Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 585
________________ २७० सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः तद्विशेषो कदाचित् कचिदेव भवनात्मनः कारणनियमं सूचयति । आकस्मिकत्वे मिथ्याज्ञानादिभेदोऽपि मिथ्याज्ञानादिनिमित्तास्रवपूर्वको न स्यात् । ततः स्थितं पूर्वबन्ध (पुनर्बन्ध) इत्यादि। दृष्टान्तमाह-[२२१ख] मूषिक इत्यादि । मूषिकाऽलकशब्दयोः कृतद्वन्द्वयोः विष५ शब्देन षष्ठीसमासः तस्य पुनः विकारशब्देन । यदि वा, मूषिकालर्कविषाणां कृतद्वन्द्वानां विकारशब्देन तत्समासोऽभिधेयः, तद्विकारेण तुल्यं वर्तते इनि तद्वत् इति । 'सुखदुःखादिलक्षणः' इत्यत्र आदिशब्देन विवक्षितं मिथ्यादर्शनज्ञानफलं निरूपि(पयि)तुं कारिकामुपन्यस्यति उदयोदीरण इत्यादिना । [उदयोदीरणसद्भावे दृष्टिप्रतिबन्धकर्मणाम् । १० मिथ्यादृष्टिधियो कर्मप्रकृतीनां क्षयोपशमात् ॥११॥ जीवादितत्त्वार्थाश्रद्धानं मिथ्यादर्शनम् । जीवे तावन्नास्तिक्यम् अन्यत्र जीवाभिमानश्च, मिथ्यादृष्टः द्वैविध्यानतिक्रमात् विप्रतिपत्तिरप्रतिपत्तिर्वेति । मिथ्यादृष्टेः क्षायोपशमिकभावस्यापि तद्वातिकर्मणामुदयोदीरणवशात् मत्यज्ञानादिपरिणतिः।] ननु च आदिशब्देन उपदर्शितोपदर्शनार्थं पुनः कारिका उच्यमाना पुनरुक्ततामावहेत् , १५ अतिप्रसङ्गश्च इष्टानिष्टशरीरादिफलोपदर्शनार्थयोरपि तथावचनप्राप्तः इति चेत् ; न; अन्यथा तदुपन्यासात् । तथाहि-'मिथ्याज्ञानादेः अविरतिः, ततः प्रमादः, अस्मात् क्रोधादयः, तेभ्यः आस्रवः, [ततः] कर्मबन्धः, पुनः बन्धसन्ततौ फलविकल्पः स्यात्' इति सूरेः अभिप्रायः, *"एषोऽहं मम कर्म शर्म हरते" [यश० उ० पृ० २४६] इत्यादि वचनात् । तत्र प्रथम मिथ्यात्वादिकं यदि अकारणमन्यकारणं वा सर्वं तथैव स्यादिति; अत्राह-उदयोदीरण इत्यादि। २० अत्रायमभिप्रायः-तदपि मिथ्यात्वा]दिकम् अन्यस्मात् कर्मोदयोदीरणवशाद् अनादित्वात् तत्प्रबन्धस्य बीजाकुरप्रबन्धवत् इति । यद्वा, तत्र आदिशब्देन इष्टस्थानसंक्रमणादिपरिग्रहः, न मिथ्यादर्शनादेः तत्र विवादस्य *"मिथ्याज्ञानं विसंवादादप्रमाणम्" [सिद्धिवि० ४।२] इत्यादिना निराकृतत्वात् । तदेव अत्र पुनरपि दृष्टान्तार्थमुपदर्शयितुम् 'उदयोदीरण' इत्यादि कां कारिकामाह । इदमत्र तात्पर्यम्-यथा मूषिकालर्कविषादि स्वकालादिसामग्री सत्तवा [सत्त्वे २५ फलवत् तथा] उदयोदीरणवशात् [२२२क] मिथ्यात्वं किञ्चिद् उपलभ्य आगन्तुकम् अक्षणिक त्वादिमिथ्यात्वं तादृशादेव कारणादिष्यते तथा आगन्तुकसुखादिविकल्पोऽपि इति । उदये उदीरणे च सति । केषाम् ? इत्याह-दृष्टि इत्यादि । तद्वरुवि (तत्त्वरुचि) ज्ञानप्रतिबन्धकर्मणाम् । किं स्यात् ? इत्याह-मिथ्यादृष्टिधियो मिथ्यारुचि-मिथ्याज्ञाने 'स्याताम्' इति शेषः। [किं] सर्वदा इति चेत् ; अत्राह-कर्म इत्यादि । यदा काश्चित् कर्मप्रकृतयः क्षयोपश३० मवत्यो भवन्ति तदा आत्मनो विषयग्रहणाभिमुख्यम् , अन्यथा मत्तमूछितवत् तैदयोगात् , तदापि कासाश्चिद् उदयादिभावे मिथ्यारुच्यादिकमिति, यथा विषाद्युपयोगे मूच्छितस्य । (१) षष्ठीसमासः । (२) कर्मोदय-मिथ्यात्वादिसन्तानस्य । (३) ज्ञानोद्भवायोगात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686