Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 598
________________ ४।१४] भूतचैतन्यनिरासः २८३ दचेतनवत् । द्वितीये तदवश्यम्भावात् । यदि पुनः अन्त्यक्षणस्य नोत्तरीभवनशक्तिः ; अवस्तुत्वं स्वोपादानप्रबन्धाभावं साधयेत् अर्थक्रियालक्षणत्वाद्वस्तुनः। समर्थं न करोति चेति विरुद्धम् । सामग्रीजन्मनां विसदृशकार्याणां कादाचित्कत्वं न तु उत्तरीभवनस्य । तदेतत् अन्ते क्षयदर्शनमसिद्धम् , मध्ये स्थितिदर्शनमपि स्थितिं प्रसाधयेदव्यभिचारात् । यदि चेतनः अचेतनाकारेण विवर्तेत स्वापप्रबोधवत् प्रेत्यभावसिद्धः कथनानवद्यम्-अपर। ५ चेतनेतरयोः स्वभावसिद्धयोः सङ्करव्यतिकरप्रतिपत्तिरयुक्तैव दृष्टहानेरदृष्टपरिकल्पनाच । 'जलबुबुदवज्जीवाः मदशक्तिवद् विज्ञानमिति परः अर्के कटुकिमानं दृष्ट्वा गुडे योजयति। विज्ञप्तेर्यदि स्वालक्षण्यादिविशेषेऽपि मदशक्त्यादिदृष्टान्तेन सत्त्वोत्पत्तिकृतकत्वादेः भूतस्वभावत्वम् ; तत एव परोऽपि भूतानामपि बुद्धिचैतन्यविवर्तानतिक्रमं सुखादिस्वसंवेदनवत् साधयेदिति विरुद्धाव्यभिचारीति मिथ्याभिनिवेशात् प्रमाणप्रमेयव्यवस्थामतिलचन्येत् ] १० ___ इदमत्र तात्पर्यम्-संवित्तेः भूतपरिणामत्वेन तत्रान्तर्भाव अनिष्टं किञ्चित् सिध्यति इष्टं च न सिध्यति । अनिष्टसिद्धिं तावदर्शयति-स्याद् भवेत् पर्यायः परिणामः । कस्य कः ? इत्याह-पृथिव्यादेः सलिलादिः । अस्यार्थ स्वयमेव वृत्तौं वक्ष्यति तन्नेह उच्यते । ततः पृथिव्यादौ सलिलादेः अन्तर्भाव इति भावः । इष्टासिद्धिं दर्शयन्नाह-तथा इत्यादि । येन अन्वयव्यतिरेकानुविधान [२३२ क] प्रकारेण पृथिव्यादेः पर्यायः सलिलादिः तथा नवै नैव १५ चेतनोऽवग्रहादिः अचेतनस्य चेतनस्वभावरहितस्य पृथिव्यादेः अचेतनः पृथिव्यादिः चेतनस्य वा पर्याय इति सम्बन्धः । तदनेन *"आत्मैवेदं सर्वम्" [छान्दो० ७।२५।२] इत्याद्यपि निरस्तम् । अवग्रहाद् ईहायाः ततोऽवायस्य अतो धारणायाः स्मृतेः प्रत्यभिज्ञाया अस्याः तर्कस्य अनुमानस्योत्पत्तिदर्शनात् । न चान्यस्य परिणामोऽन्यस्य ; अव्यवस्थापत्तेरिति मन्यते । ___ स्यान्मतम्-यदि चेतनस्य नाचेतनः तस्य वा चेतनः ; कथं जाग्रद्दशातः स्वापदशा, २० तस्याश्च प्रबोधदशा यतस्तदा अवग्रहादिसंभव इति ? तत्र केषाञ्चित्परिहारः-तद्दशायामविकल्पकं दर्शनमस्ति ततः प्रबोधः। अन्येषां जाप्रद्विज्ञानात् सः इति । "अपरेषां ज्ञानरहितादात्मनः२ इति । नान्त्यः तावत् परिहारः संभवति ; ज्ञानाद् व्यतिरिक्तस्य आत्मनोऽन्यस्य वा भूताsविशेषात् । यद्यपि कार्यभूतानां क्षणिकत्वमिति न स्मरणप्रत्यभिज्ञानादिसंभवतः (वः) तदापि (तथापि) तत्कारणभूतेभ्यः तत्संभवो नित्यत्वात्तेषाम् । यद्यपि तद्र पादयः नास्मत्सदृशानां २५ (१) तुलना-"जलबुद्बुदवजीवाः" यथैव हि समुद्रादौ नियामकादृष्टरहिताः पदार्थसामर्थ्यवशात् वैचित्र्यव्यपदेशभाजो बुबुदाः प्रादुर्भवन्ति तथा सुखदुःखवैचित्र्यभाजो जीवाः..."-न्यायकुमु०पृ० ३४२। (२) "मदशक्तिवद् विज्ञानम्"-न्यायकुमु० पृ३४२ । ब्र. शा. भा० ३।३।५३ । न्यायक. पृ० ४३७ । न्यायवि.वि.प्र. पृ. ९३ । “मदशक्तिवच्चैतन्यमिति -प्रक०प० पृ० १४६। तुलना-"मद्याङ्गवद् भूतसमागमे ज्ञः..."-युक्त्यनु० श्लो. ३५ । (३)भूतेषु। (४) ग्रन्थकारोऽकलङ्कदेवः । (५)स्वोपज्ञटीकायाम् । (६) अचेतनस्य । (७)न परिणामः तर्हि । (८) अविकल्पदर्शनात् । (९) प्रज्ञाकरादीनाम् । (१०) प्रबोधः । (११) नैयायिकादीनाम् । (१२) प्रबोधः । (१३) भूतवदचेतनत्वादित्यर्थः । (१४) कार्यरूपाणां भूतानाम् । (१५) कारणात्मकभूतानां परमाणूनामित्यर्थः । (१६) कारणात्मकभूतपरमाणुगता रूपादयः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686