Book Title: Siddhi Vinischay Tika Part 01
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

Previous | Next

Page 511
________________ १९६ सिद्धिविनिश्चयटीकायाम् [ ३ प्रमाणान्तरसिद्धिः इति । द्वितीयं प्रयोगमाह-तच्च उत्तरम् अनन्तरं वा कार्यं तस्य कार्यं न भवति । कुत एतत् ? इत्यत्राह - जातेरुत्पत्ते [:] तदत्यये कारणाभिमतात्यये । अत्रापि 'यथा व्यवहितम्' इति निदर्शनं योज्यम् । यथा भाविकालव्यवहितं विधवागर्भ कार्यं विनष्टस्य परिणेतुर्न भवति तथा प्रकृतमपि इति । ५ कारिकायाः सुगमत्वाद् व्याख्यानमकृत्वा यदुक्तं परेण - "अप्राप्त कालत्वाविशेषेऽपि पूर्वः अनन्तरमेव कारणं न व्यवहितं विचित्रत्वाद् भावशक्त ेः । नहि प्राप्तकालमपि सर्वं कारणमिति सन्दिग्धविपक्षव्यावृत्तिको हेतुः । एतेन द्वितीयोऽपि हेतुः चिन्तितः । " इति; एतत् परिहरन्नाह - व्यवहितस्य इत्यादि । व्यवहितस्य चिरविनष्टस्य अनन्तरनष्टस्य च कार्योत्पत्तौ [१६१ख] क्रियमाणायां व्यावृत्तेः निर्वृत्तेः अविशेषात् उपयोगः व्यापारो न १० विशिष्येत । तथा च अनन्तरवद् व्यवहितमपि कारणं स्यात् 'विचित्रत्वाद् भावशक्तेः' अत्रापि न दण्डधारितम् इति प्रज्ञा कर गुप्तस्यैव मेतं न धर्मो त रा दी ना म् इति मन्यते । कुतो न विशिष्यते ? इत्याहह - निवृत्तेः निःस्वभावत्वात् । ननु यदि निवृत्तेः निःस्वभावत्वान्न विशेषः, कस्य तर्हि विशेषः ? इत्याह- भावस्यैव नाऽभावस्य कथञ्चित् केनापि समर्थेतरादिप्रकारेण विशेषस्य भेदस्य उपपत्तेः उपयोगो न विशिष्यत इति । १५ अत्राह कश्चित् - व्यवहितमपि किश्चित् कारणं जाग्रज्ज्ञानादिः प्रबोधादेः, तस्य च स्वकाले भावत्वाद् विशेषोपत्तिः इति साध्यविकलो दृष्टान्त इति तत्राह - चित्र इत्यादि । चित्रो निर्भासो यस्य तत्तथोक्तं तच्च तत्क्षणिकज्ञानं च तस्य इव तद्वत् इति । चित्रकक्षणिकज्ञानसमानस्य भावस्य परिणामिन इत्यर्थः । एतदुक्त' भवति - यत् तद् व्यवहितस्यापि कारणत्वे जाग्रद्विज्ञानं दृष्टान्तीकृतम्, तच्च निरंशैकपरमाणुपर्यवसितस्वभावम्; तर्हि न तत् वादिनः प्रतिवादिनो २० वा प्रमाणतः सिद्धमिति कथं निदर्शनं पुरुषवत् ? अथ *" चित्रप्रतिभासापि एकैव बुद्धिः" [प्र० वार्तिकाल० ३।२२०] इत्यादि वचनात् चित्रमेकम्; न तत् सौगतस्य दर्शनमनुसरति किन्तु जैनस्य अक्रमेण इव क्रमेणापि आत्मनो दृश्येतरस्वभावेनापि चित्रत्वप्रसाधनात् । तन्न किञ्चिदेतत् । २५ उपसंहारमाह-यत एवं ततः अनेन । केन ? उत्तरेण कार्येण [१६२ क] कथम्भूतेन ? पूर्वस्य कारणस्य अभावे एव न भावे भवता जायमानेन । किंकत्तथ्यम् ( किं कर्त्तव्यम् ) ? इत्याह-अनिष्टेऽपि न केवलम् इष्टे अनन्तरकाले भवितव्यमिति । इति पूर्वाभावस्य तत्कारणस्य सर्वत्र काले अविशेषात् । न चाऽविकले कारणे कार्यानुत्पादो युक्त इति मन्यते । ननु सर्वदा तदविशेषेऽपि कार्यं प्रतिनियतकालं जायते इति चेत्; अत्राह - अन्यथा इत्यादि । अनिष्टकालोत्पत्त्यभावप्रकारेण अन्यथा स्वत एव आत्मनैव नियतकालं यत् स्वातन्त्र्यं निर्हेतुकत्वं सूचयत् दुस्तरं कार्यलक्षणम् परायत्तत्वम् अतिवर्त्तेत भावाऽभावयोः अँनायत्तत्वात् । ३० (१) अभावस्य । (२) प्रज्ञाकरो हि व्यवहितकारणवादी । ( ३ ) प्रज्ञाकरः । " गाढसुप्तस्य विज्ञानं प्रबोधे पूर्ववेदनात् । जायते व्यवधानेन कालेनेति विनिश्चतम् ॥” - प्र० वार्तिकाल० पृ० ६७ । (४) जाग्रद्विज्ञानम् । (५) विज्ञानाद्वैतवादिनः प्रज्ञाकरस्य । (६) जैनादेः । (७) स्वतन्त्रत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686