Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 599
________________ २५ सिद्धिविनिश्चयटीकायाम् [ ४ जीवसिद्धिः प्रत्यक्षाः तथापि बुद्धा (बुद्ध्या) दय: 'तदाश्रितत्वेऽपि प्रत्यक्षाः, यथा आकाशपरममहत्त्वाद्यप्रत्यक्षत्वेऽपि तदाश्रितः शब्दः प्रत्यक्षः । यस्तु मन्यते बुद्धेः शरीराश्रितत्वे तस्य क्षणिकत्वाद् देशान्तरादौ प्रत्यभिज्ञानं न स्यादिति; स्यादेतदेवं यदि कार्यसंयोगिना कारणं न संयुज्येत, न चैवम्, पटसंयोगिना तन्तु संयोगदर्शनात् । ५ नापि मध्यमध्यमशरीरस्य प्रबोध (धा) कारणत्वात् (त्वम्); तद्भावे भावाद् [२३२ख] अभावे अभावात् । न जाग्रच्चित्तस्य तद्भाव एव भावात् । तथापि तत् तस्य चेत् कारणम् ; तर्हि विधवाया गर्भः चिरमृताद् भर्त्तुः न सन्निहितात् परपुरुषात्, इति न साँ निग्राह्या स्यात् । 9 यदि मतम्-प्रबोधस्य शरीरकारणत्वे जाग्रच्चित्तानुकरणविरोध इति ; तदपि सुपरिहारम् ; यतः कारणकारणस्यापि अनुका (क) रणसंभवात् तदविरोधः । तथाहि - तच्चेतसः शरीरं प्राणादिवत्, १० ततः पुनरपरं शरीरं प्राणादेखि प्राणादिः तावद् अन्ता दशा, ततः पुनः तदनुरूपप्रबोधः पित्रनुरूपपुत्रवत् इति । तद्यथा पितुः शुक्रादिपातः पुनः तत्परिणामविशेषात् पित्रनुरूपमपत्यशरीरम् । " यदि वा, शरीरं बोधोपादानकारणम्, तच्चित्तं सहकारिकारणम् परस्य च सहकारिकारणानुरूपं कार्यम्, अन्यथा कथमर्थानुरूपं ज्ञानम् ? 'भिन्नकालं कथं सहकारि' इत्यपि नोत्तरम् ; सर्पादिदष्टमूर्च्छितस्य पूर्वामूच्छितः (त) चित्तं प्रति भिन्नकालतास्यापि ( लस्यापि ) मन्त्रादे: सह१५ कारित्वस्य परैरभ्युपगमात् । प्रथमः पुनः अपर्यालोचित एव; स्वापादौ हि क्षणिक संवेदनोपगमे जागरणात् तस्य विशेषो वाच्यः यतस्तत्र प्रत्यक्षसिद्धं क्षणक्षयादिकं तत्प्रवृत्त्यादिकारणं मरणवद् इति न स्यात् । समारोपः इति चेत् ; न ; तत्र तदभावात् । इतरथा तदुपलक्षणे न गाढ निद्रा दशा नाम । तदनुपलक्षणं तु " नहि इमाः कल्पना:" [प्र० वा० स्व० टी० पृ० १२७] इत्यादि" प्रतिहन्ति । यदि पुनः निश्चयाऽभावो विशेषः; सोऽपि न युक्तः ; तदभाव एव अस्तु । २० कथमनुभूतं क्षणक्षयादिकमननुभूतं यतस्तत्र [२३३ क] तद्व्यवहारो न स्यात् ? निर्विकल्पानुभूतमननुभूतकल्पमिति चेत्; न तर्हि स्वापादेः संहृताशेषविकल्पदशा भिद्यत इति " तत्रेव अन्यत्रापि*" संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥" " [प्र० वा० २।१२४] इति प्लवते | तत्र नीलादिविकल्पसद्भावेऽपि ततस्तत्र संवेदनाऽप्रवेदनात् चेतनस्य चेतनः तस्य वा अचेतनः पर्यायः इति न युक्तमेतत् - 'नवै चेतनोऽचेतनस्य' इत्यादि इति चेत्; अत्र प्रतिविधीयते - ३० २८४ निर्णयेतरसंवित्तेः सदाऽभ्युपगमादयम् । न दोषो जायतेऽस्माकं सौगतैकान्तपक्षवत् ॥ प्रबोधस्यान्यथायोगादन्तरालेऽनुमीयते । (1) भूताश्रितत्वेऽपि । (२) आकाशाश्रितः । (३) शरीरस्य । ( ४ ) प्रबोधकारणत्वम् । (५) जाग्रञ्चितम् । (६) प्रबोधचित्तस्य । (७) विधवा । (८) जाग्रचित्तम् । ( ९ ) भवत्येव । (१०) " अप्रतिसंवदिता एवोदयन्ते व्ययन्ते वा यतः सत्योऽप्यनुपलक्षिताः स्युः" इति शेषः । (११) स्वापादिवत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686