________________
३०६
सिद्धिविनिश्चयटीकायाम्
जीवसिद्धिः
'स आह-किमुच्यते 'तथा' इति; यावता प्रमाणबलेन अहं सर्वमेतत् कथयामि इति । तत्राह-विद्यमानेऽपि सत्य[पि] सम्बन्धि(सम्बन्धे) द्रव्यचैतन्ययोः अत्यन्तभिन्नयोः समवायरूपे, अपिशब्दः संभावनायाम् भावतः प्रमाणाभावेन तदभावात् । बहिरन्तश्च जात्यन्तरप्रतिभासे 'इह अवयवे अवयवी' इत्यादि प्रत्ययाभावे धर्मिणो विरहात् तद्विषयानुमानावृत्तेः ५ इति । कथम् अज्ञे (ज्ञः अ)चेतनः सत्तात्मा (सन्नात्मा) चेतनो नाम ? नैव । कुतः ? इत्याह-अर्थान्तरात् ततो भिन्नाच्चैतन्यात् इति । कुतो न स्यात् ? इत्याह-अतिप्रसङ्गात् गगनादिरपि ततः चेतनः स्यादिति बुद्ध्यादेविशेषगुणत्वं 'नवद्रव्याणि' इति च द्रव्यसंख्या विहन्यते, तत्सम्बन्धस्य सर्वगतत्वेन तत्राप्यविशेषात् । अथ सम्बन्धस्य [अ] विशेषे
सम्बन्धिनोविशेष इष्यते ; न ; सम्बन्धवैफल्यप्रसङ्गात् । ययैव प्रत्यासत्त्या तदबिशेषेऽपि १० तद्विशेषेष्टिः तयैव 'अस्य अयम्' इति व्यपदेशनियमभावात् ।
किंच, यदि आत्मन्येव चैतन्यमुपलभ्येत ; युक्तमेतत् , न चैवं तदात्मनोऽनुपलब्धिः (ब्धेः) । तथापि तत्र तत्कल्पने अन्यत्रापि तदस्तु अविशेषादिति । यदि वा, अर्थशब्दोऽयं घटादिविषयवाची, तस्मादन्यः तद्वत् स्वतो भिन्नज्ञानग्राह्यत्वं ग[तः] तदन्तरं" विषयान्तरं
तस्मात् स्वयम् अज्ञः सन कथं चेतनो नाम ? कुतः ? इत्याह-अतिप्रसङ्गात् प्रयत्नादिसम्बन्धेऽ१५ पि चेतन[:] स्यात् । अथ अर्थग्रहणात्मकत्वाज् ज्ञानस्य, "तत्सम्बन्धादेव [२५०ख चेतनः
नेतरसम्बन्धात् तस्य "विपर्ययरूपत्वात् ; "तस्य स्वग्रहणाभावे अर्थग्रहणमपि दुर्लभं घटादिवदित्युक्तप्रायमिति । __अतिप्रसङ्गं पुनरपि सांख्यस्य दर्शयन्नाह- तथा पुनः इत्यादि । तथा तेन सांख्यकल्पना
प्रकारेण पुनः सांख्यादिकल्पनायाः पश्चात् चैतन्य]स्य” मूर्तस्य पृथिव्यादिचतुष्टयस्य ज्ञानम २० अनेन पौ रं[न्द ] मतं दर्शितम् । अथवा *"पुरुष एव इदं सर्वम्" [ऋक्० १०।९०।२] इत्यादि दर्शनम् । यदि वा, “स्वदर्शनम् , अत्र 'मृतस्य' इति न सम्बन्धनीयं जैनचेतनस्य अमूतत्भं ( तत्वात् , मूर्तत्वं) "कादाचित्कमत्र अनुपयोगीति न वक्तव्यम् । इतरस्य अचेतनस्य वा भूम्यादेः मूर्तस्य, अनेन अ वि द्ध क र्ण स्य समयो दर्शितः । ज्ञानग्रहणे अनुवर्तमाने पुनः
ज्ञानग्रहणं तद्वयवहितमिति सन्निहितसम्बन्धार्थम् अनात्मकम् आत्मशून्यं 'ज्ञानम्' इत्येतदत्रापि २५ सम्बन्धनीयम् । च इति समुच्चये इति च एवं सति मिथ्यादर्शनानि एकान्तवादिसंबन्धनीति
(न्धीनीति) शेषः । उक्तानामपि योग दिमतानां कापिलमतानन्तरं पुनः प्रदर्शनं तत्र अतिप्रसङ्गप्रतिपादनार्थम् ।
(१) नैयायिकः । (२) भिन्नचैतन्यात् । (३) “रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दाः वैशेषिकगुणाः।"-प्रश० भा० पृ० ३९ । (४) तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसंज्ञयोक्तानि नवैवेति ।"-प्रश०भा० पृ०३।(५) चेतनासमवायस्य। (६) आकाशेऽपि भावात् । (७) सम्बन्धाविशेषेऽपि । (८) सम्बन्धिनोविशेषता स्वीक्रियते । (९) किं सम्बन्धकल्पनया । (१०) आत्मनि । (११) अर्थान्तरम् । (१२) अन्यगुण । (१३) ज्ञानसमवायादेव । (१४) अर्थग्रहणस्वभावाभावात् । (१५) ज्ञानस्य । (१६) चैतन्यविशिष्टस्य । (१७) चार्वाकसम्बन्धि । (१८) जैनदर्शनम् । (१९) कर्मसम्बद्धदशायाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org