Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 621
________________ ३०६ सिद्धिविनिश्चयटीकायाम् जीवसिद्धिः 'स आह-किमुच्यते 'तथा' इति; यावता प्रमाणबलेन अहं सर्वमेतत् कथयामि इति । तत्राह-विद्यमानेऽपि सत्य[पि] सम्बन्धि(सम्बन्धे) द्रव्यचैतन्ययोः अत्यन्तभिन्नयोः समवायरूपे, अपिशब्दः संभावनायाम् भावतः प्रमाणाभावेन तदभावात् । बहिरन्तश्च जात्यन्तरप्रतिभासे 'इह अवयवे अवयवी' इत्यादि प्रत्ययाभावे धर्मिणो विरहात् तद्विषयानुमानावृत्तेः ५ इति । कथम् अज्ञे (ज्ञः अ)चेतनः सत्तात्मा (सन्नात्मा) चेतनो नाम ? नैव । कुतः ? इत्याह-अर्थान्तरात् ततो भिन्नाच्चैतन्यात् इति । कुतो न स्यात् ? इत्याह-अतिप्रसङ्गात् गगनादिरपि ततः चेतनः स्यादिति बुद्ध्यादेविशेषगुणत्वं 'नवद्रव्याणि' इति च द्रव्यसंख्या विहन्यते, तत्सम्बन्धस्य सर्वगतत्वेन तत्राप्यविशेषात् । अथ सम्बन्धस्य [अ] विशेषे सम्बन्धिनोविशेष इष्यते ; न ; सम्बन्धवैफल्यप्रसङ्गात् । ययैव प्रत्यासत्त्या तदबिशेषेऽपि १० तद्विशेषेष्टिः तयैव 'अस्य अयम्' इति व्यपदेशनियमभावात् । किंच, यदि आत्मन्येव चैतन्यमुपलभ्येत ; युक्तमेतत् , न चैवं तदात्मनोऽनुपलब्धिः (ब्धेः) । तथापि तत्र तत्कल्पने अन्यत्रापि तदस्तु अविशेषादिति । यदि वा, अर्थशब्दोऽयं घटादिविषयवाची, तस्मादन्यः तद्वत् स्वतो भिन्नज्ञानग्राह्यत्वं ग[तः] तदन्तरं" विषयान्तरं तस्मात् स्वयम् अज्ञः सन कथं चेतनो नाम ? कुतः ? इत्याह-अतिप्रसङ्गात् प्रयत्नादिसम्बन्धेऽ१५ पि चेतन[:] स्यात् । अथ अर्थग्रहणात्मकत्वाज् ज्ञानस्य, "तत्सम्बन्धादेव [२५०ख चेतनः नेतरसम्बन्धात् तस्य "विपर्ययरूपत्वात् ; "तस्य स्वग्रहणाभावे अर्थग्रहणमपि दुर्लभं घटादिवदित्युक्तप्रायमिति । __अतिप्रसङ्गं पुनरपि सांख्यस्य दर्शयन्नाह- तथा पुनः इत्यादि । तथा तेन सांख्यकल्पना प्रकारेण पुनः सांख्यादिकल्पनायाः पश्चात् चैतन्य]स्य” मूर्तस्य पृथिव्यादिचतुष्टयस्य ज्ञानम २० अनेन पौ रं[न्द ] मतं दर्शितम् । अथवा *"पुरुष एव इदं सर्वम्" [ऋक्० १०।९०।२] इत्यादि दर्शनम् । यदि वा, “स्वदर्शनम् , अत्र 'मृतस्य' इति न सम्बन्धनीयं जैनचेतनस्य अमूतत्भं ( तत्वात् , मूर्तत्वं) "कादाचित्कमत्र अनुपयोगीति न वक्तव्यम् । इतरस्य अचेतनस्य वा भूम्यादेः मूर्तस्य, अनेन अ वि द्ध क र्ण स्य समयो दर्शितः । ज्ञानग्रहणे अनुवर्तमाने पुनः ज्ञानग्रहणं तद्वयवहितमिति सन्निहितसम्बन्धार्थम् अनात्मकम् आत्मशून्यं 'ज्ञानम्' इत्येतदत्रापि २५ सम्बन्धनीयम् । च इति समुच्चये इति च एवं सति मिथ्यादर्शनानि एकान्तवादिसंबन्धनीति (न्धीनीति) शेषः । उक्तानामपि योग दिमतानां कापिलमतानन्तरं पुनः प्रदर्शनं तत्र अतिप्रसङ्गप्रतिपादनार्थम् । (१) नैयायिकः । (२) भिन्नचैतन्यात् । (३) “रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दाः वैशेषिकगुणाः।"-प्रश० भा० पृ० ३९ । (४) तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसंज्ञयोक्तानि नवैवेति ।"-प्रश०भा० पृ०३।(५) चेतनासमवायस्य। (६) आकाशेऽपि भावात् । (७) सम्बन्धाविशेषेऽपि । (८) सम्बन्धिनोविशेषता स्वीक्रियते । (९) किं सम्बन्धकल्पनया । (१०) आत्मनि । (११) अर्थान्तरम् । (१२) अन्यगुण । (१३) ज्ञानसमवायादेव । (१४) अर्थग्रहणस्वभावाभावात् । (१५) ज्ञानस्य । (१६) चैतन्यविशिष्टस्य । (१७) चार्वाकसम्बन्धि । (१८) जैनदर्शनम् । (१९) कर्मसम्बद्धदशायाम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686