________________
४।२०]
सांख्याभिमततत्त्वसमीक्षा
३०१ कारिकां विवृण्वन्नाह-एककारणपूर्वकत्वे इत्यादि । एकम् अद्वितीयं यत् कारणंप्रधानाख्यं तत्पूर्वकत्वे तन्निमित्तत्वे साध्ये । केषाम् ? भेदानां महदादीनाम् ।।
ननु कारिकायाम् 'अस्ति प्रधानम्' इति अन्यत् साध्यं निर्दिष्टम् , वृत्तौ तु 'भेदानाम् एककारणपूर्वकत्वम्' अन्यदिति कथं वृत्तिसूत्रयोः साङ्गत्यम् ? सूत्रानुरूपया च वृत्त्या भवितव्यमिति चेत् ; अत्र केचित् परिहारमाहुः-प्रधानधर्मिणः सत्तासाधने भावाऽभावोभयधर्माणाम् ५५ असिद्ध-विरुद्ध-अनैकान्तिकमिति दोषदर्शनात् , एवंसाध्यान्तरकरणेऽपि विरुद्धतादोष इति प्रतिपादनार्थमेवं वचनमिति; तैः 'एककारणपूर्वकत्वे' इत्यत्र अपिशब्दो द्रष्टव्यः, न केवलम् 'अस्ति प्रधानम्' इत्यत्र अपि तु तत्पूर्वकत्वेऽपि विरुद्धा एव इति अर्थप्रतिपत्तिर्यथा स्यादिति तथा सूत्रेऽपि 'अस्ति प्रधानम्' इत्येतद् [२४६ख] उपलक्षणत्वेन व्याख्येयम् , कथमन्यथा तदसाङ्गत्यपरिहारः ?
इदमपरं व्याख्यानम्-'एककारणम्' इति प्रधानस्य अपरमत्व (त्वा)र्थकमभिधानम् , तच्च तत् महदादिभ्यः पूर्वं भावात् पूर्वकं चेति तस्य भावे तत्तत्त्वे साध्ये इति । पूर्वव्याख्याने "भेदानाम्' इत्येतत् पूर्ववद् उत्तरत्रापि सम्बध्यते । अस्मिन् उत्तरत्रव भेदानां महदादीनां वैश्वरूप्यकारणभावात् ननु विरुद्धा एव इति । निदर्शनमाह-नित्यादि । कुतः ? इत्याहपरिणाम एव संभवाद् इति । स्वगुणपर्यायैर्न परगुणपर्यायैः भावः परिणामः तत्रैव संभवात् १५ वैश्वरूप्यकार्यकारणत्व पादी (त्वादी) नाम् इति विभक्तिपरिणामेन सम्बन्धः । एतदपि कुतः ? इत्यत्राह-विश्वरूपादिकारणानाम् इति । रूपम् आदि रसादेः असौ रूपादिः, विश्वो निरवशेषो पादः (रूपादिः) [न] नैयायिकमतवद् विकलो रूपादिर्येषां पुद्गलद्रव्याभिमतकारणानाम् *"रूपरसगन्धस्पर्शवन्तः पुद्गला" [त० सू० ५।२३] इति वचनात् , तेषां विश्वरूपादिकारणानां परिणाम एव संभवात्' इत्यनुवर्तते । एतदुक्तं भवति- .
२० *"प्रकृतेर्महान् ततोऽहङ्कारः तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥"
[सांख्यका० २१] इति वचनात् यथा भूतानि रूपादिमन्ति तथा तत्कारणानि पञ्च तन्मात्राभिमतानि, एवं तावद्वक्तव्यम्-यावत् प्रकृतिः, विजातीयात् कार्यानुत्पत्तेः इति । 'कारणानाम्' इत्यनेन २५ प्रधानस्य पुद्गलापरनाम्नो विशेषापेक्षया बहुत्वं दर्शयति । तदपि कुतः एतत् ? इत्यत्राह-स्वयमे
(१) व्याख्याकाराः । (२) प्रधानात्मकर्मिणः । (३) भावसाधने असिद्धः, अभावे विरुद्धः उभयधर्मे च अनैकान्तिकः । "नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥"-प्र० वा० ३।१९० । (४) न विद्यते परमं द्वितीयं यस्य तस्य भावस्तत्त्वम् अपरमत्वम् , तद् अर्थो यस्येति अपरमत्वार्थकम् , एकमेव प्रधान न द्वितीयमित्यर्थः। (५) यथा नैयायिकमते अग्नौ रसगन्धौ जले गन्धः वायौ च रूपरसगन्धा न स्वीक्रियन्ते न तथा अत्र विकलत्वम् । (६) "स्पर्शरसगन्धवर्णवन्तः पुद्गलाः"-त० सू०। (७) रूपरसगन्धस्पर्शशब्दाः तन्मात्राः । (८) मूलकारणभूता । (९) कार्यापेक्षया।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org