________________
४।२१]
सांख्याभिमततत्त्वसमीक्षा
३०३ इति शेषो भावः प्रसज्येत 'आत्मनः' इति सम्बन्धः । न चैवम् , अतः तस्य सत्त्वमिच्छता परिणामित्वमभ्युपगन्तव्यमिति कथं निदर्शनाऽसिद्धिरिति भावः। भवतु तर्हि तच्छक्तः कारणम् आत्मेति चेत् ; अत्राह- ['वुद्ध्य' इत्यादि]
[बुद्ध्यध्यवसिते चिच्छक्तिः पुंसः स्वत एव चेत् ।
ज्ञानादयः कथन्न स्युश्चेतनस्यैव वृत्तयः ॥२१॥ चेतनस्य वैश्वरूप्यादेः परिणामः सिद्धः, सुखादिव्यतिरेकेण चैतन्यवृत्तेरनुपलब्धेः। ततः दर्शनशक्तिः कार्यनिरपेक्षा बुद्ध्यध्यवसायवत् यतः बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते । उभययोः वैश्यरूप्यादेः संभवात् कुतः अपरिणामिनी चिच्छक्तिः बुद्धिविवर्तमनुविधत्ते ?]
बुध्यध्यवसिते 'इन्द्रियाणि अर्थम् आलोचयन्ति' इत्यादिकया प्रणालिकया गृहीता- १० कारवस्तूनि (वस्तुनि) पुंसः चिच्छक्तिः तदर्शनसामर्थ्य स्वत एव न परतः 'वृत्तयः' इत्यनेन [२४८क] लब्धैकवचनपरिणामेन सम्बन्धाद् वृत्तिः परिणामः, तथा 'स्युः' इत्यनेनापि जातैकवचन[परिणामेन] सम्बन्धात् ‘स्यात्' इति भवति । चेद् इति पराभिप्रायद्योतने । अत्र दूषणमाह-ज्ञानादय इत्यादि । ज्ञानम् आदिर्येषां सुखादीनां ते तथोक्ताः कथं न स्युः स्युरेव चेतनस्यैव पुरुषस्यैव वृत्तयः परिणामाः। एवं मन्यन्ते यथा ज्ञानादिभेदानां वैश्व- १५ रूप्यादयो नैककारणपूर्वका इतरथा शरीरादिवत् पुरुषाणामपि परिणामिनां किञ्चिद् अपरमेकं कारणं स्यात् इति व (न) सांख्यदर्शनम् तथा घटादिभेदानामपि इति ।
कारिका व्याख्यातुमाह-चेतनस्य इत्यादि । चेतनस्य परिणामः सिद्धः । कुतः ? इत्याह-वैश्वरूप्यादेः सकाशाद् आदिशब्देन कार्यकारणभावादिपरिग्रहः । एतदपि कुतः ? इत्याह-सुखादिव्यतिरेकेण चैतन्यवृत्तेः चैतन्यपरिणामस्य अनुपलब्धेः, सुखाद्यात्मकत्वेन तत्त- २०
द्वृत्तः (तद्वत्तेः) उपलब्धेश्च इति भावः । प्रकृतमुपसंहरन्नाह-ततः अनन्तरात् न्यायात् न दर्शनशक्ते (क्तिः) भूतान (किंभूता ?) इत्याह-कार्य इत्यादि । कार्यशब्दोऽयं भावप्रधानः कार्यत्वनिरपेक्ष्या (क्षा) कार्यभूतैव इत्यर्थः। अत्र दृष्टान्तमाह-बुद्ध्यध्यवसायवद् इति । बुद्धेः अध्यवसायः स्वपरनिर्णयः स इव तद्वत् । यथा तदध्यवसायो न कार्यत्वनिरपेक्षः तथा तच्छक्तिरपि, यतः तच्छक्तेः कार्यत्वनिरपेक्षत्वाद् *"बुद्ध्यध्यवसितमर्थ (थं पुरुषः) नित्यः पुमान् , २५ चेतयति (ते)" पश्यति । यत इति वा आक्षेपे, तदभावात् नैव चेतयते। तन्न युक्तम्-*"न प्रकृतिर्न विकृतिः पुरुषः" [सांख्यका० २२] इति ।
(१) आत्मनः । (२) इन्द्रियाणि अर्थमालोचयन्ति बुद्धिरवधारयति मनः संकल्पते आत्मा चेतयते इति । “एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिदृष्टा-चक्षू रूपं पश्यति मनः संकल्पयति अहकारोऽभिमानयति बुद्धिरध्यवस्यति ।"-सांख्यका० माठर० पृ०.४०। (३) चैतन्यवृत्तेः। (४) उद्धत. मिदम्-त. श्लो. पृ० ५० । आप्तप० पृ. १६४। प्रमेयक० पृ० १००। न्यायकुमु. पृ० १९. । न्यायवि०वि० प्र० पृ० २३५ । स्या० रत्ना० पृ. २३३। (५) कारणम् । (६) कार्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org