Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 563
________________ २४८ सिद्धिविनिश्चयटीकायाम् [४ जीवसिद्धिः लब्धिप्रतिघातकृत् ; तर्हि पटाभावः सकलस्य उपलब्धिप्रतिबन्धकारी स्यात् प्रत्यासत्ति [२०२ख] विप्रकर्षाभावात् । अद्या (अन्या) भावेनापि भावस्य विशेषणीभावस्य अस्य (अन्यस्य) वा सम्बन्धस्य परं प्रत्यसिद्धत्वात् , अनवस्थानात् ] सम्बन्धान्तराभावात् । यदि पुनः, विशेषणीभावः अपरसम्बन्धरहितोऽपि कस्यचिदुच्यते; तर्हि समवायाद्यभावेऽपि गुणादिः कस्यचिदुच्यताम५ विशेषात् । इन्द्रियेणाऽसम्बद्धस्य च तस्य ग्रहणे किमत्र [किमन्यत्र] इन्द्रियस्य विषयेण सम्बन्धकल्पनेन ? किञ्च, प्रध्वंसनाशवत् प्रागभावनाशोऽपि घटोपलब्धि प्रतिबध्नाति इति न पुनः [घटोत्पत्तिः स्यात् । अथ] घटभावेने तत्त्वाशयस्यु (तत्प्रागभावस्य) तिरस्कारात् नासौ तर्नुपलब्धि प्रतिबन्धकः; किमसौ तद्भावः प्रध्वंसकाले नास्ति येन तस्कारैको (तत्तिरस्कारको) न भवेत् । न १० चैकस्य एकत्र क्रियाऽक्रिये विरोधात् । अनादित्वात् प्रागभावस्य गगनादिवन्न नाश इत्येके; तेषां प्रागिव घटोत्पत्तिकाले दृश्यः सन् उपलभ्यते इति तदापि घटो नाद्यापि उत्पद्यते इति प्रतीतिः स्यात् पूर्ववत् । अथ घटभावेन तिरस्कार।त् सतोऽपि तारानिकरस्येव भास्वता तस्याऽनुपलम्भनम् ; नित्यस्य स्वविषयविज्ञानोत्पादनयोग्यस्य (स्याऽ) समग्रेतरकारणस्य ति[रस्कारा]योगात् । न च नित्यव्यापिनो व्यवधानं शब्दवत् । तदेवम् अनुपलब्धिकारणेषु दूरत्वादिषु असत्स्वपि अनुप१५ लभ्यमानोऽपि [२०३क] यदि प्रागभावो धटकालेऽस्ति शब्दः ताल्वादिव्यापारात् पूर्वमूर्ध्वं च तथा अस्ति इति तस्य आकाशकार्यगुणत्वकल्पनमयुक्तम् । ननु यथा नित्यव्यापिनः सतो दृश्यस्यापि गोत्वादेः केनचित् तिरस्कारस्तथा अत्रापि स्यादिति चेत् ; न; तत्रापि समत्वाद् दोषस्य । यदि पुनरेतन्मतम्-"तदभावेन "तस्य दृश्यताख ण्डनातिरस्कार इति; तर्हि प्रागभावस्यापि नाशोऽभ्युपगतः स्यात् । अपि च, प्रध्वंसस्यापि २. "तदभावः तिरस्कारकोऽस्तु भावतिरस्कारकत्वात् प्रागभाववत् । अस्याऽनभ्युपगमे नानुमानव्यवस्था । ततः सूक्तम्-हेतुत्व इत्यादि । _अत्र केचित् चोदयन्ति-यदि भावाद् मिन्नं विनाशमुद्दिश्य इदं दूषणमुच्यते सूरिणा, तर्हि भावस्य 'तत्कालेऽपि तदवस्थस्यैव भावात् किमर्थमुच्यते-'विनाशस्य नाशाद्भावः पुनर्भ वेत्' इति । नहि गगनादेः सतः पुनर्भावो युक्तः। अथ 'पुनर्भवेत्' इति 'पूर्ववद् दर्शनादि२. विषयो भवेत्' इति व्याख्यायते; तदपि न सुन्दरम् ; "तदापि ततः तद्विषयतानिषेधात् । इति ना अस्यापि दोषस्य अत्रैव निर्देशात् । तथाहि-हेतु[म] त्वे विनाशस्य अभ्युपगमम्यमाने नाशात् ततो विनाशात् सकाशाद् भावो घटादिः पुनः इति अवधारणार्थः, अन्य[थेत्य]स्य अनन्तरं द्रष्टव्यः, अन्यथैव अन्येन एवकारेण एकान्तेन भिन्न इत्यर्थः भवेत् साधदि (स्यात् यदि) इति शेषः । अत्र पक्षे दूषणम् ऐकान्तिका इत्यादि । न इत्ययं भिन्न प्रक्रमः ऐका (१) द्रव्यस्य । (२) अभावस्य । (३) सन्निकर्ष । (४) अभावत्वाविशेषात् । (५) घटोत्पादेन । (६) घटोपलब्धि । (७) प्रागभावः । (८) घटोत्पत्तिकालेऽपि प्रागभावः स्यादिति । (९) प्रागभावस्य । (१०) शब्दस्य । (११) प्रागभावाभावेन । (१२) प्रागभावस्य । (१३) प्रध्वंसाभावाभावः । (१४) एतदनुमानानभ्युपगमे । (१५) विनाशकालेऽपि । (१६) पूर्वमपि । (१७) इतिशब्देन । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686