Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 597
________________ २८२ सिद्धिविनिश्चयटीकायाम् [ ४ जीवसिद्धिः एतदपि आस्ताम् । अभूतं स्यात् भूतरहितं सर्व स्यात् भूतानामन्योऽन्य कार्यकारणभावेन अन्तर्भावाद् भूतव्यवस्था न स्यात् । यदि पुनः काष्ठादेरन्तभूतपावकादेः पावकादिसमुद्भव' इति न दोषः ; तत्राह-अस्तु पञ्चमं तत्त्वं पृथिव्यादेः अन्तर्भूतचेतसो भावात् इति भावः ।। ___कारिका विवृण्वन्नाह-पृथिव्यादि इत्यादि । पृथिव्यादेः स्वभावभेदं स्वरूपनानात्वं ५ प्रतिपत्त्या (पद्य) अभ्युपगम्य विज्ञप्तिस्वभावभेदं बुद्धीनो सन्तानभिन्नानां रूपनानात्वं विज्ञप्तिग्रहणं सांख्यवैशेषिक-आत्मनिषेधार्थम् स्वभावभेदग्रहणं [२३१ ख] सकलाद्वैतबाधार्थम् । किं भूतम् ? इत्याह-हर्ष इत्यादि । पुनरपि किंभूतम् ? इत्याह-अन्तः इत्यादि । अनेन शरीरात् गृहादिव दीपस्य दर्शयति । समक्षं स्वसंवेदनप्रत्यक्षविषयं प्रतिक्षिपति निराकरोति इति हेतोः कथं प्रेक्षावान् ? अपि च इत्यादिना अत्रैव दूषणान्तरमाह-भूतप्रत्यक्षं पृथिव्यादिगोचरम् १० इन्द्रियज्ञानम् यदि तरं (तत्त्वान्तरं) पृथिव्यादिभ्योऽन्यत्वे सति यदि द्रव्यान्तरम् ; परिसंख्या चत्वार्येव तत्त्वानि इति परिगणनं विरुध्येत । इदमपरं व्याख्यानम्-तत्त्वं च पृथिव्यादिकार्यत्वेन अन्तरं च भिन्नम् इति चेत् ; अत्राह-संवित्तः स्वपरग्रहणलक्षणायाः भूतप्रत्यक्षरूपचेतनायाः तेषु भूतेषु तत्स्वभावतया अन्त र्भावकल्पनायां क्रियमाणायां तत्त्वम् एकमेव स्यात् तच्चातुर्विध्यं हीयेत परस्पराऽन्तर्भावात् । १५ अथ पृथिव्यादीनां परस्परविविक्तानां प्रतिभासनात् नैवम् ; तर्हि संवित्तिविभक्तानां तथैव प्रति__ भासनात् , अन्यथा प्राणिमयं जगत् स्यादिति प्रकृतमपि मा भूदिति मन्यते। यदि पुनः तत्स्वभावतया न "तत्रान्तर्भावः अपि तु तत्परिणामतया तत्राह-स्यात पर्याय इत्यादि। [ स्यात्पर्यायः पृथिव्यादेः सलिलादिस्तथा न वै । चेतनोऽचेतनस्य वाऽचेतनश्चेतनस्य च ॥१४॥ पुद्गलद्रव्यं सूक्ष्म खरादिविवर्तमासाद्य पृथिव्यादिव्यपदेशभाक् पुनरन्यथा बहुलं परिणामि लक्ष्यते, यथा चन्द्रकान्तमणिः पृथिवीस्वभावो द्रवति चन्द्ररमः, शुक्रशोणितं भस्ममृत्तिकादिपर्यन्तं रूपादिपरिणामं याति, तथैव मुक्ताफलादि । काष्ठदिकमग्निसात् भवति अरण्यादिसंयोगात् । न पुनः चेतनश्चैतन्यं विहाय विपरिवर्तते अचेतनश्चेतनो २५ भवन् सँल्लक्ष्यते । तदयमुभयं चेतनेतरतत्त्वमेकीकुर्वन् पुद्गलद्रव्यलक्षणं पृथिव्यादिभेदेन चतुधो व्यवस्थापयन् कथं स्वस्थो विपर्यस्तबुद्धिर्देवानां प्रियः ? प्रत्यक्षस्यातीवलङ्घनात् । इहजन्मनि तावत् प्राणिनामाद्यन्तचित्तानि चित्तान्तरोपादानोपादेयभूतानि चित्तत्वात् यथा मध्यचित्तम् । अत्र पुनरन्यथानुपपत्तिरस्त्येव, जातस्य पूर्वाभ्यस्तस्मृत्य नुबन्धात् भयादिप्रतिपत्तेः । अनेन पथिकाग्नेः ज्वालान्तरपूर्वकत्वं प्रत्यग्निवत् इति ३० व्यभिचारचोदनं प्रत्युक्तम् , तेज कारणपूर्वकत्वस्य तत्र विरोधात् । सतश्चेतनस्य चित्स्वभावेन परिणमतः कारणान्तरानपेक्षत्वात् स्वयमक्षेपेण विवर्तोपपत्ते अनैमित्तिकत्वा (१) न पुनः पार्थिवात् काष्ठादेरग्निः जलाद्वा पार्थिवं मुक्ताफलादिकम् । (२) भिन्नत्वं दर्शयति । (३) न चातुर्विध्यहानिः । (४) परस्परविविक्ततया । (५) भूतेषु । (६) भूतपर्यायतया । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686