Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 588
________________ ४।१२] प्रतिभासाद्वैतनिरासः २७३ सत् *"प्रामाण्यं व्यवहारेण" [प्र० वा० १।६] इत्यभिधानात् । प्रशिथिला अविचारितरमणीया ज्ञप्तिः अस्य इति व्युत्पत्तेः इति । परमपि नास्तिक्यं दर्शयति अदृष्टम् अनुपलब्धं क्षणिकपरमाणुरूपवेदनं पुरुषवत् सकलशून्यत्वं वा परमार्थसत् इति । तत् अन्यदपि दर्शयन्नाहतथा इत्यादि । तथा तेन प्रकारेण दृष्टं दर्शनं प्रत्यक्षम् इति यावत् । दृष्टमेव इति अवधारणीयम् , तेन न अदृष्टं दर्शनादन्यत् अनुमानादिकमपि गृह्यते । तत् किम् ? इत्याह-तत्त्वम् ५ इति । तत्त्वविषयत्वात् तत्त्वं विषयिणि विषयोपचारात् यथा *"उपलम्भः सत्ता" [प्र०वार्तिकाल० ३।५४] इति । यदि वा, दृष्टमेव दर्शनविषयीकृतमिव (मेव) न अनुमानादिविषयीकृतम् आत्मादितत्त्वं परमार्थसत् इति ग्राह्यम् इति एवम् आत्मविद्विषां नैरात्म्यवादिनां सौगतलौकायतानाम् नास्तिक्यं द्वेधा इति सम्बन्धः कारिकां विवृण्वन्नाह-कुम्भस्तम्भादि दृष्टम् इत्यादि । कुम्भस्तम्भौ आदी यस्य १० चेतनेतरवस्तुनः तत् तथोक्तम् , तच्च तत् दृष्टं च दर्शनविषयीकृतम् इत्यर्थः । ननु च 'कुम्भादि' इति वक्तव्ये किमर्थं स्तम्भवचनमिति वक्तुं भव [ति]? स्तम्भस्य तद्वद्वा कुम्भस्य उपलम्भप्रतिपादनार्थम् , एकस्यापि तदपलापे द्वयोरपि स भवेत् । यथैव हि कुम्भदर्शनेन स्तम्भो न दृश्यते तथा स्तम्भदर्शनेन कुम्भोऽपि । परस्परपरिहारस्थिततदुपलम्भप्रतिज्ञाने कुतः सन्तानान्तरनिषेधो यतोऽद्वैतम् । एकस्य तदात्मकत्वे तद्ग्रहणे वा क्रमेणापि तस्य तदविरोधि १५ (ध) इति कथं नैरात्म्यं क्षणिकत्वं वा इति तत्प्रतिपादने सिद्धं भवति । 'कुम्भादि' इति पुनरुच्यमाने मतान्तरदृष्टम् आदिशब्देन पुरुषादि [२२४क] गृह्यते इति आशङ्क्येत । तत् किम् ? इत्याह-प्रज्ञप्तिसत् इति । प्रगतज्ञप्ति सहि (सदि) त्यर्थः। तैमिरिकदृष्टकेशोण्डुकवत् व्यवहारेण वा सत् । अत्र 'यद् विशददर्शन' इत्यादि साधनं द्रष्टव्यम् । तत्रैव युक्त्यन्तरमाह-संस्थानादः इत्यादि । संस्थानम् दीर्घत्वादिकम् आदिः यस्य द्रव्यसामान्यादेः तस्य स्वलक्षणेषु बहिरन्तः- २० परमाणुलक्षणेषु अभावात् । कुतः ? इत्यत्राह-वृत्ति इत्यादि । गुणिनि गुणानाम् अवयवेषु अवयविनः विशेषेषु जातेः समवायेन वर्त्तनं वृत्तिः तस्याः विकल्पः 'किम् एकदेशेन उत सर्वात्मना, क्रमेण योगपद्यन वा' इति भेदवित्तन(चिन्तनं) तेन तस्मिन् वा अनवस्था । 'एकदेशेन वर्त्तने तत्रापि अपरभिन्नदेशकल्पनम् , तत्रापि अपरमिति देशाव्यवस्थितिः, सर्वात्मना गुणगुणिनोः अन्यतरदेव स्यात् , एवमन्यत्र गुणिनोः अन्यतरत् ६ एवमन्यत्रापि वक्तव्यम् । तथा २५ सति गुणादयः "तद्वन्तश्च इति या व्यवहि (यो वृत्तिविकल्प आ)लम्बनादेः स तथोक्तः स चासौ दोषश्च तस्य अनुवृत्तेः सकाशात कुम्भस्तम्भादि दृष्टं प्रज्ञप्तिसद् इति सम्बन्धः । ___ ननु मा भूत् संस्थानादिः आधारव्यतिरिक्ता (क्तो) यथोक्तदोषात् , स्वयमेव तु स्वलक्षणं कुम्भादिस्थूलादिरूपं स्यादिति जैनः; तत्राह-स्थूलस्य अभावाद् इति । स्थूलस्य महत्त्वोपेतस्य, उपलक्षणमेतत् , तेन दीर्घादेरभावात् 'स्वलक्षणस्य' इति वचनविभक्तिपरिणामेन सम्बन्धः । ३० (१) नास्तिक्यम् । (२) उपलम्भविलोपे। (३) कुम्भस्तम्भादिप्रतिपादने । (४) पुरुषाद्वैतवादिदृष्टम् । (५) द्रष्टव्यम्-पृ० २६४ ५० ७ । (६) द्रव्यगुणकर्मसु । (७) एकदेशेऽपि । (८) वर्तने । (९) $ एतदन्तर्गतः पाठो द्विलिखितः । (१०) गुणादिवन्तश्च । ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686