Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 586
________________ ४१२ ] कर्मफल प्रकारः २७१ अकासविद् द्विष्टकानां ( कासादि विषकल्पानां) कुतश्चित् क्षयोपशमे कासाञ्चिच्च उदयोair प्राथमिकप्रबोधे स विभ्रभ इति मन्यते । 'जीवादि' इत्यादिना कारिकां विवृण्वन् प्रथमं निर्दिष्टां मिध्यादृष्टिं विवृणोति - मिथ्यादर्शनम् । किम् ? इत्याह- जीवादि इत्यादि । आदिशब्देन अजीवादिपरिग्रहः, स एव तत्वार्थः प्रमाणोपपन्नत्वात् तत्र अश्रद्धानम् अरुचिः । तदेव दर्शयन्नाह - जीव इत्यादि । तावत् ५ शब्दः क्रमवाची जीवे आत्मनि नास्तिक्यं नास्तिकस्य भावो 'मिथ्यादर्शनम्' इति सम्बन्धः । तत्रैव अपरं दर्शयति अन्यत्र चेतनापरिणामशून्ये स्वयं कल्पिते धर्मिणि सर्वगतत्वादिधर्मोपरक्त जीवाभिमानश्च 'मिथ्यादर्शनम्' इत्यनुवर्तते, अतस्मिन् तदभिमानस्य तद्रूपत्वात् । किं पुनः द्विविधमेव तत् प्रदर्श्यते ? इत्याह- मिथ्यादृष्टेः इत्यादि । मिथ्या दृष्टिः रुचिर्यस्य तस्य द्वध्या (द्वैविध्या) नतिक्रमात् । कुतः ? इत्याह - [ २२२ख] विप्रतिपत्तिः इत्यादि । तस्य जीवे विरुद्धा १० विपरीता वा प्रतिपत्तिः विप्रतिपत्तिः अप्रतिपत्तिः प्रतिपत्त्यभावो यतः वा शब्दो विकल्पार्थः इति शब्दः मिथ्यारुचिसमाप्तयर्थः । 3 ननु 'किं जीवोsस्तु (स्ति) न [वा ] ' इति, तथा 'चेतनपरिणामस्वभावः अन्यो वा' इति संशयपक्षोऽपि तृतीयोऽस्ति कस्मान्नेहोच्यते इति चेत् ? न तस्यै अप्रतिपत्तिशब्देन उक्तत्वात्, तथा वा (च) प्रतिपत्त्यभावरूपत्वात् संशयस्य इति । कथंभूतस्य मिथ्यादृष्टस्तद्भवः ? इत्याह- १५ क्षायोपशमिकभावस्यापि कर्मणां यः क्षयश्च उपशमश्च क्षयोपशमः तत्र भवो भावो यस्य तस्यापि मिथ्यादृष्टेः। तदपि शब्दः तस्यैव इत्यवधारणे, वच्छता (मिथ्यात्व) रहितस्य तदभावात् । संभावनायां वा । कुतस्तत्तस्येति चेत् ? अत्राह - तद्धाति इत्यादि । तच्छब्देन जीवः परामृश्यते, तस्य जीवस्य घातिकर्माणि यानि तत् कर्मसामान्यवचनेऽपि दर्शनोपघातद्वारेण तदुपघातकानि प्रक्रमाद् गृह्यन्ते, तेषाम् उदयोदीरणवशात् इति । न केवलं मिथ्यादर्शनमेव तस्य २० अतो भवति अपि तु मिथ्याज्ञानमपि इति दर्शयन्नाह - मत्य इत्यादि । मत्यज्ञानम् मिथ्याऽवग्रहादिज्ञानम् आदिर्यस्य श्रुताऽज्ञानादेः स तथोक्तः स एव परिणतिः । च शब्देत्व ( शब्दोऽत्र ) द्रष्टव्यः । ततोऽयमर्थः- तत्परिणतिश्च क्षायोपशमिकभावस्यापि तद्घातिकर्मोदयोदीरणवशादिति । ननु च जीववदन्यत्रापि नास्तिक्यसंभवे 'जीवे तावत्' इति क्रमवाची शब्दः प्रयुज्यते । न चान्यत्र तँदिति चेत्; अत्राह - तत्र इत्यादि । [ तत्रेति द्वेधा नास्तिक्यं प्रज्ञासत् प्रज्ञप्तिसत् । तथादृष्टमदृष्टं वा तत्त्वमित्यात्मविद्विषाम् ॥ १२ ॥ Jain Education International कुम्भस्तम्भादि दृष्टं प्रज्ञप्तिसत् संस्थानादेः स्वलक्षणेष्वभावात् । वृत्तिविकल्पानवस्थादोषानुवृत्तेः । स्थूलस्याभावात्, परिमण्डलादेरप्रतिभासनात्, तद्व्यतिरेकिणोऽसम्भवात् । विज्ञप्तिमात्र' परमार्थसत् ; यथादर्शनं प्रज्ञप्तिसत्त्वात् भ्रान्तस्यापि नानैकत्व - ३० (१) नैयायिकादिना । (२) मिथ्यात्वात् । (३) मिथ्यात्वम् । ( ४ ) संशयः । ( ५ ) संशयस्य । (६) नास्तिक्यम् । २५ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686