________________
३०४
सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः ननु यदि नाम बुद्ध्यध्यवसायः कार्यत्वनिरपेक्षे (क्षो) नास्ति तच्छक्तः किमायातं येन सापि तस्य ? [२४८ख नहि एकस्य धर्मोऽविशेषेण अन्यस्य इति चेत् ; अत्राह-वैश्व इत्यादि। वैश्वरूप्यादेः संभवात् उक्तनीत्येति मन्यते । कस्य सम्बन्धिनः ? इत्याह-उभययोः चैतन्यशक्ति-बुद्ध्यध्यवसाययोः भेदानामपि इति *"बुद्ध्यध्यवसितमर्थ नित्य (पुरुष) श्चेतयाते] ।" ५ इति च ब्रुवाणेन बुद्धिवत् पुरुषोऽपि विषयाकारोऽभ्युपगन्तव्यः, अन्यथा बुद्धिप्रतिबन्धबाह्यमर्थम्
अनाकारोऽपि पश्येत् इति किं बुद्धि कल्पनया ? अथेष्यते सोऽपि तदाकारः; तत्राह-कुतः न कुतश्चिन्न्यायात् बुद्धिविवर्तः (तम् ) बुद्धः अर्थाकारं परिणामम् अनुविधत्ते अनुकरोति । का ? इत्याह-चिच्छक्तिः। किंभूता? इत्याह-अपरिणामिनी । तदनुविधाने दर्पणादिवत् परिणामिनी
स्यादिति भावः । १० इदमपरं व्याख्यानम्-कुतः कारणात् सा अपरिणामिनी अपि इति, अपिशब्दोऽत्र द्रष्टव्यः।
तद्विवर्त्तम् अनुविधत्ते यदि स्वतः अर्थमपि तत एव अनुविधत्ते इति अनन्ततद्विवर्तेन अर्थे तदन्तरानवस्था स्यादिति मन्यते । ____ तथा इदमपरम् -चिच्छक्ति [र]परिणामिनी सदैकरूपा बुद्धेर्विवर्त युगपत् क्रममाव्यनेकनीलादिसुखादिप्रतिबिम्बपरिणामं कुतः अनुविधत्ते ? नैकत्वेन तत्समा नानैव भवेद् विरो१५ धात् । तथाहि-यदि सर्वदा एकरूपाँ'; तर्हि न बुद्धिविवर्त्तानुकारिणी । [सा] चेत् ; नैकरूपा।
न च विषयनानात्ववद् विषयिणः तद्ग्रहणशक्तिनानात्वमन्तरेण तद्ग्रहणं युक्तम् , एकैकस्वभावस्यं अनेककार्यकरणवत् ।
तदेवं 'ज्ञानादयश्चेत् तस्यैव वृत्तयः' इति प्रसाधिते यल्लब्धं तद्दर्शयन्नाह-[२४९ क] ज्ञानम् (ज्ञानादिकम् ) इत्यादि । २० [ज्ञानादिकमजीवस्य मूर्तस्य व्यतिरेकिणः ।
ज्ञानं जीवस्य वा मिथ्या अनेक वेत्यनात्मकम् ॥२१॥ वृत्तिरचेतनस्य ज्ञानं चेतनस्योपलब्धिरिति स्वयंक्लप्तां भेदकल्पनां प्राह विशेषानुपलब्धः अतिप्रसङ्गाच्च । तथा परो द्रव्यस्य स्वतश्चैतन्यविकलस्य व्यतिरेकिणं गुणमाह
सम्बन्धात् । सत्यपि भावतस्तदभावात् । कथमज्ञश्चेतनो नाम अर्थान्तरात् चैतन्यात् २५ अतिप्रसङ्गात् । तथा पुनश्चैतन्यस्य मूर्तस्य इतरस्य ज्ञानमनात्मकमिति च मिथ्यादर्शनानि।]
ज्ञानादिग्रहणम् उपलक्षणं सुखादेः, तेन ज्ञानादिकं वृत्तिः अजीवस्य अचेतनस्य प्रधानस्य । किंभूतस्य ? मूर्तस्य रूपादिमत इति यज्ज्ञानं तत् मिथ्या यथोक्तन्यायवचनात् । अत्र दृष्टान्तमाह-जीवस्य इत्यादि। वक्ष्यमाणको वा शब्द इवार्थः अत्रापि सम्बन्धनीयः । ततोऽयमर्थः संपद्यते जीवस्य आत्मनः । किंभूतस्य ? व्यतिरेकिणो ज्ञानाद् एकान्तेन भिन्नस्य । ३० 'मूर्तस्य' इत्येतद् विशेषणम् असंभवात् , परेण तथाविधस्यापि आत्मनः अमूर्त्तत्वेन उपगमात्,
(१) चैतन्यशक्तिरपि । (२) पुरुषः । (३) व्याख्यानम्। (४) अनेकैव न भवेदिति अन्वयः । (५) चिच्छक्तिः । (६) बुद्धिविवर्तानुकारिणी चेत् ।। (७) विषयग्रहणम् । (८) कारणस्य । (९) साङ्ख्येन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org