Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 622
________________ ४१२२ ३०७ अमूर्तचेतनस्यापि आवरणम् ननु यदुक्तमत्रैव प्रस्तावे प्रथमकारिकायाम् 'मिथ्याज्ञानं स्वतः सतो ज्ञातुः आवरणोद्भूतेः' इत्यादि; तदयुक्तम् ; अमूर्तस्य आत्मनो मुक्तस्येव मूर्तेन आवरणाभिमतेने सम्बन्धाऽभावात् । न चासम्बद्धम् आवरणम् ; अतिप्रसङ्गात् । एतदेवाह-[कथमित्यादि] [कथं पुनरमूर्तस्य सम्बन्धः कर्मणेति चेत् । माणिक्यादिर्न वै मूर्तिः मलसम्बन्धकारणम् ॥२२॥ मलैनिसर्गाद् बध्येत जीवोऽमूर्तिः स्वदोषतः ।। जीवस्य मूर्ति कल्पयित्वापि कर्मबन्धनिमित्तं स्वदोषान्तरं कल्पितव्यं माणिक्यादिवत् । ततः पुनरमूर्तस्य चेतनस्य नैसर्गिका मिथ्यादर्शनादयो बन्धहेतवः ।] कथं न कथञ्चित् पुनः अमूर्तस्य कर्मणा मूर्तेन सम्बन्धः। ननु 'मूर्तेन' इत्यत्र न श्रूयते तत् कथं लभ्यमिति चेत् ? 'अमूर्तस्य' इति वचनात् । यदि कर्माऽपि अमूर्त १० स्यात् तद्वचनमनर्थकं स्यात् , अमूर्तयोः [२५१क सम्बन्धाऽविरोधात् । 'कर्मणा' इति वचनाद् ईतरस्य कर्मत्वाऽयोगात् । न च मूर्ताऽमूर्तयोः विरुद्धः संयोग इति; अतः प्रस्तुतत्वाद्वा । चेद् इति पराभिप्रायद्योतकः । अत्र उत्तरमाह-मलैनिसर्गाद इति । नन्वेतत् 'परस्परविलक्षणांवपि' इत्यादिना ग्रन्थेन प्रतिपादितम् , 'शुभैः' इत्यादिनी च तद्वन्धकारणम्, तत् किमर्थं पुनरप्युच्यते इति चेत् ? तस्यैव प्रकारान्तरेण समर्थनार्थम् । १५ तथाहि-'मनोवाकायकर्मभिः' इत्यादि 'न कश्चिद् विप्रतिपत्तुमर्हति' इति पर्यन्तवचनेऽपि 'पश्चस्कन्धवत्' इत्यादिकमुल्लङ्घध्य कश्चिद् वदति मूर्ती एव हेमादयः मूतैः श्यामादिकाभिः सम्बन्ध्य (म्बद्ध्य)माना दृष्टा इति मूतिरेव बन्धकारणम् , अत्मनि तेदभावान्न तद्वन्धः इति; तं प्रति उच्यते-मलैः इत्यादि । नवै नैव मूर्तिः मूल (मल)संबन्धकारणम् । किं कारणम् ? इत्याह-माणिक्यादिः बध्येत । कैः ? इत्याह-मलैः किटकालिकादिभिः । 'मूत्तैः' २० इति विभक्तिपरिणामेन सम्बन्धः । न चैवम् , अन्यथापि तस्य दर्शनादिति मन्यते । अत्राह परश्च (परः-स्व) दोषतः इति । स्वस्य स्वो वा दोषः "दुष्टाकरप्रभवत्वादिलक्षणः तेन ततो बध्येत माणिक्यादिः 'इति' वा अनुवर्तते । कुतः ? निसर्गात् स्वभावतः । एवमन्वयः- सदोषो माणिक्यादिः सम्बध्यते मणैः (मलैः) नेतरः, तथैव तस्य स्वाभाव्यात् तथा दर्शनादिति । तस्य उत्तरमाह-जीवोऽमूर्तिः इति । लुप्तः 'अपि' शब्दः अत्र द्रष्टव्यः २५ ततो जीवोऽपि न केवले (लं) माणिक्यादिरेव । किंभूतः ? इत्याह-अमूर्तिः अविद्यमानमूर्तिः। मलैः कर्मभिः निसर्गात् स्वभावतः [२५१ख] स्वदोषतः आत्मीयेन मिथ्यात्वादिदोषेण । प्रकृत (तं) संभाव्य कारिकां विवृण्वन्नाह-जीवस्य इत्यादि । जीवस्य मूर्ति कल्पयित्वापि कर्मबन्धनिमित्तं स्वदोषान्तरं भावकर्मलक्षणं कल्पितव्यम् माणिक्यादेरिव तद्वद् ३० (१) पृ. ३२१ । (२) कर्मणा । (३) अमूर्तवचनम् । (४) अविद्यादेः। (५) पृ० २५४ । (६) पृ० २५५ । (७) पृ० २५५ । (८) कालिमादिभिः। (९) मूर्त्यभावात् । (१०) मलयुक्तखानिजन्यत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686