________________
[चतुर्थः प्रस्तावः ] [४. जीवसिद्धिः ]
एवं तावत् *"प्रमाणस्य साक्षात् सिद्धिः स्वार्थविनिश्चयः " " इत्यपेक्ष्य स्मरणं प्रमाणान्तरं सप्रपञ्चं चिन्तितम् । साम्प्रतम् - "पूर्वं पूर्वं प्रमाणं स्यात् फलं स्यादुत्तरोत्तरम्" [लवी० श्लो० ७] इत्यभिसमीक्ष्य तदेव प्रत्यक्षा (प्रत्यभिज्ञा) फलजननात् चिन्तयितुं प्रत्यभिज्ञानं च आत्मसिद्धिपुरस्सरं तर्कजननात् प्रज्ञावादी (प्रस्तावादी) विज्ञातान् इत्यादि ( इत्याह ) - [विज्ञातान् विषयानशेषकरणैः स्मृत्वा मनोऽभिज्ञया तर्क तर्कितगोचरेतरविधिं नीत्वाऽभितो बुध्यते । श्रोत्रादिसमुपेतमेव विषयीकुर्वीत चक्षुर्न वै,
पश्यत्येव हि सान्तरं पृथुतरं रश्मेः कुतो निःसृतिः ॥ १ ॥ ]
"
मन्यते बुध्यते अर्थान् इति मनः आत्मा । स किं करोति ? इत्याह- बुध्यते जानाति, न निरन्वयज्ञानसन्तानः प्रकृतिपरिणामो व्यवसायः पृथिव्यादिव" इति मन्यते । न चेदमत्र १० मन्तव्यम् 'सुखादिव्यतिरेकेण नात्मा अस्ति तत्कथमसौ बुध्यते' ? सुखादेः आत्मत्वेऽविप्रतिसार इति कुत: ? *"प्रत्यक्षं क्षणिकं विचित्रविषयाकारैक संवेदनम् " [सिद्धिवि० २।३] इत्यादिना तद्व्यवस्थापनात् । वक्ष्यति च तत्सिद्धिम् [१८४] अनन्तरमेव । किं बुध्यते ? इत्याह-विषयान् इति । द्रव्यपर्यायसामान्यविशेषार्थान् न विषयार्पितस्वाकारान् । ततो यदुक्तं केनचित्-*“येन वेद्यते तत्ततो न भिद्यते यथा तस्यैव वेदकस्य स्वरूपम्, वेद्यते च १५ आत्मना नीलादिकम्" इति ; तदनेन निरस्तम् ; पक्षस्य प्रत्यक्षबाधनात्, वेदकस्य अहमह मिकया अन्यत्र अन्यत्र च घटादेर्दर्शनात् इतरथा 'कोकिलकुलं धवलं पक्षित्वाद् बलाकावत्' इत्यपि स्यात् । अथ कथम् आत्मा " ततो भिन्नः अतदायत्तस्तात्वेत्ति (त्तस्तत्त्वतोऽस्ति ) ? तथादर्श - नात्, कथमन्यथा अर्थस्तथाविधः " तज्जनकः ? योग्यता अन्यत्रापि न वार्यते । शेषमत्र चिन्तितम् ।
"
एतेन यदुक्तं सांख्येन–*“इन्द्रियाणि अर्थमालोचयन्ति, अहङ्कारोऽभिमन्यते मनः २० संकल्पयति, बुद्धिः अध्यवस्यति पुरुषश्चेतयते" इति ; तन्निरस्तम् ; बुद्धयाकारवद् विषय
(१) पृ० १२ । (२) स्वरचितलघीयस्त्रये उक्तम् । ( ३ ) तुलना - " सांन्तरग्रहणं न स्यात् प्राप्तौ ज्ञानाधिकस्य च । अधिष्ठानाद्वहिर्नाक्षं न शक्तिर्विषयेक्षणे ॥ २० ॥ सर्वार्थसम्प्रयोगे तु सान्तराधिकयोर्ग्रहः । यो दृष्टशब्दरूपाभ्यां बाध्यते स निरन्तरम् ॥ ४१ ॥ " - प्र० समु० १२०, ४१ । ( ४ ) सांख्यसम्मतः । ( ५ ) चार्वाकाभिमतः । (६) निर्बाधता । " पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि " - अमरकोशः । “तत्र विदूषणसमुदाचारोऽकुशलं कर्माध्याचरति तत्र तत्रैव च विप्रतिसारबहुलो भवति । " - शिक्षासमु० पृ० १६० । न विप्रतिसारः अविप्रतिसारः, दोषरहित इत्यर्थः । ( ७ ) अन्तः । (८) बहिः । ( ९ ) प्रत्यक्षबाधितस्यापि साध्यत्वे । (१०) ज्ञानात् । ( ११ ) ज्ञानजनकः । (१२) "एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिर्दृष्टाचक्षू रूपं पश्यति, मनः संकल्पयति, अहङ्कारोऽभिमानयति, बुद्धिरध्यवस्यति । " - सांख्यका० माठर० ३० । २९
Jain Education International
For Personal & Private Use Only
५
www.jainelibrary.org