________________
४।२१]
सांख्याभिमततत्त्वसमीक्षा अत्र नाभिसम्बध्यते, ज्ञानं वृत्तिः इति । ज्ञानमिव प्रकृतमपि ज्ञानं मिथ्या । इदमपि किमिव मिथ्या ? इत्याह-अनात्मकम् इति । न विद्यते आत्मा यस्य तद् 'अनात्मकम् ज्ञानम्' इति ज्ञानं यथा मिथ्या तथा 'जीवस्य व्यतिरेकिणो ज्ञानं वृत्तिः' इति ज्ञानं मिथ्या इति । एतदुक्तं भवति-यथा 'अन्यात्मकं ज्ञानम् अनाश्रयं न कस्यचिद् गुणः तथा व्यतिरेकिणोऽपिन गुणः स्याद् अतिप्रसङ्गात् । अथ आत्मन एव गुणः तत्र समवायात् ; न ; समवायस्य ५
अविशेषे तदविशेषात् , प्रमाण (णा)भावेन असत्त्वार्च । तत उत्पत्तेः तस्य तद्गुणत्वे ; 'उत्तरोत्तरं ज्ञानं पूर्वपूर्वस्य क्षणिकज्ञानस्य गुण इति ततोऽन्यस्य गुणिनः साधनमनवसरमेव । यथैव च क्षणिकस्य स्वसत्तासमये कार्य कुर्वतः कारणत्वं दुरुपपादम् , हेतुफलयोः सहभावापत्तेः, तथा [अ] क्षणिकस्यापि कार्यकालविशेषणात् "तद्र पात् "पूर्वोत्तरतद्र पयोः सर्वथा [अ] व्यतिरेके", तावन्मात्रत्वात्तस्य इति । यथैव वा [२४९ख] स्वसत्तासमये तस्य "तत्कुर्वतः तद् १० दुरुपपादम् कार्यकाले स्वयमभावात् तथा "इतरस्यापि पूर्वकालविशेषणाद् रूपाद् उत्तरस्य सर्वथा । [अ]भेदात्, "इतरथा एकमेव न किञ्चित् स्यात् । किञ्च, न परात्मनो युगपदनेकदेशकालव्याप्तिः, निरंशत्वाद् अनात्मकचित्तवद् इति । उपसंहारमाह-अनेक (क) वेति मिथ्या 'ज्ञानम्' इत्यनुवर्तते ।
कारिकार्थं कथयन्नाह-'वृत्तिः अचेतनस्य' इत्यादि । वृत्तिः परिणामः अचेतनस्य १५ करणस्य । किम् ? ज्ञानम् , चेतनस्य पुरुषस्य उपलब्धिः दर्शनं वृत्तिः इत्येवं स्वयम् आत्मना न प्रमाणेन प्रक्लप्ताम् अपरिचितां (उपरचितां) भेदकल्पनां प्राह सांख्यः। कुतः ? इत्याहविशेषस्य ज्ञानोपलब्ध्योः भेदस्य अनुपलब्धः।
ननु अयमनैकान्तिको हेतुः अयोगोलक-पावकयोः विशेषानुपलम्भेऽपि भेदादिति चेत् ; अत्राह-अतिप्रसङ्गात् पुरुषचैतन्ययोरपि भेदप्रसङ्गात् । शक्यं वक्तुं पुंसः अन्यदेव चैतन्यम् , २० संसर्गाद् अयोगोलकवह्निभेदा[भाव]वदभेदाध्यवसायः । च शब्दः अवधारणे । अतिप्रसङ्गादेव स्वयं प्रक्लप्तां भेदकल्पनां प्राह इति । न च "परिणामवादिनं प्रति दृष्टान्त[:] सिद्धोऽस्ति; अयोगोलकस्य "तथापरिणामात् । अतिप्रसङ्गं दर्शयन्नाह-तथा इत्यादि । येन स्वमवाषिका (मनीषिका)प्रकारेण सांख्यो बुद्धिचैतन्ययोर्भेदमाह तथा परो यौगो द्रव्यस्य इति । सामान्यवचनेऽपि प्रस्तावाद् 'आत्मनः' इति गम्यते स्वतः स्वरूपेण चैतन्यविकलस्य अचेतनस्य व्यति- २५ रेकिणम् अर्थान्तरभूतं गुणमाह । नैतव्यं (नैतन्मन्तव्य) दर्शनम् । कुतः ? इत्याह-[२५० क] सम्बन्धात् समवायात् , तथा च बुद्धिवत् चैतन्यमपि न पुरुषस्य रूपम् , इति न युक्तमेतत्*"चैतन्यं पुरुषस्य स्वरूपम्" [योगभा० ११९] इति मन्यते ।
(१) सर्वथा भिन्नम् । (२) निराश्रयत्वात् । (३) अर्थस्य । (४) एकत्वे । (५) सर्वान् प्रति अविशेषात् । (६) समधायस्य । (७) आत्मनः। (८) आत्मगुणत्वे । (९) बौद्धः प्राह । (१०) तत्स्वरूपात् । (११) पूर्वक्षणवर्तिनः उत्तरक्षणवर्तिनश्च स्वरूपस्य। (१२) अभेदे कारणत्वं दुरुपपादमिति सम्बन्धः । (१३) क्षणिकस्य । (१४) कार्यम् । (१५) कारणत्वम् । (१६) नित्यस्यापि । (१७) स्वरूपात् । (१०) एकरूपत्वात् कारणत्वं दुरुपपादमिति सम्बन्धः। (१९) अभेदेऽपि एकत्वाभावे । (२०) जैनादिकम् । (२१) अग्निसंसर्गादग्नित्वेन परिणामात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org