Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 547
________________ २३२ सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः मिति ; तं प्रत्याह-ज्ञातुः इति। 'यः प्राक् शङ्ख शुक्लतया ज्ञातवान् , संप्रति जानाति पीततया, पुनर्ज्ञास्यति शुक्लतया स ज्ञाता' इत्युच्यते । सं च *"प्रत्यक्षं क्षणिकं विचित्र [१८९क]विषयाकारैकसंवेदनम्" [सिद्धिवि० २।३] इत्यादिना लेशतः प्रदर्शितः, प्रपञ्चतः पुनरत्रैव प्रदर्शयिष्यते । तदुक्तं न्या य वि नि श्च ये *"सत्यन्तमागरायायां (सत्यं तमाहुराचार्याः) विद्यया विभ्रमेण यः । . सदर्थमसदर्थ वा पसुरोस्वावलोकतः (प्रभुरेषोऽवलोकते) ॥" न्यायवि० ११३८] इति । वैशेषिकस्त्वाह-ज्ञानोत्पत्तेः प्राक् आत्मा विद्यते, स तु तदा ज्ञानाभावादेव विषयं सन्तमपि न विषयीकरोति नावरणादिति; *"देवरक्ताः किंशुकाः" इति न तत्रं नः प्रयासः १० आवरणसाधने । तत्र केवलं धर्मादिसामग्रीतः समीचीनज्ञानम्, अन्यस्याः मिथ्याज्ञानमिति विभाग इति । तत्रोत्तरमाह-स्वतः इति । स्वात्मरूपेण न अर्थान्तरज्ञानसम्बन्धेन 'ज्ञातुः' इति वृत्तौ प्रतिपादयिष्यते । विभ्रमैकान्तवादी प्राह-भवतु कश्चित् स्वयं ज्ञाता, से च स्वभावत एव विपरीतार्थग्राही नावरणादिति; तत उत्तरं पठन्ति-सतोऽवितथस्य यथावस्थितस्वार्थग्रहणस्वभावस्य इत्यर्थः । १५ स्वतः' इत्येतदत्रापि सम्बन्धनीयम् , कथमन्यथा विभ्रमैकान्तस्यापि प्रतिपत्तिः । न हि विभ्रमादेव तत्प्रतिपत्तियुक्ता, अतिप्रसङ्गात् । तदुक्तं केनचित्__ *"प्रभासु(स्व)रमिदं चित्तं प्रकृत्याऽऽगन्तवो मलाः।" [प्र. वा० ११२१०] इति । परः पुनरेवं मन्यते-स्वतस्तस्य मिथ्यादर्शनात्मकत्वम् अन्यतो यथार्थदर्शनात्मकत्वमिति; १. स 'विषात्' इत्यनेन निरस्तः; विषाद्युपयोगान्वयव्यतिरेकानुविधायितया दृश्यमानस्य मिथ्या दर्शनस्य अन्यतः कल्पने धूमोऽपि अग्निप्रभवो न स्यात् । स्वतश्च मिथ्यात्वेन सर्वसंविदां कुतः स्वसंवेदनपरमार्थ[१८९ख]सिद्धिः ? नहि तत्र पूर्वसंवेदनादन्यस्य व्यापारः *"चक्षुरादेविषयप्रतिनियमः विषयात् तदाकारता आलोकात् स्पष्टता विज्ञानाद् विज्ञानस्य विद्रूपता।" इति वचनात् । नापि स्वसंवेदनपरमार्थाऽसिद्धौ सौगताः सुखमासितुं कालकलालेशमपि समर्थाः, २५ कस्यचिद् विधिनिषेधायोगात् । ततः स्थितम्-'स्वतः सतः' इति । ____ नन्वेवं चेदिदमनुमानं तर्हि 'मिथ्याज्ञानमप्रमाणम्' इत्येवास्तु, किं 'विसंवादात्' इत्यनेन इति चेत् ? उच्यते-'विवादास्पदीभूतं मिथ्याज्ञानम् अदृष्टावरणम्' इति साधयन्तं प्रति यदा कश्चिद् ब्रवीति 'कस्यचिन् मिथ्याज्ञानस्य अभावात् साध्यदृष्टान्तधर्मिणोरसिद्धिः' इति; तदा तं प्रति तद्धर्मिणः (णोः) साधनार्थम् 'विसंवादात्' इत्युच्यते । यतः अभ्युपगच्छतापि ३० प्रज्ञा क रे ण प्रतिभासाद्वैतम् 'इदम् अतो जायते, इदमस्माद् दूरं निकटम्' इत्यादि विकल्पबुद्धीनां निर्विषयत्वाऽपरनामा विसंवादोऽभ्युपगन्तव्यः कथमन्यथा प्रतिभासाद्वैतम् ? तथा च (१) ज्ञाता । (२) ज्ञानाभावान्न ग्रहणमित्यत्र । (३) सति । (४) टीकायाम् । (५) ज्ञाता । (६) विभ्रमप्रतिपत्तिः। (७) ज्ञानरूपता। (८) साध्यदृष्टान्तधर्मिणोः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686