________________
२२६ सिद्धिविनिश्चयटीकायाम
[४ जीवसिद्धिः स्येव (स्यैव) साक्षाद् वेदनसद्भावात् । कश्चायं नियम:-बुद्धिः तदनुर (भव) मन्तरेण दृश्यते न विषय इति । न च तस्यामज्ञातायाम् आदर्शवन्न (वत्) तत्प्रतिबिम्बवेदनमिति । ननु यदि सत्तामात्रेण स तानु (तान् ) बुध्यते ; तर्हि तदविशेषात् सर्वः सर्वदर्शी स्यादिति चेत् ; अत्राह
अभिज्ञया इति प्रत्यभिज्ञानेन । ५ स्यान्मतम् -'तदेवेदम्' इति [ज्ञान] मभिज्ञा ; तत्र 'तद्' इति स्मरणोल्लेखः, 'इदम्' इति च वर्तमानोल्लेखः, न चापरं ज्ञानमस्ति यत् प्रत्यभिज्ञाभिधानं स्यादिति; तदसारम् ; यतः प्रतिपरमाणुनियतस्य वेदनस्य पूर्वमेव निषेधात् । प्रत्यक्षस्य स्मरणस्य वा उल्लेखः, खरविषाणोल्लेखः, युगपत् चित्रैकसंवेदनाभ्युपगमः, पूर्वापर[१८४ख]पर्यायग्रहणोल्लेखद्वयमुल्लिखन्तीं प्रत्यभि
ज्ञामेका समर्थयते । सापि प्रमाणम् । तथा च प्रयोगः-येन ज्ञानेन आत्मा विषयान बुध्यते [तत् १० प्रमाणम्, यथा घटादिज्ञानम् , बुध्यते] चसँ प्रत्यभिज्ञानेन विषयान् इति । अथ मतं यद्यसौ गताः "तया
बुध्यते, तर्हि अदृष्टपूर्वस्यापि भावस्य पूर्वापरपर्यायैकत्वं प्रथमदर्शन एव तया स बुध्येत इति; तदपि न युक्तम् ; इत्याह-विज्ञातान् इति। कैः ? इत्यत्राह-अशेषकरणः सन्निहिते बीजपूरकादौ यानि रूपरसगन्धस्पर्शविषयाणि अशेषानि समस्तानि करणानि चक्षुरादीनि, ज्ञानानि वा "कार्ये
कारणोपचारात् , यदि वा पूर्व यानि वृत्तानि यानि च पश्चात् प्रवर्त्तन्ते तान्यशेषकरणानि १५ तैः इति । नन्वेवं विज्ञातविज्ञानाद् अभिज्ञा प्रमाणं न स्यादिति चेत् ; अत्राह-न किंते (तर्कित)
इत्यादि । न किंतम् (तर्कितम् ) उहितम् यद् अवग्रहादि तस्य गोचरो विषय इतरो विधिः स्वभावः, 'स्वकारणैर्विधीयते इति विधिः' इति व्युत्पत्तेः तं नीत्वा 'विषयान्' इति वर्त्तते । तथाहि-चक्षुषा बीजपूरादेः एकस्य स्थवीयसो रूपात्मकस्य ग्रहणेऽपि न सोद्याकस्य (रसाद्या
त्मकस्य) ग्रहणम् , रसवा (वे) दिनोऽपि तस्य रसाद्यात्मकस्य वेदनेऽपि न रूपात्मकस्य वेदनम् , २० तथा पूर्वदर्शनेन पूर्वपर्यायविशिष्टस्य अवसायेऽपि नोत्तरपर्यायविशिष्टस्य अवसायः, नापि अपरपर्यायावग्रहेण पूर्वदशाविशिष्टस्य अवग्रह इति, प्रत्यभिज्ञया तु उभयावस्थाविशिष्टो बुध्यते इति नैकान्तेन गृहीतग्राहित्वमिति भावः। ननु यदि पूर्वेण उत्तरेण वा दर्शनेन कस्यचिद् एकत्वं प्रतिपन्नं [१८५क] स्यात् युक्तं प्रत्यभिज्ञया तस्य ग्रहणं दर्शनानुसारित्वादस्याः" । न च पूर्वापरैः
कत्वदर्शनं संभवि। "मा भूत , प्रत्यभिज्ञा च तद्विषया स्यादिति चेत् ; उक्तमत्र-पूर्वदर्शनाभावेऽपि २५ स्यात् । तदर्शने सति इति चेत् ; विस्मृततदर्शनस्य । आशुस्मरणे सतीति चेत् ; पटदर्शनस्मरणात्
घटे तदेकत्वप्रत्यभिज्ञानं भवेत् । “तदेकत्वादर्शनान्नेति चेत् ; तत एव अन्यत्रापि मा भूद् अविशेषादिति चेत् ; अत्राह-अभिननव (अभितः) इति । अभि नवं पूर्वपर्यायपरिहारेण अपरं यन्ति इति अभिमतः (अभितः) निपातत्वादयमस्यार्थ उक्तः । पूर्वत्वं कालान्तरस्थान
___ (१) बुद्धौ । (२) दर्पणवत् । (३) आत्मा । (५) अर्थान् । (५) "तस्मात् स एवायमिति प्रत्ययद्वयमेतत् ।"-प्र. वार्तिकाल० पृ० २२ । (६) प्रत्यक्षस्मरणव्यतिरिक्तम् । (७) आत्मा । (८) आत्मा । (९) अवस्थाः। (१०) अभिज्ञया। (११) इन्द्रियकार्यभूते ज्ञाने। (१२) जातानि । (१३) वस्तुनः । (१४) एकत्वस्य । (१५) प्रत्यभिज्ञायाः । (१६) पूर्वापरैकत्वदर्शनसंभवो मा भूत् तथापि । (१७) पुरुषस्य स्यात् । (१८) घटगतैकत्व ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org