________________
३००
सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धि *"अतीन्द्रियानसंवेद्याद् यस्यान्त्या(द्यान्पश्यन्त्या)र्षेण चक्षुषा । ये भावान् वव (वचनं तेषां) नानुमानेन बाध्यते ॥"
[वाक्यप० १।३८] इति । तत्राह-तन्न इत्यादि । तदवस्तुभूतापरिणाम्यात्मप्रतिपादकशास्त्रम् आगमः न युक्तः ५ अनन्तरोक्तायाः बाधने निराकरणे समर्थम् अपि तु सैवै तद्बाधने समर्था, अतीन्द्रियेऽपि तस्या [अ]प्रतिहतप्रसरत्वात् । व्याप्तेरसिद्धेः कथमन्यथा अनुमानप्रवृत्तिरिति मन्यते । यदि वा, तथाविवा (धा)त्मप्रतिपत्तिं विदव (ध)च्छास्त्रं तद्वाधने समर्थं न सत्तामात्रेण अतिप्रसङ्गात् । तत्प्रतिपत्तिश्च न प्रधाने अचेतने घटादिवत् करोति । नापि पुंसि तद्विकारशून्ये परोक्षे च सा
सत्यपि कमर्थं पुष्णाति ? स्वसंविदिते पुनः प्रतिप्राणि सर्वेषाम् आत्मना (नां) स्वसंवेदनाध्यक्ष१० सिद्धत्वात् किं शास्त्रं करिष्यति ? न चाऽविकारिणि भ्रान्तिः, यो तेन अपनीयते । ,
एतेन पुरुषाद्वैतनिषेधेऽपि न शास्त्रं तांधनसमर्थमिति निरूपितम् । ततः स्थितम्'तन्न' इत्यादि।
ननु यदि कथञ्चित् प्रवृत्तिरेवं भावलक्षणम् सा प्रधाने अस्ति इति तद्वस्तु, ततो नेतरवत् साङ्ख्यः एकान्तेन दूषितः स्यात् , तत्र च भेदानां परिमाणादेः साधनस्र्यं भावात् न तदभा१५ वाशङ्कापि युक्तेति चेत् ; अत्राह-'अस्ति प्रधानम् इत्यत्र' इत्यादि । [२४६क]
[अस्ति प्रधानमित्यत्र भेदानामन्वयादयः। ____ अन्यथैवोपपद्यरन् एकान्ते भावधर्मवत् ॥२०॥
भेदानामेककारणपूर्वकत्वे साध्ये वैश्वरूप्यकारणभावात् विरुद्धा एव नित्यादिवत्, विश्वरूपादिकारणानां परिणाम एव संभवात् । स्वयमेकस्यात्मनः पुनरेकस्वभावस्य .२० विश्वरूपाद्यनभ्युपगमात् । सामान्यविशेषात्मनां विकाराणां स्वभावानुरूपोत्पत्त्यविप्रति
षेधात् । न वै कारणसामान्यवचनेऽपि चिच्छक्तेः सहकारिकारणम् अपरिणामित्वात् । नन्वेवं सति शेषो भावः प्रसज्येत ।]
अस्ति प्रधानमित्यत्र साध्ये भेदानां महदादीनाम् अन्वयः अनुगमनम् आदिः येषां परिमाणादीनां ते अन्वयादयः परेण उच्यमाना हेतवः । कथम्भूताः ? इत्याह-अन्यथा २५ साध्याभावप्रकारेणैव उपपद्येरन् मनागपि तद्भावप्रकारेण नोपपद्येरन् ततो नाऽनैकान्तिकाः किन्तु
विरुद्धा एव इत्येवकारार्थः । अत्र दृष्टान्तमाह-एकान्त नित्यक्षणिकैकान्ते साध्ये भावधर्मवत् भावः सत्त्वम्, उपलक्षणमेतत् , तेन कृतकत्वादिपरिग्रहः, स एव धर्मः पराश्रितत्वात् तेन तुल्यं वर्त्तते इति तद्वत् । स्वयम् 'अस्ति सर्वज्ञः' इति धर्मिणः सत्ताप्रसाधनात् तत्साधनदोषो नोद्भावितः स्वमतसिद्ध्यनुकूलत्वादि [ति] विरुद्धतैव आविष्कृता ।
(१) 'उक्तं च भर्तृहरिणा'-सन्मति० टी० पृ० ७५३। (२) युक्तिः । (३) युक्तः । (१) प्रतिपत्तिः । (५) भ्रान्तिः । (६) युक्तिबाधन । (७) उत्तरपर्यायप्रवृत्तिः । (८) "भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥"-सांख्यका० १५। (९) साधनाभावाशङ्का । (१०) साङ्ख्येन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org