Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 616
________________ ४।२०] सांख्याभिमततत्त्वसमीक्षा ३०१ कारिकां विवृण्वन्नाह-एककारणपूर्वकत्वे इत्यादि । एकम् अद्वितीयं यत् कारणंप्रधानाख्यं तत्पूर्वकत्वे तन्निमित्तत्वे साध्ये । केषाम् ? भेदानां महदादीनाम् ।। ननु कारिकायाम् 'अस्ति प्रधानम्' इति अन्यत् साध्यं निर्दिष्टम् , वृत्तौ तु 'भेदानाम् एककारणपूर्वकत्वम्' अन्यदिति कथं वृत्तिसूत्रयोः साङ्गत्यम् ? सूत्रानुरूपया च वृत्त्या भवितव्यमिति चेत् ; अत्र केचित् परिहारमाहुः-प्रधानधर्मिणः सत्तासाधने भावाऽभावोभयधर्माणाम् ५५ असिद्ध-विरुद्ध-अनैकान्तिकमिति दोषदर्शनात् , एवंसाध्यान्तरकरणेऽपि विरुद्धतादोष इति प्रतिपादनार्थमेवं वचनमिति; तैः 'एककारणपूर्वकत्वे' इत्यत्र अपिशब्दो द्रष्टव्यः, न केवलम् 'अस्ति प्रधानम्' इत्यत्र अपि तु तत्पूर्वकत्वेऽपि विरुद्धा एव इति अर्थप्रतिपत्तिर्यथा स्यादिति तथा सूत्रेऽपि 'अस्ति प्रधानम्' इत्येतद् [२४६ख] उपलक्षणत्वेन व्याख्येयम् , कथमन्यथा तदसाङ्गत्यपरिहारः ? इदमपरं व्याख्यानम्-'एककारणम्' इति प्रधानस्य अपरमत्व (त्वा)र्थकमभिधानम् , तच्च तत् महदादिभ्यः पूर्वं भावात् पूर्वकं चेति तस्य भावे तत्तत्त्वे साध्ये इति । पूर्वव्याख्याने "भेदानाम्' इत्येतत् पूर्ववद् उत्तरत्रापि सम्बध्यते । अस्मिन् उत्तरत्रव भेदानां महदादीनां वैश्वरूप्यकारणभावात् ननु विरुद्धा एव इति । निदर्शनमाह-नित्यादि । कुतः ? इत्याहपरिणाम एव संभवाद् इति । स्वगुणपर्यायैर्न परगुणपर्यायैः भावः परिणामः तत्रैव संभवात् १५ वैश्वरूप्यकार्यकारणत्व पादी (त्वादी) नाम् इति विभक्तिपरिणामेन सम्बन्धः । एतदपि कुतः ? इत्यत्राह-विश्वरूपादिकारणानाम् इति । रूपम् आदि रसादेः असौ रूपादिः, विश्वो निरवशेषो पादः (रूपादिः) [न] नैयायिकमतवद् विकलो रूपादिर्येषां पुद्गलद्रव्याभिमतकारणानाम् *"रूपरसगन्धस्पर्शवन्तः पुद्गला" [त० सू० ५।२३] इति वचनात् , तेषां विश्वरूपादिकारणानां परिणाम एव संभवात्' इत्यनुवर्तते । एतदुक्तं भवति- . २० *"प्रकृतेर्महान् ततोऽहङ्कारः तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥" [सांख्यका० २१] इति वचनात् यथा भूतानि रूपादिमन्ति तथा तत्कारणानि पञ्च तन्मात्राभिमतानि, एवं तावद्वक्तव्यम्-यावत् प्रकृतिः, विजातीयात् कार्यानुत्पत्तेः इति । 'कारणानाम्' इत्यनेन २५ प्रधानस्य पुद्गलापरनाम्नो विशेषापेक्षया बहुत्वं दर्शयति । तदपि कुतः एतत् ? इत्यत्राह-स्वयमे (१) व्याख्याकाराः । (२) प्रधानात्मकर्मिणः । (३) भावसाधने असिद्धः, अभावे विरुद्धः उभयधर्मे च अनैकान्तिकः । "नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥"-प्र० वा० ३।१९० । (४) न विद्यते परमं द्वितीयं यस्य तस्य भावस्तत्त्वम् अपरमत्वम् , तद् अर्थो यस्येति अपरमत्वार्थकम् , एकमेव प्रधान न द्वितीयमित्यर्थः। (५) यथा नैयायिकमते अग्नौ रसगन्धौ जले गन्धः वायौ च रूपरसगन्धा न स्वीक्रियन्ते न तथा अत्र विकलत्वम् । (६) "स्पर्शरसगन्धवर्णवन्तः पुद्गलाः"-त० सू०। (७) रूपरसगन्धस्पर्शशब्दाः तन्मात्राः । (८) मूलकारणभूता । (९) कार्यापेक्षया। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686