव हि इत्यादि। हि यस्मादर्थः, यत् पश्यत्येव ५ ईक्षत एव न [न] पश्यति इति एवकारार्थः, चक्षुः इत्यनुवर्त्तते । ननु मनः पश्यति न चक्षुः अन्यथा तत्परिकल्पन[मनर्थकम् ] इति चेत् ; न; आत्मानं विषयं पश्यन्तं चक्षुः [सह] करोति इति 'तत् पश्यति' इत्युच्यत इत्यदोषात् । किं पश्यति ? इत्याह-सान्तरम् । सह अन्तरेण देशेन नद्यादिना द्रव्येण काचात् (भ्र)पटलादिना वर्तमानं घटादिकं 'विषयम्' इति वचनपरिणामेन
सम्बन्धः । एतदुक्तं भवति-चक्षुरिति यदि गोलकस्य लोकव्यवहारतः अभिधानमाश्रीयते; तर्हि १० तस्य देशादिव्यवहितेन घटादिना प्रत्यक्षतः ततोऽत्यन्तभिन्नेन प्रतीयमानेन सन्निकर्षसाधने
प्रत्यक्षबाधितर्मनिर्देशानन्तरप्रयुक्तत्वेन 'बाह्यन्द्रियत्वात्' इति कालात्ययापदिष्टो हेतुः स्यात् , यथा अश्रावणः शब्दः सत्त्वात् इति ।
तत्रैव युक्त्यन्तरमाह-पृथुतरम् इति । सर्षपादेः सूक्ष्मात् पृथु चक्षुः तस्मात अतिशयेन पृथु पर्वतादिकं पृथुतरं तत् पश्यति' इति सम्बन्धः । [१८६ख] अत्रायमभिप्रायः-पूर्वोक्तेन १५ विधिना देशादिना देशादिव्यवहितेन पर्वतादिना प्रमाणबाधितत्वान्न चक्षुषस्तेन सन्निकर्षोऽस्ति,
तथापि पादप्रसारिकतया यदि इष्यते तर्हि यतः (यावतः) पर्वतादिप्रदेशस्य पृथुनो जलबुबुदसन्निभेन चक्षुषा सम्बन्धः, तावत एव तेन ग्रहणं स्यात् न योजनादिपरिमाणस्य पृथुतरस्य । न खलु हस्तेन अन्धस्य हस्तिहँस्तमात्रसन्निकर्षे संपूर्णहस्तिप्रतिपत्तिरस्ति । विद्यते च चक्षुषा प्रथुतरस्य ग्रहणम् । ततो मन्यामहे असन्निकृष्टं पश्यति चक्षुः इति ।
. ननु न गोलकविशेषः चक्षुः येनायं दोषः स्यात् , अपि तु रश्मयः, तेषां च अर्थसन्निकृष्टानां तत्प्रकाशनसाधनात् । अस्मिंश्च पक्षे पृथुतरं तत् पश्यति इति न विहन्यते, मूले सूक्ष्माणां प्रदीपादिरश्मिवत् अग्रे स्थूलानां भावादिति चेत् ; अत्राह-रश्मः इत्यादि । रश्मिः इति जातिव्यपेक्षयैकवचनम् , व्यक्त्यपेक्षायां तु रश्मीनां चक्षुष इति विभक्तिपरिणामेन सम्बन्धः । कुतः ? न कुतश्चित् प्रमाणात् निःमृतिःप्रतिपत्तिः “गत्यर्थस्य सरतेर्ज्ञानार्थत्वात् । न तावत् प्रत्यक्षतः ; २५ तत्र तदप्रतिभासनात् । अनवस्थानात् तेषामपि अपन (अपरनयन)तद्रश्मिसंबन्धेन ग्रहणात् । नापि
(१) “प्राप्यकारि चक्षुः इन्द्रियत्वात् घ्राणादिवत् ।"-न्यायवा० पृ. ३६ । न्यायवा. ता. टी. पृ. १२२ । “प्राप्तार्थप्रकाशकं चक्षुः व्यवहितार्थाप्रकाशकत्वात् प्रदीपवत् बाह्येन्द्रियत्वात् त्वगिन्द्रियवत् ।" --प्रश० कन्द० पृ० २३ । (२) "चक्षुःश्रोत्रे प्राध्यार्थ परिच्छिन्दाते बाह्येन्द्रियत्वात् त्वगिन्द्रियवत् ।" -न्यायवा० ता० टी० पृ० ७३ । (३) मनःकल्पना व्यर्था । (४) साध्य । (५) अल्पेन । (६) चक्षुषा । (७) शुण्डादण्ड । (6) "रश्म्यर्थसन्निकर्षविशेषात्तद्ग्रहणम् ।"-न्यायसू० ३।१।३२ । “तयोर्महदण्वोर्ग्रहणं चक्षुरश्मेरर्थस्य च सन्निकर्षविशेषाद् भवति यथा प्रदीपरश्मेरर्थस्य चेति ।"-न्यायभा० । “चक्षुर्बहिर्गतं बाह्यालोकसम्बन्धाद् विषयपरिमाणमुपपद्यते..."-प्रश० व्यो० पृ० १५९ । "पृथुग्रहणस्यापि पृथ्वग्रतया तद्वदेवोपपत्तेः ।"-प्रश० किर० पृ० ७४ । (९) चक्षु । (१०) स गतावित्यस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org