Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 617
________________ ३०२ सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः कस्य इत्यादि । स्वयं सांख्येन विश्वं [२४७ क] संपूर्ण रूपादि यस्य पृथिव्यादिकार्यस्य तत् तथोक्तं तस्य अनभ्युपगमात् । कस्य सम्बन्धिनः ? इत्याह-आत्मनः पुरुषस्य । पुनः इति पक्षान्तरद्योतने । किम्भूतस्य ? इत्याह-एकस्वभावस्य । एकः चेतनालक्षणो न रूपादिलक्षणः स्वभावो यस्य तस्य इति । एवं मन्यते-यथा पुरुषस्य रूपादिरदिहतस्य न रूपादिमत्कार्य तथा अन्यस्या पातरवा (पि, इतरथा) पुरुषस्यैव तैदिति किं तत्त्वान्तरकल्पनयेति । पुनरपि किंभूतस्य ? इत्यत्राह- एकस्य [एक] संख्योपेतस्य । इदमत्र तात्पर्यम्-यथा तस्यै देशकालस्वभावभिन्नम् अनेक रूपादिमद् उपादेयमयुक्तं तथा एकस्य प्रधानस्य इति । इतश्च विश्वरूपादिकरणानां तत्रैव संभव इति दर्शयन्नाह-विकाराणाम् इत्यादि । विकाराणां विशिष्टकार्याणां न अविकारस्य प्रधा नस्य । किंभूतानाम् ? सामान्यविशेषात्मनाम् इति । किं तेषाम् ? इत्याह-स्वभाव इत्यादि । १० तेषां विकाराणां यः स्वो भावः स्वरूपं तदनुरूपस्य विकारान्तरस्य उत्पत्तिः या तस्याः अविप्रतिषेधात् कारणात् तत्रैव तेषां संभवात् इति सम्बन्धः । तन्न युक्तम् *"मूल प्रकृतिरविकृतिः" [सांख्यका० २२] ईत्यादि । ननु मूलकारणाभावे कुतः तद्विकारा इति चेत् ? अन्येभ्यो विकारेभ्यः तेऽपि अन्येभ्यः इति अनादि विप्रतिषेधात् कारणात् तत्रैव तेषां संभवादिति सम्बन्ध विषयं तत्परम्परा इति १५ नं सांख्यं प्रतिपत्ति (प्रति यन्नि-) दर्शनमुक्तम्-नित्यक्षणिकैकान्त (न्ते) सत्को (सत्त्वो)त्पत्त्यादि [रि] ति; तन्न युक्तम् , तस्य तदसिद्धेः । स हि सत्त्वादेः नित्यैकान्ते साध्ये नित्यपुरुषवत् परिणामिनि महदादौ सत्त्वस्य [२४७ख] भावाद् व्यभिचारमिच्छति, कृतकत्वादेः तत्र भावेऽपि प्रकृतिपुरुषयोरभावाद् भागासिद्धत्वम् । क्षणिकत्वे पुनः सर्वस्य [क्षणिकत्वे साध्ये नित्ये पुरुषे सत्त्वस्य भावात् तदेव व्यभिचारित्वम् , कृतकत्वादे [:] तथैव भागासिद्धत्वं न विरुद्धत्वम् । अथ प्रधान२० स्यैव तदुभयं साध्यते; भवेत् कृतकत्वादेविरुद्धत्वं परिणामिन्येव प्रधानादौ भावात्, न सत्त्वस्य नित्येऽपि पुरुषे तस्य भावात् ।। अथ पुरुषोऽपि परिणामी इति नैते दोषाः, तत्राह-न वै इत्यादि । न वै नैव कारणसामान्यवचनेऽपि परिणामिकारणम् इह गृह्यते । कुतः ? "चिच्छक्तेः (क्तिः)" [योगभा० १।२] इति वचनात् । नहि आत्मा चिच्छक्तः सहकारिकारणम् ; तस्याः "ततोऽव्यतिरेकात् । २५ ततोऽयमर्थः-नैव परिणामिकारणम् आत्मा चिच्छक्तः चेतनारूपसामर्थ्यस्य । कुतः ? इत्याह अपरिणामित्वात् , परिणाम] रहितत्वाद् 'आत्मनः' इति विभक्तिपरिणामेन सम्बन्धः । तन्न नित्यक्षणिकैकान्ते साध्ये सत्त्वादिविरुद्धः अपि तु यथोक्त इति कापिलो मन्यते । एतदाचार्यः परिहरन्नाह-नन्वेवम् इत्यादि । ननु इति भावनायाम् , एवम् उक्तप्रकारेण सति तदकारणत्वे (१) सर्व कार्य महदादिरूपम् । (२) प्रधानाख्य । (३) पुरुषस्य । (५) कार्यम् । (५) विकाराणाम् । (६) ".."महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिः न विकृतिः पुरुषः॥" इति शेषः । (७) 8 एतचिह्नान्तर्गतः पाठः पुनर्लिखितः। (6) 'न' इति निरर्थकमत्र । (९) "चितिशक्तिरपरिणामिन्यप्रतिसक्रमाऽदर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयम् ।"-योगभा०। (१०) आत्मनः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686