Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 608
________________ ४।१५ ] नैयायिकाभिमतचैतन्यसमीक्षा २९३ साधर्म्य तथा भूतचेतनयोः,' अरूपादित्वात् चेतनस्य । तत्रापि तत्कल्पने न प्रत्यक्षम्', साधनान्तरनिषेधात् । नानुमानम् , अन्यथा 'प्रत्यक्षमेव प्रमाणं नापरम्' इति प्रमाणव्यवस्थामतिलचयति सत्त्वादेः पृथिवीदृष्टान्तेन चेतते (चेतने) रूपादिमत्त्वसाधने तँत एव भूतानां प्रत्येकंतत्साधनात् प्रमेयव्यवस्थाम् अतिलङ्घयति । 'जीवे तावत् नास्तिक्यं मिथ्यादर्शनम्' इति व्याख्यातम्, संप्रति 'अन्यत्र जीवाभिमा- ५ नश्च' इत्येतद् व्याख्यातुकाम आह-[२४०ख] तथा च इत्यादि । [ तथा चात्मा गुणैः कर्ताऽविकार्यप्यर्थान्तरैः। भोक्तति मतं मिथ्या व्यापकादेशकल्पना ॥१५॥ स्वतः प्रवर्तमानस्यैवानेकरूपस्य परोपकारसंभवात् । तद्विहाय पुनरविकारिण एव प्रयत्नादृष्टसमवायात् कर्तृत्वं पुनः सुखदुःखादिसमवायात् भोक्तृत्वमिति बन्ध्यासूनो- १० विक्रमादिगुणसम्पद्वक्तुमुपक्रमते । परिणामो वस्तुलक्षणम् । तथा परो जीवस्य तत्त्वं चैतन्यसुखदुःखादिपरिणामकर्तृत्वभोक्तृत्वलक्षणं चेतनः पुरुषः स्वयं स्वभावतः अकर्ता दर्शनात् भोक्तेति विभजते । प्रतिपन्नकार्यकारणात्मनोऽचेतनस्य प्रधानस्य तवृत्तिरिति सुख । स्वतः प्रवर्तमानस्यैव शरीरोपकारसंभवात् ।] तथा तेनैव प्रकारेण गुणः प्रयत्नाऽदृष्टादिलक्षणैः करणैः कृत्वा आत्मा कर्ता । १५ किंभूतैः ? अर्थान्तरैः ततोऽत्यन्तं विभिन्नैः । किंभूतोऽपि ? इत्याह-अविकार्यपि अनाधेयाऽप्रहेयातिशयोऽपि इत्येवं मतम् मिथ्या तप्रा (तथा) गुणैर्बुद्ध्यादिभिः अर्थान्तरैः आत्मा अविकार्यपि सुखाद्यनुभवरूपतया गगनवदपरिणतोऽपि भोक्ता इति मिथ्या युक्तिविरोधात् । एवं वैशेषिकादेः अन्यत्र जीवाभिमानं प्रदर्य सांख्यस्य दर्शयन्नाहभोक्ता इत्यादि । तत्रायमर्थः-गुणैः सत्त्वरजस्तमोभिः कारणभूतैः अर्थान्तरैः प्रधानाश्रितैः २० आत्मा पुरुषः भोक्ता तदुपदर्शितानामर्थानाम् अनुभविता अविकार्यपि तत्साक्षात्करणपरिणामरहितोऽपि इति मिथ्या। नहि तथाऽपरिणतं तथा भवति, विप्रतिषेधात् । सदा तत्स्वभावत्वे जाग्रत्सुप्ताद्यविशेषः । सति दर्शने सतो दृश्यस्य अदर्शनायोगात् । तदाविर्भावतिरोभावकल्पनापि अविकारिणो न युक्ता। एतेन पुरुषान्तरबुद्ध्यर्पिताकारस्य सर्वस्य सर्वैदर्शनम् उक्तम् । अदृष्टं न दर्शनस्य नियामकम् एकरूपत्वात्तस्य । नापि दृश्यस्य २५ निःस्वभावतापत्तेः । न च समानदर्शनानां कस्यचिद् दृश्यंद्य यद्य दृष्यं (दृश्यमन्यस्याह श्य) दृष्टमिति । तथा 'भोक्तापि सन्नकर्ता' इति मिथ्या, भोक्तुः अकर्तृत्वविरोधात् , सकलशक्तिविरहलक्षणत्वाद् अकर्तृत्वस्य । अधुना तयोः" साधारणं मिथ्यात्वं दर्शयन्नाह-व्यापक इत्यादि। (१) साधर्म्यमस्ति । (२) प्रमाणं साधकमस्ति । (३) सस्वादिभ्यः । (४) आत्मनः । (५) । नैयायिकस्य । (६) दर्शनस्वभावत्वे । (७) कदाचिदाधिर्भावः कदाविञ्च तिरोभावः । (८) कूटस्थनित्यस्य पुरुषस्य सदैकरूपत्वात् । (९) अदृष्टस्य । (१०) भुजिक्रियायाः कर्तुरेव च भोक्तृत्वात् । (११) नैयायिक सांख्ययोः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686