Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 592
________________ तत्त्वोपप्लव समीक्षा २७७ ४।१२ ] किं क्रियमाणोऽपि ? प्रवेश्यमानोऽपि । किम् ? इत्याह- अनर्थगर्त्तं स्वयम् अनर्थत्वेन अभ्युपगमाद् अनर्थः परिणामादिः तेन उपलक्षितं तद्रूपस्वा (पत्वात् ) गर्त्तमिव गर्त्तम् तत्प्रविष्टो युगसहस्रैरपि ततो नात्मानमुद्धरति । किम् अनर्थगर्त्तम् ? इत्याह- आत्मानं जीवमिति । केन ? इत्याह- मिथ्याभिनिवेशेन मिथ्या असत्यः अभिनिवेशः नैरात्म्याद्याग्रहः तस्य (यस्य) यस्मिन् चित्रैकप्रतिभासे स तथोक्तः तेन, स्वयम् आत्मना । १० यद्वा, आत्मा न स्वत्तचेत ( स्वतश्चेत्;) अनर्थगतं सकलशून्यतागर्त्तं प्रवेश्यमानोऽपि नात्मानं चेतयते । कुतः पुनः 'अयमपि नात्मानं ने चेतयते इति चेत् ? उच्यते - प्रमाणाभावे न तदभावे सति वा [तथा] प्रतिपत्तु वा अर्हति यतः । किम् ? इत्याह- प्रत्यक्षमेकम् 'प्रमाणम्' इति शेषः, नापरम् अनुमानादिकम् इत्येतत् । किमेतदेव तथा प्रतिपत्तुमर्हति नापमपि ? इत्याह- प्रमेयतत्त्वं वा । वेति पक्षान्तरसूचने । प्रत्यक्षपरिच्छेद्यमेकं नापरम् आत्मादितत्त्वं प्रमेयतत्त्वम् इति । एतच्च कुतः तदभावे न तत्प्रतिपत्तुमर्हति ? इत्याह- प्रमाणान्तर इत्यादि । प्रत्यक्षप्रमाणाद् अन्यद् अनुमानादि तदन्तरं तस्य प्रतिषेधे निरासे सति प्रत्यक्षलक्षणानुपपत्तेः । प्रत्यक्षस्य हि लक्षणं वैशद्यं 'साविप्लवम्, तच्च अशेषतद्वचक्तिनिष्ठ न प्रमाणान्तरमन्तरेण प्रतिपत्तु [२२७ ख] शक्यं प्रत्यक्षस्य नियतगोचरत्वात् । अकृतलक्षणत्वाच्च न ततः तत्प्रतिपत्तिः, ‘तदभावे न प्रतिपत्तुम् अर्हति' इति सम्बन्धः । इदमपरं व्याख्यानम् - प्रमाणान्तरनिषेधे कर्त्तव्ये प्रत्यक्षलक्षणग्रहणं तन्निषेधस्य तस्यानुपपत्तेः । नहि 'सर्वथा प्रमाणान्तरं नास्ति' इति प्रत्यक्षम् इयतो व्यापारान् कर्त्तुं समर्थम् नापरमिति तदभावे न प्रतिपत्तुमर्हति । " अत्र तत्त्वोपप्लव दूं आह - चार्वाकैश्चारु चर्चितं - स्वयम् एवं लक्षणतः तदनुपपत्तिः' तेषां न दोषाय, प्रत्यक्षोपगमस्तु व्यवहारेण इति ; तत्राह किं केन ? इत्यादि । तदनुपपत्तेः २० कारणात् किं प्रत्यक्षादिलक्षणस्य परकीयस्य अतिव्याप्तयादिकम् केन ? न केनचित् विदध्यात् कुर्यात् चार्वाकः । न हि प्रमाणमन्तरेण तदपि कर्तुं शक्यं यतः " परपर्यनुयोगपराणि बृहस्पतेः सूत्राणि " 'इंति सूक्तं स्यात् । किं तत् अतिव्याप्त्यादिकं केन प्रतिषेधयेद्वा यतो यस्मात् कस्यचिद् विधानात् प्रतिषेधाच्च जगत् स्यात् । किं भूतम् ? इत्याह- चातुर्भौतिकमेव चतुर्भिः पृथिव्यादिभिः उपश्रुतत्वात् भूतैरिवेगृहाते द्वत ( भूतैरेवेति गृह्यते यतः) इति । यदि वा २५ (१) चार्वाकः । (२) 'न' इति निरर्थकं भाति । (३) अविप्लवेन सहितं वैशद्यम् । (४) प्रत्यक्षव्यक्ति । (५) अनुमान । ( ६ ) प्रत्यक्षात् । (७) प्रमाणान्तरनिषेधस्य । (८) तत्त्वोपप्लवग्रन्थस्य कर्ता जयराशिभट्टः । "नास्ति तत्फलं वा स्वर्गादि उक्तं च परमार्थविद्भिरपि - लौकिको मार्गोऽनुसर्तव्यः अ । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥" इत्यादि । ननु यद्युपप्लुतस्तस्वानां किमाया : अथातस्तत्त्वं व्याख्यास्यामः पृथिव्यतेजोवायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा इत्यादि ? न; अन्यार्थत्वात् । किमर्थम् ? प्रतिबिम्बनार्थम् । किं पुनरत्र प्रतिबिम्ब्यते? पृथिव्यादीनि तत्वानि लोके प्रसिद्धानि, तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते किं पुनरन्यानि । ( पृ० १ ) तदेवमुपप्लुतेष्वेव तत्वेषु अविचारितरमणीयाः सर्वे व्यवहारा न्त इति । ( पृ० १२५ ) - तत्त्वोप० । ( ९ ) प्रत्यक्षानुपपत्तिः । (१०) उद्धृतमिदम् - सन्मति० टी० पृ० ६९, ७४ । Jain Education International For Personal & Private Use Only १५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686