________________
४।१]
प्रत्यभिज्ञानस्य प्रामाण्यम्
२२७ वत्तो (तो) विषयान् 'विज्ञातान् विषयान् अशेषकरणैः' इति सम्बन्धः । तदुक्तम्*"पश्यन्स्वलक्षणान्येकम्" [सिद्धिवि० ११९] इत्यादि । न चायमेकान्तः अपरापरदशादर्शने तद्वात्रयं (तद्वानवश्य) दृश्यते इति, कथमन्यथा मध्यक्षणस्य दर्शनेन पूर्वापरक्षणादर्शने ततो विवेकप्रतिपत्तिः ? शेषमत्र पूर्वमत्रापि चिन्तितम् ।
. स्यादेतद् यदि विज्ञातान् विषयान् अशेषकरणः आत्मा अभिज्ञया बुध्यते ५ तर्हि सर्वान् आजन्मनः सर्वःता (सर्वास्ताः') तया बुध्यते (बुध्येत) इति चेत् ; अत्राह-स्मृत्वा इति । स्मरणेन विज्ञातान् पूर्वविषयान् कृत्योत्तर (कृत्त्वा उत्तर)विषयैः विज्ञानैः एकत्वेन ध्यसा (नाध्यवसाय) बुध्यते न सर्वानिति मन्यते । अनेन स्मृतेः प्रत्यभिज्ञानफलत्वेन प्रामाण्यं दर्शयति ।
सांप्रतं तर्कफलत्वेन प्रत्यभिज्ञाया प्रमाणत्वमुपवर्णयन्नाह-तर्कम् इत्यादि। अस्यायमर्थःअभिज्ञया करणभूतया कृत्त्वा तर्कम् उहं नीत्वा विषयान् तर्कग्राह्यान् तान् कृत्त्वेत्यर्थः । १० तान् विषयान् नीत्वा तं तद्ग्राहकमापाद्य [१८५ ख] इत्यर्थः । किम्भूतम् ? इत्याह-तर्कितम् इत्यादि । तर्कितः प्रत्यक्षप्रमाणेन निश्चितो गोचरः तस्मात् इतरोऽन्यः देशाद्यन्तरभावी भावः तत्र विधिः विधानम् उत्पत्तिर्यस्य स तथोक्तः तमिति । अनेन प्रत्यक्षफलत्वम् एकान्तेन निराकरोति "अस्य । स किं करोति ? इत्याह-बुध्यते अभितः समन्ताद् विषयान् 'तर्केण' इति विभक्तिपरिणामेन संबन्धः ।
ननु स्मरणादिविषयस्य तत्कालेऽभावात् कथं तेन [ग्रहणम् ?] ग्राहकसमानसमयो हित विषयः तेन गृह्यत इति युक्तम् , अन्यथा चक्षुरादिज्ञानमपि सर्वातीतादिग्राहकं स्यादिति चेत् ; अत्राह-श्रोत्रादि इत्यादि । इदं वाक्यं यथातथाशब्दावन्तरेणापि प्रतिवस्तूपमालङ्कारवशेन व्याहृतं यथातथाशब्दं व्याख्येयम् । श्रोत्रम् आदिः यस्य ब्राणादेः स तथोक्तः यथा समुपेतमेव स्वसन्निकृष्टमेव नाऽसन्निकृष्टं विषयीकुर्वीत 'विषयम्' इति वचनपरिणामेन .. सम्बन्धः, चक्षुः नवै नैव समुपेतमेव विषयीकुर्वीत दिसमुपेतमेव विषयं विषयीकुर्वन् प्रतीयत इति मन्यते । एतच्च सौगतस्य प्रसिद्धमिति न साधनमर्हति । यथा चक्षुरादिज्ञानं स्वकालविशेषणं वस्तु विषयीकुर्वीत स्मरणादिकं तु भिन्नकालविशेषणमपि इति, सर्वत्र तथाप्रतीतेरविशेषात् ।
एतेनेदमपि निरस्तं यदुक्तं प्रज्ञा क रे ण-*"स्मरणादिकम् अतीतादौ प्रवर्त्तमानं .. निर्विषयं तत्काले विषयाभावात्" इति ; तन्निरस्तम् ; चक्षुर्ज्ञानमपि तथा निर्विषयं स्यात् , तद्देशे तद्विषयाभावात् इति । [१८६क]
ननु सौगतस्य चक्षुरिव श्रोत्रमपि न वै समुपेतमेव विषयीकुर्वीत "चक्षुःश्रोत्रमनसाम् अप्राप्यकारित्वम्" इति रोद्धान्तात् किमुच्यते श्रोत्रादि इत्यादि । तस्मादेवं वक्त[व्यं]
(१) अवस्थाः। (२) अभिज्ञया। (३) प्रत्यभिज्ञाम स्मरणस्य फलमिति भावः। (४) तर्कस्य । (५) यथातथाशब्दसहितम् । (६) चक्षुः असम्बद्धमेवार्थम् । (७) स्मरणकाले। (८) "गृह्यमाणे स्मृतिर्नास्ति ग्रहणानन्तरं हि सा । अतीतेग्रहणे तस्य रूपाभावे न सा स्मृतिः ॥ इदानीं स्मरणं जातं कथं जानाति पूर्वताम् । अविद्यमान नीरूपं कथं तद पता स्मृतेः॥"-प्र. वार्तिकाल. पृ. ६०२। (०)"अप्राप्तान्यक्षिमनःश्रोत्राणि"-अभिध० को० ११४३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org