Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 601
________________ २८६ सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः भस्म इत्यादि । भस्ममृत्तिकयोः कृतद्वन्द्वयोः आदिशब्देन बहुव्रीहिः, अत्र आदिशब्देन पिण्डादिपरिग्रहः, पुनः अस्य पर्यन्तशब्देन स एव विधेयः । तथैव तेनैव विशिष्टौषधादिप्रयोगप्रकारेण मुक्ताफलादि, आदिशब्देन हिमादि परिगृह्यते 'द्रवति' इति अनुवर्तते । यदि वा, पुद्गलद्रव्यं स्नेहविवर्त्तमासाद्य 'मुक्ताफलादिकं परिणामं याति' इति सम्बन्धः । अत्र ५ आदिशब्देन स्ततकादेः (सूतकादेः) गुटिकादिपरिणामो गृह्यते । काष्ठादिकम् आदिशब्देन तृणादिकम् अग्निसाद् भवति । कुतः ? इत्याह-अरणि इत्यादि । आदिशब्दाद् विशिष्टद्रव्यादिसंयोगात् । ततः स्थितम्-पुद्गलद्रव्यम् इत्यादि । ___ तर्हि तद्वत् पुरुषचेतनः तथा परिणमते न पुद्गलद्रव्यमिति ; अत्राह-न [पुनः] नैव चेतनो ब्रह्मात्मा चैतन्यं स्वपरावभासित्वं विहाय विपरिवर्त्तते पृथिव्यादिरूपेण परिणमते । १० एतदुक्तं भवति-पुद्गलद्रव्यं यथा पृथिव्यादिरूपेण विपरिवर्तते तत्र तद्रूपाद्यन्वयदर्शनात् , तथा यदि पुरुषः तद्र पेण विपरिवर्तिता (विपरिवर्तेत); चैतन्यान्वयः तत्र प्रतीयेत । न चैवमिति । अचेतनस्तर्हि चेतनरूपेण परिणमत इति चेत् ; अत्राह-अचेतनः पृथिव्यादिः पुनः चेतनो भवन् सँल्लक्ष्यते । 'न पुनः' इत्यनुवर्तते, स (सँ)ल्लक्ष्यत इति । अनेनैतद् दर्शयति [२३४ ख] यदि अचेतनः परिणामी चेतनः तत्परिणामः तत्र तद्पान्वयः स लक्ष्यते १५ (सल्लक्ष्येत) । न च तदस्ति रूपादिरहितस्य अन्तःचेतनस्य परिस्फुरणात् । न च तत्र रूपादी नामनाविर्भावकल्पना श्रेयसी ; भूतानामन्योऽन्यात्मनि लक्षणानाविर्भावकल्पने न लक्षणभेदेन 'तव्यवस्थाकथनम (न) युक्तं स्यात् । उपसंहरन्नाह-तद् इत्यादि । यत एवं तत् तस्माद् अयं वावाकस्वत्वं (चार्वाकः स्वयं) पुद्गलद्रव्यलक्षणम् एकसंख्योपपन्नम् चतुर्धा चतुर्भिः प्रकारैः व्यवस्थापयन् । केन ? इत्याह२० पृथिव्यादिभेदेन कथं स्वस्थः भूतगृहीत इत्यर्थः । कुतः ? इत्याह-विपर्यस्तबुद्धिः । यथा चन्द्रमसमेकं द्वित्वेन व्यवस्थापयन् तथाविधबुद्धिः तथा अयमपि यतः । ननु परचेतोवृत्तीनां दुरन्वयत्वात् तथाविधबुद्धिरयमिति कुतो ज्ञायते इति चेत् ; अत्राहदेवानांप्रिय इत्यादि । देवानां मूर्खाणां प्रियो यतः । नहि असौं सत्तामात्रेण तन्मयः (तत्प्रियः) अतिप्रसङ्गात् , अपि तु प्रमाणत्राणरहितत्वोपदेशात् सुखसंवर्धितमतीनां तेषां प्रमाणविषये अप्रवे२५ शात् , ततोऽसौ तथाबुद्धिः अवगम्यते । तथाविधतत्त्वो (ततत्त्वो) पदेशोऽपि "तस्य कुतोऽवगम्यते इति चेत् ? अत्राह-प्रत्यक्षस्य इत्यादि । प्रत्यक्षस्य प्रमाणस्य प्रमेयस्य वा अतीव लङ्घनाद् अन्यथैव प्रतिपादनात् । किं पुनरयमेतदेव कुर्वन् अस्वस्थः ? न ; इत्याह-चेतनेतरतत्त्वम् एकीकुर्वन् । कथंभूतम् ? उभयम् ? अनेकशेषं पूर्ववत्रापि । तदेवं मध्यावस्थायां चेतन एव चेतनीभवति इति साकल्येन [२३५क] विपक्षेऽनन्तर३० बाधकोपदर्शनेन सिद्धायां व्याप्तौ यत्सिद्धं तदर्शयन्नाह-प्राणिनाम् इहजन्मनि इत्यादि । (१) बहुव्रीहिः । (२) पृथिव्यादिरूपेण । (३) पृथिव्यादिषु । (४) चेतने । (५)चेतने । (६) पृथिव्यादिभूतचतुष्टयव्यवस्था । (७) विपर्यस्तबुद्धिः । (6) चार्वाकः । (९) विपर्यस्तबुद्धिः । (१०) चार्वाकस्य । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686