Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 587
________________ २७२ सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः संभवात् ग्राह्य [ग्राहकसंवित्ति] भेदावभासनात् संभावितकरूपस्य स्वतोऽसिद्धः परतश्च स्वभावनैरात्म्यं सर्वभावानां प्रमाणाभावे न प्रतिपत्तुमर्हति शून्यवादी, भावे च । तदयमास्मानं मिथ्याभिनिवेशेन अनर्थगर्ने प्रवेश्यमानोऽपि न चेतयते । प्रमाणाभावेन प्रत्यक्षमेकं नापरं प्रमेयतत्त्वं वेति न तथा प्रतिपत्तुमर्हति । प्रमाणान्तरप्रतिषेधे प्रत्यक्षलक्षणानुपपत्तेः ५ कि केन विदध्यात् प्रतिषेधयेद्वा यतः चातुीतिकमेव जगत् स्यात् । यदि नाम स्वसंवेदनापेक्षया बहिरन्तश्चोपप्लुतमिति सूक्तमेवैतत् , निराकृतपरदर्शनगमनात् । विभ्रमकान्तमुपेत्य स्वसंवेदनेपि अपलापोपलब्धेः अन्यथा विप्रतिषेधात् चतुर्भूतव्यवस्थामपि लक्षणभेदात कथयितुमर्हति । न च चतुर्भूतव्यवस्थाकथनं युक्तम् परोक्षाणामपि लक्षणात् साकल्येन तत्वाप्रतिपत्तेरन्यथानुपपत्तेः।] १० तत्र 'क्षायोपशमिकभावस्यापि तद्घाति [२२३क] कर्मोदयोदीरणवशात् मिथ्या दर्शनम्' इत्येवं व्यवस्थिते सति मते वा नास्तिक्यं नास्तिकस्य भावः कर्म वा द्वेधा द्विप्रकार बाह्याध्यात्मिकविषयभेदेन, यदि वा, जीवाऽजीवगोचरना[ना]त्वेन विज्ञप्तिमात्रस्य (स्याs) भावात् , अथवा जाग्रत्स्वप्नविषयभेदेन वा भेदगोचरत्वेन च, यदि वा अनुमानादिप्रमाणतत्प्रमेय विषयभेदेन तद्विविते (तद् द्वेधेति) । यदि वा, जीवे यन्नास्तिक्यं तस्य भेदं दर्शयन्नाह-तत्र १५ इत्यादि । तत्र जीवे नास्तिक्यं द्विधा (द्वेधा) सौगतचार्वाकचर्वणभेदेन । अथवा, तत्र तयोः नास्तिक्य-अन्यत्रजीवाभिमानयोर्मध्ये नास्तिक्यं तद्वेधा इति व्याख्येयम् । तत् किम् ? इत्याहप्रज्ञासत् संवृतिसत् इत्यर्थः । ननु प्रज्ञाप्ति (प्रक्षेति) शब्दो न कचित् संवृतिपर्यायतया रूढः तत एवं वक्तव्यं दृष्टं (स्पष्टं) संवृतिसत् इति, एवं हि स्पष्टो निर्देशो भवति *"तत्त्वसंवरणात् संवृतिः मिथ्या२० विकल्पबुद्धिः” इति सर्वत्र प्रसिद्धः तया सत् इति । नापि एवंवचने कारिका मद (भ्रंश) इति चेत् ; तन्न ; परमतभेदप्रदर्शनार्थत्वात् तथावचनस्य । तथाहि-दृष्टं सर्वं चेतनभ्वा (चेतनमचेतनं वा) मिथ्येति मतम् *"मायामरीचिप्रभृति प्रतिभासवदसत्त्वेऽपि अदोषः" [प्र०वार्तिकाल० ३।२११] इति वचनात् । कुतः ? इत्याह-प्रज्ञप्तिसत् इति हेतोः, प्रगता ज्ञप्तिः यस्य तत् तथोक्तं प्रज्ञप्तिसत् सत्त्वं यस्य सर्वस्य तदपि तथोक्तम् । नहि कस्यचित् परमार्थसत्त्वग्राहक २५ मानमस्ति, उपलम्भादेः स्वप्नेऽपि भावादिति । तथादृष्टम् उपलम्भगोचरचारि प्रकृष्टाऽद्वयज्ञप्ति रूपेण सद् विद्यमानं सर्वं सुखादिनीलादि न जीवाऽजीवरूपेण । *"यद् उपलभ्यते (१) चनीलादि कम्" इति वचनात् । अपरं दर्शनम् तथा च [२२३ख] अन्यादृष्टं सर्वं प्रज्ञप्तिसत् व्यवहारेण (१) "समन्ताद्वरणं संवृतिः । अज्ञानं हि समन्तात् सर्वपदार्थतत्त्वाच्छादनात् संवृतिरित्युच्यते । परस्परसंभवनं वा संवृतिः अन्योऽन्यसमाश्रयेणेत्यर्थः। अथवा संवृतिः संकेतो लोकव्यवहार इत्यर्थः। स च अभिधानाभिधेयज्ञानज्ञेयादिलक्षणः ।"-माध्य. वृ० पृ. २४० । “प्रमाणमन्तरेण प्रतीत्यभिमानमात्र संवृतिः।" "संवृति म विकल्पविज्ञानमधिमुक्तिमाह अनादिवासनातः ।।"-प्र. चार्तिका. पृ. ३।४ । "संवियत आवियते यथाभूतपरिज्ञानं स्वभावावरणादावृतप्रकाशनाच्चानयेति संवृतिः। अविद्या मोहो विपर्यास इति पर्यायः।"-बोधिच. प. पृ० ३५२ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686