Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 623
________________ ३०८ सिद्धिविनिश्चयटीकायाम् [ ४ जीवसिद्धिः इति । ततः तस्मान्न्यायात् पुनः अपूर्त्तस्य नैसर्गिका बन्धहेतवः । कस्य ? इत्याह- चेतनस्य । के ? इत्याह-मिथ्यादर्शन इत्यादि । ननु किममूर्त्तस्य मूर्त्तेन कर्मणा सम्बन्धकल्पनया, यावता [ अ ] मूर्त्तेनापि तेनं तद्गुणादिसमवाये' न कश्चिद् दोषः । तदुक्तम् - * " आत्मविशेषगुणः कर्तृ फलदायी कार्यविरोधी ५ संयोगजोऽदृष्टो धर्मोऽपि व्याख्यातः" इति चेत्; अत्राह - जात्या इत्यादि । [ जात्या व्यतिरिक्तयाऽर्थाः स्युरन्या जातिः स्वतः सती । तथैवार्थान्तरैः किन्न द्रव्यं स्याद् गुणकर्मभिः ॥ २३॥ ] जात्या इति सामान्यवचनेऽपि ' स्युः' इति वचनात् सत्ता परिगृह्यते । नहि अन्यया अर्थाः सन्तो भवन्ति । किंभूतया ? व्यतिरिक्ताया (क्तया) द्रव्यादेः एकान्तेन भिन्नया । किं १० तया ? इत्याह- अर्थो द्रव्यगुणकर्माणि * " द्रव्यगुणकर्मसु अर्थ: " [वैशे ० सू० ८|२| ३] इति वचनात् । स्युः सन्तो भवेयुः । किन्नैव ? 'किम्' इत्यनेन वक्ष्यमाणकेन सम्बन्धः । स्वयम् अन्येन तद् भवति, अन्यथा रूपादिना रादना ( गगना) दिकं तद्वत् स्यात् । तथाविधया जात्या अर्थानां समवायसम्बन्धोऽपि अत्रैव वृत्ते निराकरिष्यते । किञ्च, जातिरपि यद्य सती; कथं तया किञ्चिदसत् सत् स्यात् ? नहि - बन्ध्यासुतो तत्राह परः१५ गगनकुसुममालया सन्नाम । सती जात्यन्तरेण चेत्; अनवस्था । स्वतो यदि; अर्थेभ्यः अन्या जातिः सत्तासामान्यं स्वत आत्मना स्यात् सती भवेत् 'किम्' इत्यनेन 'स्यात्' इत्यनेन वक्ष्यमाणेन सम्बन्धः । [२५२] अर्था अपि तथैव स्वयं स्युः इति मन्यते । तदनेन द्रव्यगुणयोः अभावात् * " आत्मविशेषगुणो धर्मादिः" इति" निरस्तम्, : [गुण ]"कर्मणोरभावात् *"आत्ममनः संयोगजः " " इति च । नहि कर्माऽभावे संयोगः ; "तत्पूर्वक - २० त्वादस्य । अथवा, देवदत्तं प्रति उपसर्पतां पश्वादीनां पराभ्युपगमेन कर्माऽभावात् ततो धर्माद्य"नुमानमनुपपन्नमिति दर्शयति । भवन्तु वा यथाकथञ्चित् परस्य अर्थाः, तथापि दोषं दर्शयन्नाह - अर्थान्तरैः द्रव्यादत्यन्तं भिन्नैः द्रव्यं पृथिव्यादि स्याद् भवेद् धवलं सख्येयादि गन्त्रादिकम् । कैः ? इत्याह- गुणकर्मभिः । गुणैः रूपादिभिः कर्मभिः गमनादिभिः याथासङ्ख्येन गुणैः धवल २५ (लं) सख्येयादि कर्मभिः गन्त्रादिकम् । 'किम्' इत्येतद् अत्रापि सम्बन्धनीयम्, अन्यथा आत्मादिकमपि स्यात् अविशेषात् । (१) अदृष्टाख्येन । ( २ ) स्वीक्रियमाणे । (३) “धर्मः पुरुषगुणः कर्तुः प्रियहितमोक्ष हेतुः अतीन्द्रियो ऽन्त्य सुखसं विज्ञानविरोधी पुरुषान्तःकरण संयोगविशुद्धाभिसन्धिजः १ - प्रश० भा० पृ० १३८ । (४) "अर्थ इति द्रव्यगुणकर्मसु " - वैशे० सू० । (५) रूपि । (६) भिन्नया । (७) वृत्तौ श्लोके वा । (८) जैनः । (९) सन्तः । (१०) " धर्मः पुरुषगुणः " - प्रश० भा० पृ० १३८ । ( ११ ) गुणपदार्थस्य कर्मपदार्थस्य 'च । (१२) “पुरुषान्तःकरणसंयोगविशुद्धाभिसन्धिजः " - प्रश० भा० पृ० १३८ । (१३) निरस्तम् । ( १४ ) क्रियापूर्वकत्वात् । (१५) 'देवदत्त विशेषगुणप्रेरितभूतकार्याः तदुपगृहीताश्च शरीरादयः कार्यत्वे सति तदुपभोसाधनत्वात् गृहवदिति" - प्रश० किरणा० पृ० १४९ । प्रश० व्यो० पृ० ४११ । प्रश० कन्द० पृ० ८८ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686