Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 620
________________ ४।२१] सांख्याभिमततत्त्वसमीक्षा अत्र नाभिसम्बध्यते, ज्ञानं वृत्तिः इति । ज्ञानमिव प्रकृतमपि ज्ञानं मिथ्या । इदमपि किमिव मिथ्या ? इत्याह-अनात्मकम् इति । न विद्यते आत्मा यस्य तद् 'अनात्मकम् ज्ञानम्' इति ज्ञानं यथा मिथ्या तथा 'जीवस्य व्यतिरेकिणो ज्ञानं वृत्तिः' इति ज्ञानं मिथ्या इति । एतदुक्तं भवति-यथा 'अन्यात्मकं ज्ञानम् अनाश्रयं न कस्यचिद् गुणः तथा व्यतिरेकिणोऽपिन गुणः स्याद् अतिप्रसङ्गात् । अथ आत्मन एव गुणः तत्र समवायात् ; न ; समवायस्य ५ अविशेषे तदविशेषात् , प्रमाण (णा)भावेन असत्त्वार्च । तत उत्पत्तेः तस्य तद्गुणत्वे ; 'उत्तरोत्तरं ज्ञानं पूर्वपूर्वस्य क्षणिकज्ञानस्य गुण इति ततोऽन्यस्य गुणिनः साधनमनवसरमेव । यथैव च क्षणिकस्य स्वसत्तासमये कार्य कुर्वतः कारणत्वं दुरुपपादम् , हेतुफलयोः सहभावापत्तेः, तथा [अ] क्षणिकस्यापि कार्यकालविशेषणात् "तद्र पात् "पूर्वोत्तरतद्र पयोः सर्वथा [अ] व्यतिरेके", तावन्मात्रत्वात्तस्य इति । यथैव वा [२४९ख] स्वसत्तासमये तस्य "तत्कुर्वतः तद् १० दुरुपपादम् कार्यकाले स्वयमभावात् तथा "इतरस्यापि पूर्वकालविशेषणाद् रूपाद् उत्तरस्य सर्वथा । [अ]भेदात्, "इतरथा एकमेव न किञ्चित् स्यात् । किञ्च, न परात्मनो युगपदनेकदेशकालव्याप्तिः, निरंशत्वाद् अनात्मकचित्तवद् इति । उपसंहारमाह-अनेक (क) वेति मिथ्या 'ज्ञानम्' इत्यनुवर्तते । कारिकार्थं कथयन्नाह-'वृत्तिः अचेतनस्य' इत्यादि । वृत्तिः परिणामः अचेतनस्य १५ करणस्य । किम् ? ज्ञानम् , चेतनस्य पुरुषस्य उपलब्धिः दर्शनं वृत्तिः इत्येवं स्वयम् आत्मना न प्रमाणेन प्रक्लप्ताम् अपरिचितां (उपरचितां) भेदकल्पनां प्राह सांख्यः। कुतः ? इत्याहविशेषस्य ज्ञानोपलब्ध्योः भेदस्य अनुपलब्धः। ननु अयमनैकान्तिको हेतुः अयोगोलक-पावकयोः विशेषानुपलम्भेऽपि भेदादिति चेत् ; अत्राह-अतिप्रसङ्गात् पुरुषचैतन्ययोरपि भेदप्रसङ्गात् । शक्यं वक्तुं पुंसः अन्यदेव चैतन्यम् , २० संसर्गाद् अयोगोलकवह्निभेदा[भाव]वदभेदाध्यवसायः । च शब्दः अवधारणे । अतिप्रसङ्गादेव स्वयं प्रक्लप्तां भेदकल्पनां प्राह इति । न च "परिणामवादिनं प्रति दृष्टान्त[:] सिद्धोऽस्ति; अयोगोलकस्य "तथापरिणामात् । अतिप्रसङ्गं दर्शयन्नाह-तथा इत्यादि । येन स्वमवाषिका (मनीषिका)प्रकारेण सांख्यो बुद्धिचैतन्ययोर्भेदमाह तथा परो यौगो द्रव्यस्य इति । सामान्यवचनेऽपि प्रस्तावाद् 'आत्मनः' इति गम्यते स्वतः स्वरूपेण चैतन्यविकलस्य अचेतनस्य व्यति- २५ रेकिणम् अर्थान्तरभूतं गुणमाह । नैतव्यं (नैतन्मन्तव्य) दर्शनम् । कुतः ? इत्याह-[२५० क] सम्बन्धात् समवायात् , तथा च बुद्धिवत् चैतन्यमपि न पुरुषस्य रूपम् , इति न युक्तमेतत्*"चैतन्यं पुरुषस्य स्वरूपम्" [योगभा० ११९] इति मन्यते । (१) सर्वथा भिन्नम् । (२) निराश्रयत्वात् । (३) अर्थस्य । (४) एकत्वे । (५) सर्वान् प्रति अविशेषात् । (६) समधायस्य । (७) आत्मनः। (८) आत्मगुणत्वे । (९) बौद्धः प्राह । (१०) तत्स्वरूपात् । (११) पूर्वक्षणवर्तिनः उत्तरक्षणवर्तिनश्च स्वरूपस्य। (१२) अभेदे कारणत्वं दुरुपपादमिति सम्बन्धः । (१३) क्षणिकस्य । (१४) कार्यम् । (१५) कारणत्वम् । (१६) नित्यस्यापि । (१७) स्वरूपात् । (१०) एकरूपत्वात् कारणत्वं दुरुपपादमिति सम्बन्धः। (१९) अभेदेऽपि एकत्वाभावे । (२०) जैनादिकम् । (२१) अग्निसंसर्गादग्नित्वेन परिणामात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686