________________
३०२ सिद्धिविनिश्चयटीकायाम्
[४ जीवसिद्धिः कस्य इत्यादि । स्वयं सांख्येन विश्वं [२४७ क] संपूर्ण रूपादि यस्य पृथिव्यादिकार्यस्य तत् तथोक्तं तस्य अनभ्युपगमात् । कस्य सम्बन्धिनः ? इत्याह-आत्मनः पुरुषस्य । पुनः इति पक्षान्तरद्योतने । किम्भूतस्य ? इत्याह-एकस्वभावस्य । एकः चेतनालक्षणो न रूपादिलक्षणः स्वभावो यस्य तस्य इति । एवं मन्यते-यथा पुरुषस्य रूपादिरदिहतस्य न रूपादिमत्कार्य तथा अन्यस्या पातरवा (पि, इतरथा) पुरुषस्यैव तैदिति किं तत्त्वान्तरकल्पनयेति । पुनरपि किंभूतस्य ? इत्यत्राह- एकस्य [एक] संख्योपेतस्य । इदमत्र तात्पर्यम्-यथा तस्यै देशकालस्वभावभिन्नम् अनेक रूपादिमद् उपादेयमयुक्तं तथा एकस्य प्रधानस्य इति । इतश्च विश्वरूपादिकरणानां तत्रैव संभव इति दर्शयन्नाह-विकाराणाम् इत्यादि । विकाराणां विशिष्टकार्याणां न अविकारस्य प्रधा
नस्य । किंभूतानाम् ? सामान्यविशेषात्मनाम् इति । किं तेषाम् ? इत्याह-स्वभाव इत्यादि । १० तेषां विकाराणां यः स्वो भावः स्वरूपं तदनुरूपस्य विकारान्तरस्य उत्पत्तिः या तस्याः अविप्रतिषेधात् कारणात् तत्रैव तेषां संभवात् इति सम्बन्धः । तन्न युक्तम्
*"मूल प्रकृतिरविकृतिः" [सांख्यका० २२] ईत्यादि ।
ननु मूलकारणाभावे कुतः तद्विकारा इति चेत् ? अन्येभ्यो विकारेभ्यः तेऽपि अन्येभ्यः इति अनादि विप्रतिषेधात् कारणात् तत्रैव तेषां संभवादिति सम्बन्ध विषयं तत्परम्परा इति १५ नं सांख्यं प्रतिपत्ति (प्रति यन्नि-) दर्शनमुक्तम्-नित्यक्षणिकैकान्त (न्ते) सत्को (सत्त्वो)त्पत्त्यादि
[रि] ति; तन्न युक्तम् , तस्य तदसिद्धेः । स हि सत्त्वादेः नित्यैकान्ते साध्ये नित्यपुरुषवत् परिणामिनि महदादौ सत्त्वस्य [२४७ख] भावाद् व्यभिचारमिच्छति, कृतकत्वादेः तत्र भावेऽपि प्रकृतिपुरुषयोरभावाद् भागासिद्धत्वम् । क्षणिकत्वे पुनः सर्वस्य [क्षणिकत्वे साध्ये नित्ये पुरुषे सत्त्वस्य
भावात् तदेव व्यभिचारित्वम् , कृतकत्वादे [:] तथैव भागासिद्धत्वं न विरुद्धत्वम् । अथ प्रधान२० स्यैव तदुभयं साध्यते; भवेत् कृतकत्वादेविरुद्धत्वं परिणामिन्येव प्रधानादौ भावात्, न सत्त्वस्य नित्येऽपि पुरुषे तस्य भावात् ।।
अथ पुरुषोऽपि परिणामी इति नैते दोषाः, तत्राह-न वै इत्यादि । न वै नैव कारणसामान्यवचनेऽपि परिणामिकारणम् इह गृह्यते । कुतः ? "चिच्छक्तेः (क्तिः)" [योगभा०
१।२] इति वचनात् । नहि आत्मा चिच्छक्तः सहकारिकारणम् ; तस्याः "ततोऽव्यतिरेकात् । २५ ततोऽयमर्थः-नैव परिणामिकारणम् आत्मा चिच्छक्तः चेतनारूपसामर्थ्यस्य । कुतः ? इत्याह
अपरिणामित्वात् , परिणाम] रहितत्वाद् 'आत्मनः' इति विभक्तिपरिणामेन सम्बन्धः । तन्न नित्यक्षणिकैकान्ते साध्ये सत्त्वादिविरुद्धः अपि तु यथोक्त इति कापिलो मन्यते । एतदाचार्यः परिहरन्नाह-नन्वेवम् इत्यादि । ननु इति भावनायाम् , एवम् उक्तप्रकारेण सति तदकारणत्वे
(१) सर्व कार्य महदादिरूपम् । (२) प्रधानाख्य । (३) पुरुषस्य । (५) कार्यम् । (५) विकाराणाम् । (६) ".."महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिः न विकृतिः पुरुषः॥" इति शेषः । (७) 8 एतचिह्नान्तर्गतः पाठः पुनर्लिखितः। (6) 'न' इति निरर्थकमत्र । (९) "चितिशक्तिरपरिणामिन्यप्रतिसक्रमाऽदर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयम् ।"-योगभा०। (१०) आत्मनः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org